________________
९६०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
कण्डूतिः कण्डूः कण्डूया । व्यवक्रुश् व्यवक्रुष्टिः व्यावक्रोशी । इष् इष्टिः इच्छा । यज इष्टिः इज्या । मन् मतिः मन्या । आस् आस्या उपास्तिः उपासना । शास् अनुशिष्टिः आशीः । भृग् भृतिः भृत्या । स्तूयते इज्यते इष्यतेऽनयेति स्तुतिः इष्टिः । इष्टिरिति संज्ञाशब्दत्वात्करणेऽपि क्तिरेव नानट् । एवं स्तुतिः । अन्यत्र तु स्पर्द्धे परत्वात् स्त्रीखलना अलो बाधकाः स्त्रियाः खलनाविति न्यायः । 'समिणा५ सुग' (५|३|९३ ) सम्पूर्वादिणः आङ्पूर्वात्सुनोतेच भावाकर्त्रीः स्त्रियां क्तिः स्यात् । क्यपोऽपवादः । समितिः आसुतिः । समाङोऽन्यत्र इत्या सुत्येति क्यबेव ॥ १६३ ॥ सूत्रम् । सातिहेतियुतिजूतिज्ञप्तिकीर्त्ति ॥ १६४ ॥ [ सि० ५।३।९४ ]
एते भावाकः स्त्रियां निपात्याः । ( fगापाधात्वोरीत्वं भावे ) गीतिः पीतिः । (* स्थो वा) स्थितिः आस्था ॥ १६४ ॥
1
१० 'साति०' सुनोतेः सिनोतेः स्यतेर्वा आत्वमित्वाभावश्च निपात्यते । सातिः । हिनोतेर्गुणे हन्तेर्वान्त्यस्वरादेरेत्वे च हेतिः । यौतेर्जवतेश्च दीर्घत्वे यूतिः जूतिः । ज्ञपयतेर्क्षप्तिः । कीर्त्तयतेः कीर्त्तिः । आभ्यां ण्यन्तलक्षणोऽनो न भवति । कीर्त्तनेत्यपि कश्चित् । "गापापचो भावे' (५।३।९५) एभ्यो भावे स्त्रियां क्तिः स्यात् । गा इति सामान्येन ग्रहणम् । 'ईर्व्यञ्जनेऽयपि ' (४।३।९७) इति ईत्वे गीतिः प्रगीतिः सङ्गीतिः । पा इति गापचिसाहचर्यात् पिबतेर्ग्रहणम् । प्रपीतिः सम्पीतिः । १५ पक्तिः प्रपक्तिः । भावग्रहणमर्थान्तर निरासार्थम् । बाधकस्याङोऽपवादः । * स्थो वा' (५।३।९६ ) तिष्ठतेर्भावे स्त्रियां तिर्वा स्यात् । स्थितिः प्रस्थितिः उपस्थितिः वावचनादङपि । आस्था व्यवस्था संस्था । प्राग्वदङोऽपवादः । इति क्तिप्रत्ययप्रकरणम् ॥ १६४ ॥
आस्यटिव्रज्यजः क्यप् ॥ १६५ ॥ [ सि० ५।३।९७ ]
एभ्यो भावे स्त्रियां क्यप् स्यात् । आस्था । अट्या | व्रज्या । इज्या ।। १६५ ।।
२०
'आस्य०' एभ्यो भावे स्त्रियां क्यप् स्यात् । आस् आसनं आस्या । अट, अट्या - वृथांट्या खलु सा तस्याः । व्रज् इज्या । ककारः कित्कार्यार्थः । पित्करणमुत्तरत्र तागमार्थम् ॥ अत्रायं विशेषः । 'भृगो नाम्नि' (५।३।९८) भावे स्त्रियां क्यप् स्यात् । भरणं भृत्या । 'समजनिपनिषदशीसुविदिचरिमनीण:' ( ५। ३ ।९९) योगविभागात् भाव एवेति निवृत्तम् । एभ्यो दशभ्यो नाम्नि भावाकर्त्रीः स्त्रियां क्यप् स्यात् । अस्य कृत्यसंज्ञा न भवति । तत्र प्रकरणे विहि२५ तस्यैव तस्य तथाभावात् । समजन्त्यस्यामिति समाज्या पर्षत् । संज्ञाशब्दत्वादाधारेऽपि क्यप् । निपतन्निषदेति संहितानिर्देशात्पतेः पदेश्च ग्रहणम् । निपतनं निपदनं निपद्यन्तेऽस्यामिति ( निपत्या ) निपद्या । निषद्नं निषीदन्त्यस्यामिति वा निषद्या । शेरतेऽस्यामिति शय्या । सवनं सुन्वन्त्यस्यामिति वा सुया । वेदनं विदन्त्यस्यां तया वा हिताहितमिति विद्या । चरणम् चरन्त्यनया वा चर्या । मननं मन्यतेऽनयेति वा मन्या । अयनमेत्यनयेति वा इत्या । नानीत्येव । सन्वीतिः निपत्तिः ३० निष्पत्तिः ॥ १६५ ॥ सूत्रम्
1
कृगः श च वा ॥ १६६ ॥ [ सि० ५|३|१०० ]
कृगो भावाकत्रः शः क्यप् च वा स्याताम् । क्रिया कृत्या कृतिः ।। १६६ ।। 'कृगः०' करणं कृतिः । कृत्या | पक्षे कृतिः क्रियेति यदा भावकर्मणोः शस्तदा मध्ये क्यः । ३४ यदा त्वपादानादौ शस्तदा क्यो नास्तीति रेरिकारस्येयादेशः ॥ १६६ ॥ सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org