SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां भावे स्त्रीप्रत्ययाः ९६१ मृगयेच्छायाच्आतृष्णाकृपाभाश्रद्धान्तर्धा ॥ १६७ ॥ [सि० ५।३।१०१ ] एते स्त्रियां निपात्याः ॥१६७॥ 'मृग' एते इत्यादि । तत्रेच्छा भावे एव । शेषास्तु भावाकोंः । अन्ये तु सर्वान् भाव एवानुमन्यन्ते । मृगयतेः शः शव च क्यापवादो निपातः । इच्छतेः शः क्याभावश्च इच्छा, । याचितृष्योर्ननङौ याच्या । तृष्णा । केचित्तु भिदादित्वात् तृषा । खमते तु क्रुत्सम्पदादित्वात्५ (५।३।११४ ) तृद, क्रपे रेफस्य च ऋकारः कृपा । भातेरङ् भा । श्रत्पूर्वादन्तरपूर्वाच्च दधातेरङ् श्रद्धा अन्तर्धा ॥ १६७ ॥ : परेः सृचरेयः ॥ १६८॥ [सि० ५।३।१०२] आभ्यां परिपूर्वाभ्यां यः स्यात् । परिसर्या परिचर्या ॥ १६८ ॥ 'परेः०' यः स्यादिति भावाकोंः । भाव इत्यन्ये । एवमप्रेतनसूत्रद्वयेऽपि । परेरिति किम् ? १० सुं, संसृतिः चूर्तिः ॥ १६८॥ ___वाऽटाट्यात् ॥ १६९ ॥ [ सि० ५।३।१०३ ] अटेर्यङन्ताद्वा यः। अटाट्या अटाटा ॥ 'जागुरश्च' (५।३।१०४) जागर्या जागरा ॥ 'शंसिप्रत्ययात्' (५।३।१०५) आशंसा । गोपाया । चिकीर्षा ॥ 'क्नेटो गुरोर्व्यञ्जनात्' (५।३।१०६) अ: स्यात् । ईहा ऊहा ॥ १६९ ॥ 'वा' अटाटा इति । पक्षे अः प्रत्ययः । अटाट्या । अन्ये तु क्तिप्रत्ययबाधनार्थमयङन्तस्य यप्रत्ययं द्विवचनम् पूर्वदीर्घत्वं च निपातयन्ति । अटनमटाट्या ॥ 'जागु०' (५।३।१०४ ) जागर्तेः त्रियामः प्रत्ययो यश्च स्यात् ॥'शंसि०' (५।३।१०५) शंसेः प्रत्ययान्तेभ्यश्च धातुभ्यः भावाकों: स्त्रियामङ् स्यात् । गोपायेति । एवं ऋतीया मीमांसा कण्डूया लोलूया। चिकीर्षेति एवं पुत्रकाम्या पुत्रीया गवा गल्भा श्येनाया पटपटाया । शंसूः क्तेऽनिडिति वचनम् ॥ "क्त०' (५।३।१०६)२० क्तस्येड् यस्मात् स क्तेद । क्तेटो गुरुमतो व्यञ्जनान्ताद्धातोः स्त्रियां भावाकोंरः स्यात् । ऊहेति । एवं ईक्षा उक्षा कुण्डा हुण्डा शिक्षा भिक्षा व्यतीहा व्यतीक्षा । क्तेट इति किम् ? सस्तिः ध्वस्तिः आप्तिः दीप्तिः अक्तिः राद्धिः । चाय अपचितिः। स्फूर्छा स्फूर्तिः । मूर्छा मूर्तिः । गुरोरिति किम् ? स्फुर स्फूर्तिः । व्यञ्जनादिति किम् ? संशीतिः ॥ १६९ ॥ षितोऽङ् ॥ १७० ॥ [ सि० ५।३।१०७] षिद्भयो धातुभ्यो भावाकोंः स्त्रियामङ् स्यात् । पचा ॥ १७० ॥ 'षितो.' पचेति । एवं क्षमा । शान्तिरिति तु क्षाम्यतेः । एवं घटा त्वरा प्रथा व्यथा जरा । 'ऋवर्णदृशोऽङि' (४।३७) इति गुणः । उकारो ङित्कार्यार्थः ॥ १७० ॥ भिदादयः ॥ १७१ ॥ [सि० ५।३।१०८] एते भावाकोंः स्त्रियामङन्ता निपात्याः । भिदा । छिदा ॥ १७१ ॥ 'भिदा' निपात्या इति । अत्र यथादर्शन मिति शेषः । भिदा विदारणं । छिदा द्वैधीकरणम् ।३१ है. प्रका० उत्त• १२१ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy