________________
९५८८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुहस्तप्राप्यम् । तद्विषयाचिनोतेर्घञ् स्यात् । अस्तेये, न चेद्धात्वर्थः स्तेये चौर्ये भवति । हस्तप्राप्यशब्देन प्रत्यासत्तिः प्राप्यस्य लक्ष्यते । तेन प्रत्यासत्तिविषये धात्वर्थे विधानम् । पुष्पप्रचायः । फलावचायः । पुष्पोच्चायश्च संहतैः । उदो नेच्छन्त्यन्ये । फलोच्चयः । हस्तप्राप्य इति किम् ? पुष्पप्रचयं करोति तरुशिखरे । अस्तेय इति किम् ? स्तेयेन पुष्पप्रचयं करोति । हस्तप्राप्यशब्देन प्रमाणमप्युच्यते । ५यद्धस्ते सम्भवति संमाति न तद्धस्तादतिरिच्यते इति । ततश्च 'माने' (५।३।८१) इत्यनेनैव सिद्धे नियमार्थ वचनम् । अस्तेय एवेति, तेन पुष्पाणां हस्तेन प्रचयं करोति चौर इत्यत्र ‘माने' इत्यनेनापि घञ् न भवति । 'चितिदेहावासोपसमाधाने कश्चादेः' ( ५।३।७९) चीयते इति चितिर्यक्षेऽग्निविशेषः तदाधारो वा । देहः शरीरम् । आवासो निवासः। उपसमाधानमुपर्युपरि राशीकरणम् ।
एष्वर्थेषु चिनोतेर्भावाकोंर्षन् , तत्सन्नियोगे चादेः ककारादेशो भवति । चितौ आकायमग्निं १०चिन्वीत । देहे कायः शरीम् । आवासे ऋषिनिकायः । उपसमाधाने गोमयनिकायः गोमयपरिकायः
कथं काष्ठनिचयः ? बहुत्वमात्रविवक्षया । एग्विति किम् ? चयः । चः क इत्येव सिद्धे आदिग्रहणामादेरेव यथा स्यात् । तेन चेर्यलुपि निकेचायः इत्येव भवति । 'सङ्केऽनूचे' (५।३।८०) न विद्यते कुतश्चिदूर्ध्वमुपरि किश्चिद्यस्मिन् सोऽनूलः, तस्मिन् सो प्राणिसमुदाये चिनोतेर्भावाकों
घंञ् स्यात् । तत्सन्नियोगे चादेः कः स्यात् । वैयाकरणनिकायः । सङ्घ इति किम् ? सारसमुच्चयः । १५ अनूर्व इति किम् ? सूकरनिचयः । सूकरा उपर्युपरि चीयन्ते । 'माने (५।३।८१) माने गम्यमाने
धातोर्भावाकोंर्घञ् स्यात् । मानमियत्ता, सा च द्वेधा-सङ्ख्या परिमाणं च । एको निघासः द्वौ निघासौ । एकस्तण्डुलावक्षायः । एकस्तण्डुलनिश्चायः । एकः कारः द्वौ कारौ त्रयः काराः । द्वौ सूर्पनिष्पावौ । समित्सङ्ग्राहः तन्दुलसङ्ग्रहः मुष्टिरित्यर्थः । मान इति किम् ? निश्चयः । अल एनायमपवादः, क्त्यादिभिस्तु बाध्यते । एका तिलोच्छृतिः । द्वे प्रसृती । 'स्थादिभ्यः कः' (५।३।८२) २० एभ्यो भावाकोंः कः स्यात् । आखूनामुत्थानं आखूत्थो वर्त्तते । प्रतिष्ठन्तेऽस्मिन्निति प्रस्थः सानुः ।
संतिष्ठन्तेऽस्यामिति संस्था । व्यवतिष्ठतेऽनयेति व्यवस्था । प्रस्त्रात्यस्मिन्निति प्रस्नः । प्रपिबन्त्यस्यामिति प्रपा । विध्यतेऽनेनेति विधः । आविध्यतेऽनेनेति आविधः । विहन्यतेऽनेनास्मिन्निति वा विनः । आयुध्यतेऽनेनेत्यायुधम् । आध्यायन्ति तमित्यादयः । पृषोदरादित्वात् धस्य ढः । सर्वापवादत्वादनटमपि कप्रत्ययो बाधते । कथमाव्याधः घातः विघातः उपघातः ? बहुलाधिकारात् । बहुवचनं २५प्रयोगानुसरणार्थम् ॥ १५७ ॥ सूत्रम्
द्वितोऽथु ॥ १५८ ॥ [ सि० ५॥३॥८३] द्वितो धातोर्भावाकोरथुः स्यात् । वेपथुः । वमथुः ॥ १५८ ॥ 'द्वितो०' वमथुरिति । एवं स्फूर्जथुः भ्रासथुः नन्दथुः क्षवथुर्दवथुः । असरूपत्वाद् घञ्लावपि । वेपः क्षवः ॥ १५८ ॥
डितस्त्रिमा तत्कृतम् ॥ १५९ ॥ [सि० ५॥३॥८४] ड़ितो धातोर्भावाकोंत्रिमक, तेन कृतमित्यर्थे । पाकेन कृतं पवित्रमम् । कृत्रिमम् । दागस्त्तादेशे, परीत्रिमम् ॥ १५९ ॥ ३३ शित०' तेन कृतमिति तेन धात्वर्थेन कृतं निर्वृत्तमित्येतस्मिन्नर्थे । करणेन निर्वृत्तं कृत्रिमम् ।
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org