________________
९५६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुनिपानमिति किम् ? आह्वयः आह्वानम् 'भावेऽनुपसर्गात्' ( ५।३।४५) अनुपसर्गात् ह्वयते
र्भावेऽल् वाशब्दश्वोकारो भवति । अकर्तरीत्यस्यानुप्रवेशो मा भूदिति भावग्रहणम् । ह्वानं हवः । भाव इति किम् ? कर्मणि ह्वायः । अनुपसर्गादिति किम् ? आह्वायः । 'हनो वा वध् च' ( ५।३।४६) अनुपसर्गात् हन्तेर्भावेऽल् वा स्यात् । तत्सन्नियोगे चास्य वधादेशः । हननं वधः ५घातः । अनुपसर्गादित्येव । संघातः । 'व्यधजपमयः' (५।३।४७) एभ्योऽनुपसर्गेभ्यो भावाकोरल् स्यात् । बहुवचनाद्भाव इति निवृत्तम् । व्यधः जपः मदः । अनुपसर्गादित्येव । आव्याधः उपजापः उन्मादः । 'नवा कणयमहसखनः' (५।३।४८) एभ्योऽनुपसर्गेभ्यो भावाकोरल वा स्यात् । कणः काणः । यमः २। हसः२ । स्वनः २ । अनुपसर्गादित्येव । प्रकाणः प्रयामः प्रहासः विष्वाणः । अप्राप्तविभाषेयम् । 'आङो रुप्लो' (५।३।४९) आङः पराभ्यां रुप्लुभ्यां भावाकों१०रल् वा स्यात् । आरवः आरावः । आप्लवः २ । आङ इति किम् ? विरावः विप्लवः । रौतेर्घनि प्लवतेरलि नित्यं प्राप्ते विकल्पः । 'वर्षविघ्नेऽवाग्रहः' (५।३।५०) अवपूर्वागुहेवर्षविघ्ने वाच्ये भावाकोंरल् वा स्यात् । अवग्राहः अवग्रहः । वृष्टेः प्रतिबन्ध इत्यर्थः । 'वर्षविन्ने ग्राहग्रहाववात्' इत्यभिधानचिन्तामणौ । वर्षविघ्न इति किम् ? अवग्रहः पदस्य । अवग्रहोऽर्थस्य । 'प्राश्मितुला
सूत्रे (५।३।५१) प्रपूर्वागृहे रश्मी तुलासूत्रे चार्थे भावाकोरल् वा स्यात् । प्रगृह्यते इति प्रग्रहः १५प्रग्राहः । अश्वादेः संयमनरज्जुस्तुलासूत्रं चोच्यते । अन्यस्तु प्रयाहः । 'वृगो वस्त्रे (५।३।५२) प्रपूर्वादृणोतेर्वस्त्रविशेषे वाच्ये भावाकोरल् वा स्यात् । प्रवृण्वन्ति तमिति प्रावरः प्रवारः 'घब्युपसर्गस्य बहुलम्' (३।२।८६) इति दीर्घः । अन्ये तु प्राङ्पूर्व एव वृणोतिः स्वभावाद्वस्त्रविशेषे वर्तते । तेन प्रावारः प्रावर इति भवति । वस्त्र इति किम् ? प्रवरो यतिः । 'उदः श्रेः' (५।३।५३) उत्पूर्वात् श्रेर्भावाकोरल् वा स्यात् । उच्छ्रयः उच्छ्रायः । नित्यमलि प्राप्ते वचनम् । 'युपुद्रोघ' (५।३।५४) २० उत्पूर्वेभ्य एभ्यो वा भावाकोंर्घञ् स्यात् । अलोऽपवादः । उद्यावः उत्पावः उद्रावः । 'ग्रहः'
(५।३।५५) उत्पूर्वानहेर्भावाकोंर्घञ् स्यात् । अलोऽपवादः । उदाहः । उद इत्येव । ग्रहः विग्रहः । 'न्यवाच्छापे' (५।३५६) न्यवाभ्यां पराच्छापे आक्रोशे ग्रहे वाक!र्घब् स्यात् । निग्राहः अवग्राहो ह ते वृषल भूयात् । शाप इति किम् ? निग्रहश्चौरस्य । अवग्रहः परस्य । 'प्राल्लिप्सायाम्' (५।३।५७) प्रपूर्वाग्रहेर्लिप्सायां गम्यायां भावाकोंर्घञ् स्यात् । पात्रप्रणाहेण चरत्यन्नार्थी भिक्षुः । २५स्रुवस्य ग्राहेण चरति दक्षिणार्थी द्विजः। लिप्सायामिति किम् ? सुवः प्रग्रहस्य । 'समो मुष्टी' (५।३।५८) सम्पूर्वाहेदृष्टिविषये धात्वर्थे भावाकोंर्घञ् स्यात् । मुष्टिरङ्गुलिसन्निवेशो न परिमाणम् । तत्र 'माने' (५।३।८१) इत्येव सिद्धत्वात् । सङ्ग्रहो मल्लस्य । अहो मौष्टिकस्य सङ्घाहः । मुष्टेडियमुच्यते । मुष्टाविति किम् ? सङ्ग्रहः शिष्यस्य । 'युदुद्रोः' (५।३।५९) सम्पूर्वेभ्य एभ्यो भावाकोंर्घञ् स्यात् । संयावः संदावः सन्द्रावः । सम इत्येव । विद्रवः उपद्रवः । 'नियश्चानुप३०सर्गाद्वा' (५।३।६०) अनुपसर्गान्नयतेयुदुद्रोश्च घन् वा स्यात् । भावाकोंरित्यधिकारसमाप्तेरनुवर्त्तनीयम् । नयः नायः । यवः २ । दवः २ । द्रवः २ । अनुपसर्गादिति किम् ? प्रणयः । 'वोदः' (५।३।६१) उत्पूर्वान्नयतेर्घञ् स्यात् । उन्नायः उन्नयः । 'अवात् (५।३।६२) अवपूर्वान्नयतेनित्यं घञ् । अवनायः । 'परेधूते' (५।३।६३) द्यूतविषये धात्वर्थे वर्तमानात्परिपूर्वान्नयतेर्घञ् स्यात् ।
परिणायेन शारीन् हन्ति समन्तान्नयनेनेत्यर्थः । 'परिणायस्तु शारीणां नयनं स्यात् समन्ततः' ३५ इत्यभिः । द्यूत इति किम् ? परिणयः कन्यायाः । 'भुवोऽवज्ञाने वा (५।३।६४) परिपूर्वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org