________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां भावाकत्रः प्रत्ययाः
९५९
1
परिदानेन निर्वृत्तं परीत्रिमम् । एवं वापेन निर्वृत्तं उप्त्रिमम् लाभेन निर्वृत्तं लत्रिमम् । विधानेन निर्वृत्तं विहित्रिमम् । याचित्रिमम्, द्विदसाविति कश्चित् याथुः । ककारः कित्कार्यार्थः ॥ १५९ ॥ यजिखपिरक्षियतिप्रच्छो नः ॥ १६० ॥ [ सि० ५।३।८५ ]
एम्यो भावाकर्त्रीर्नः स्यात् । यज्ञः । स्वमः । यलः रक्ष्णः । प्रश्नः ।। १६० ।।
1
'यजि०' स्पष्टम् । यजनं यज्ञः । रक्षणं रक्ष्णः । ' रक्ष्णखाणे' इत्यभिधानचिन्तामणौ ॥५ आदिशब्दात् 'विच्छो नङ्-' ( ५|३|८६ ) ' विच्छत् गतौं' इत्यस्माद् भावाकर्नङ् स्यात् । ङकारो गुणप्रतिषेधार्थः । विच्छन्नं विश्नः । 'अनुनासिके ० च०' (४।१।१०८) इति छस्य शः ॥ १६०॥ उपसर्गाः किः ॥ १६९ ॥ [ सि० ५।३।८७ ]
सोपसर्गाद्दासंज्ञात्किः स्यात् । आदिः । निधिः ॥ १६१ ॥
'उप०' निधिरिति । एवं प्रधिः आधिः विधिः सन्धिः समाधिः । कित्करणमाकार- १० लोपार्थम् ॥ १६१ ॥
व्याप्यादाधारे ॥ १६२ ॥ [ सि० ५।३।८८ ]
व्याप्यपूर्वाद्दासंज्ञादाधारे किः स्यात् । जलधिः । *अन्तर्धिः ॥ १६२ ॥
'व्याप्या०' जलं धीयतेऽस्मिन्निति जलधिः । एवं शरधिः इषुधिः वालधिः शेवधिः । आधारग्रहणमर्थान्तरनिषेधार्थम् । * ' अन्तर्धिः ' ( ५।३।८९ ) अन्तरपूर्वाद्दधातेर्भावाकत्रः किः प्रत्ययो १५ निपात्यते । अन्तर्द्धिः । आदिशब्दात् 'अभिव्याप्तौ भावेऽनञिन्' ( ५।३।९० ) क्रियया स्वसम्बन्धिनः साकल्येनाभिसम्बन्धो व्याप्तिः । तस्यां गम्यायां भावे धातोरनः मिन् एतौ स्याताम् । समन्ताद्रावः संरवणं सांराविणम् । सेनायां वर्त्तते 'नित्यं मिणोण' (७।३।५८) इत्यण् सङ्कटनम् । साङ्कोटिनमेषाम् । अभिव्याप्ताविति किम् ? संरावः सङ्कोटः । भावग्रहणं कर्मादिप्रतिषेधार्थम् । असरूपविधिना क्त्वनादिनिवृत्त्यर्थमनग्रहणम् ॥ १६२ ॥ सूत्रम्
२०
स्त्रियां तिः ॥ १६३ ॥ [ सि० ५।३ । ९१ ]
भावाकर्त्रीः स्त्रियां क्तिः स्यात् । कृतिः । 'ऋत्वादे० ' ( ४ २ ६ ) इति नत्वे लूनि: । 'यपि चा० ' ( ४|४|१६ ) इति जग्धादेशे जग्धिः ॥ १६३ ॥
1
'स्त्रि० ' स्त्रियामिति प्रत्ययार्थविशेषणम् । धातोर्भावाकत्रः स्त्रीलिङ्गे क्ति: स्यात् । घनादेरपवादः । कृतिरिति । एवं हृतिः चितिः प्रीतिः नुतिः भूतिः । स्त्रियामिति किम् ? कारः चयः ।
२५
I
आदिशब्दात् 'श्रवादिभ्यः' (५।३।९२ ) शृणोत्यादिभ्यो धातुभ्यः स्त्रियां भावाकर्त्रीः क्तिः स्यात् । वक्ष्यमाणैः क्विबादिभिः समावेशार्थं वचनम् । श्रु श्रुतिः प्रतिश्रुत् । स्तु स्तुतिः । प्रतिस्तुत् उपसर्गाणामतत्वात् श्रुसदादिभ्यः क्तिविबादयोऽप्यनुज्ञाताः । पद् सम्पत्तिः सम्पत् । सद् आसत्तिः संसत् । उपनिषत् । निषदनं निषीदन्त्यस्यामिति वा निषद्या । शीङ् शेरतेऽस्यामिति शय्या । सुग् सवनं सुन्वन्त्यस्यामिति वा सुत्या । वित्तिः विदू संविद्या वेदना । लभ लब्धिः लभा । अई शिरोऽर्त्तिः ३० अर्द्दिक। । यद्यपि णकप्रस्तावे शिरोऽर्दनं शिरोऽर्तिरित्यत्र बाहुलकाण्णको निषिद्ध:, 'केट ० ' इत्यप्रत्ययोऽपि; तथापि तत्र भावे एव, अत्र त्वपादानादौ । अर्द्यतेऽस्याः 'नानि पुंसि च ' ( ५|३ | १२१ ) इति णकः । भावे तु न, तन्त्रैव बाहुलकादिति भणनात् । शंस् प्रशस्तिः प्रशंसा । पचू पक्तिः पचा । कण्डूय ३३
1
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org