________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां भावाकोंः प्रत्ययाः ९५७ द्भवतेरवज्ञानेऽर्थे वर्तमानाद् घञ् वा स्यात् । अवज्ञानं सत्कारपूर्वकोऽवक्षेपः । परिभावः परिभवः । अवज्ञान इति किम् ? समन्ताद्भवनं परिभवः । 'यज्ञे ग्रहः' (५।३।६५) परिपूर्वाग्रहेयज्ञविषये प्रयोगे घञ् स्यात् । पूर्वपरिग्राहः । उत्तरपरिग्राहः । वेदेर्यज्ञाङ्गभूताया ग्रहणविशेष एताभ्यामभिधीयते । यज्ञ इति किम् ? परिग्रहः कुटुम्बिनः । 'संस्तोः ' (५।३।६६ ) सम्पूर्वात् स्तौतेर्यज्ञविषयेऽर्थे घञ् स्यात् । संस्तुवन्त्यत्रेति संस्तावश्छन्दोगानाम् । समेत्य स्तुवन्ति यत्र देशे ५ छन्दोगाः स देशः संस्ताव उच्यते । यज्ञ इत्येव । संस्तवोऽन्यदृष्टेः । 'प्रात्सुदुस्तोः ' (५।३।६७) प्रात् परेभ्य एभ्यो घञ् स्यात् । प्रस्रावः । प्रद्रावः । प्रस्तावः । प्रादिति किम् ? स्रवः द्रवः स्तवः । कथं स्रावः ? । बहुलाधिकारात् । अयज्ञे स्त्रः' (५।३।६८) प्रपूर्वात् स्तू इत्येतस्माद्धातोर्घब् स्यात् । अयज्ञे न चेद्यज्ञविषयः प्रयोगः स्यात् । प्रस्तारः। मणिप्रस्तारः । विमानप्रस्तारः । नयप्रस्तारः । अयज्ञ इति किम् ? बर्हि प्रस्तरः । 'समासेऽसमस्तस्य' (२।३।१३) इति षत्वम् १० ॥ १५६ ॥ सूत्रम्
वेरशब्दे प्रथने ॥ १५७ ॥ [सि० ५।३।६९ ] वेः परात स्तृणातेरशब्दविषये विस्तीर्णत्वे घञ् स्यात् । विस्तारः पटस्य । शब्दे तु विस्तरः ॥१५७॥ __ 'वेर०' प्रथनं विस्तीर्णता । यथा विस्तारः पटस्य । प्रथन इति किम् ? तृणस्य विस्तरः छादन-१५ मित्यर्थः । अशब्द' इति किम् ? 'दधातु तुष्टिं मयि विस्तरो गिराम्' । शाब्दस्तु विस्तर इत्यभिः । आदिशब्दात् 'छन्दो नाग्नि' ( ५।३।७०) छन्दः पद्यो वर्णविन्यासः । विपूर्वात् स्तृणातेः छन्दोनाम्नि विषये घञ् स्यात् । विष्टारपतिः । केचित्तु वेरन्यतोऽपीच्छन्ति । आस्तारपतिः । प्रस्तारपतिः । छन्दो नाम । 'क्षुश्रोः' (५।३।७१) क्षौतेः शृणोतेश्च विपूर्वाद् घञ् स्यात् । विक्षावः विश्रावः । वेरित्येव । क्षवः श्रवः। न्युदो ग्रः' (५।३।७२) न्युद्भयां परागिरतेPणातेर्वा घञ् स्यात् । २० निगारः उद्गारः । न्युद इति किम् ? गरः सङ्गरः । 'किरो धान्ये' (५।३।७३) न्युत्पूर्वात् किरते
र्धान्यविषये धात्वर्थे वर्तमानाद् घञ् स्यात् । निकारः उत्कारो धान्यस्य, राशिरित्यर्थः । धान्य इति किम् ? फलनिकरः पुष्पोत्करः । 'नेवुः' (५।३।७४) निपूर्वाद्वणातेर्वृणीतेर्वा धान्यविशेषेऽभिधेये घन् स्यात् । नित्रियन्ते इति नीवारा नाम ब्रीहिविशेषाः । 'घञ्युपसर्गस्य०' (२।३।८६) इति दीर्घत्वम् । धान्य इत्येव । निवरा कन्या । स्वभावादलन्तोऽप्ययं स्त्रियां वर्तते । क्तिस्तु बहुलाधिकारान्न भवति ।२५ 'इणोऽभ्रेषे' ( ५।३।७५) स्थितेरचलनमभ्रेषः । निपूर्वादिणोऽभ्रेषविषये वर्तमानाद् घञ् स्यात् । शास्त्रलोकप्रसिद्ध्यादिना नियतमयनं न्यायः । अभ्रेष इति किम् ? न्ययं गतश्चौरः । 'परेः क्रम' (५।३।७६) क्रमः परिपाटिः । परिपूर्वादिणः क्रमविषयेऽर्थे वर्तमानाद् घञ् स्यात् । तव पर्यायो भोक्तुम् । क्रमेण पदार्थानां क्रियासम्बन्धः पर्यायः । कम इति किम् ? पर्ययः स्वाध्यायस्य अतिक्रम इत्यर्थः । विपर्ययो मतेरन्यथाभवनमित्यर्थः । 'व्युपाच्छीङः' (५।३।७७) व्युपाभ्यां पराच्छीडो ३० घञ् स्यात् । क्रमे, क्रमविषयश्चेद्धात्वर्थः स्यात् । तव राजविशायः ममराजोपशायः । राजनि विशायः राज्ञि उपशायः । विशाय उपशायश्च पर्यायोऽनुक्रमः क्रमः इत्यभि० । क्रमप्राप्तं पर्यायसाध्यं शयनमुच्यते । अन्ये तु शयितुं पर्याय उच्यते इत्याहुः । क्रम इति किम् ? विशयः उपशयः । 'हस्तप्राप्ये चेरस्तेये' (५।३।७८) हस्तेनोपायान्तरनिरपेक्षेण प्राप्तुं शक्यं ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org