________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायां भविष्यति भावाकत्रोंः प्रत्ययाः ९५५ प्राणिसमूहत्वात् संघ इति निपातः कथं नेति । अत्रोच्यते सङ्घातशब्दं समुदायमात्रे प्रसाध्य पश्चान्मनुष्यशब्देन योग इति । अत्याधीयन्ते छेदनार्थ कुट्टनार्थ वा काष्ठादीनि यत्र तदत्याधानम् । उद्घन्यतेऽस्मिन्नित्युद्धनः काष्ठोद्धनः ताम्रोद्धनः । लोहोद्धनः । घनः स्कन्धः उद्धातोऽन्यः । अङ्गं शरीरावयवः । अपहन्यतेऽनेनेत्यपघनोऽङ्गम् । व्रणिभिरपघनैर्घधराव्यक्तघोषान् । 'एकदेशे प्रतीकोऽङ्गावयवापधना अपि' इत्यभिधानचिन्तामणौ । पाणिः पादश्चापधनो नापरमङ्गमित्यन्ये । अपघातोऽन्यः ।५ उपहन्यते समीप इति ज्ञायते उपघ्नः आसन्नः । गुरूपन्नः ग्रामोपन्नः 'उपघ्नस्त्वंतिकालय' इत्यभिः । उपघातोऽन्यः । निपातनादेवोपात्तार्थविशेषे वृत्तिरसरूपप्रत्ययबाधनं च विज्ञायते ॥ १५५ ॥ सूत्रम्
मूर्तिनिचिताभ्रे घनः ॥ १५६ ॥ [सि० ५।३।३७] मूर्तिः काठिन्यम् , निचितं निरन्तरम् , अभ्रा मेघाः । एष्वर्थेषु हन्तेरल् धनादेशश्च । दधिधनः, घनाः केशाः । धनो मेघः ॥ १५६ ॥
'मूर्ति' दधिधन इति दनः काठिन्यमित्यर्थः । एवं अभ्रस्य धनः । लोहधनः । कथं धनं दधि ? गुणशब्दोऽयं तद्योगाद्गुणिन्यपि वर्त्तते । आदिशब्दात् 'व्ययोद्रोः करणे' (५।३।३८) वि अयस् तु इत्येतेभ्यः पराद्धन्तेः करणेऽल् घनादेशश्च निपात्यते । भावस्य कारकान्तरस्य चानुप्रवेशो मा भूदिति करणग्रहणम् । विहन्यतेऽनेन तिमिरं विधनः, विघनेन्दुसमद्युतिः । वयः पक्षिणो हन्यन्तेऽनेनेति वा विधनः । अयो हन्यतेऽनेन अयोधनः । र्हन्यतेऽनेनेति द्रुघनः कुठारः । अरीह-१५ णादिपाठाण्णत्वे द्रुघणः । घणतेर्वाऽजन्तस्य रूपम् । स्त्रियां त्वनडेष । विहननी अयोहननी दुहननी । 'स्तम्बाद नश्च' (५।३।३९) स्तम्बशब्दात्पराद्धन्तेरल नघनादेशौ च करणे निपात्येते । स्तम्बो हन्यतेऽनेन स्तम्बघ्नो दण्डो यष्टिश्च । स्त्रियां तु परत्वादनडेव । स्तम्बहननी यष्टिः । केचित्तु कप्रत्यये निपातनं कृत्वा स्त्रियामापि स्तम्बघ्नेतीच्छन्ति । अन्ये तु स्तम्बपूर्वस्यापि हन्तेः 'सातिहेति०' (५।३। ९४) इति निपातनात् स्तम्बहेतिरितीच्छन्ति । करण इत्येव । स्तम्बहननं स्तम्बघातः । कथं स्तम्बघ्नी-२० षिका ? करणस्यापि कर्तृत्वविवक्षया 'अचित्ते टक्' (५।११८३.) अत्यनेन टकि सिद्धम् । 'परेघः' (५।३।४०) परिपूर्वाद्धन्तेरल् घादेशश्च करणे निपात्यते । परिहण्यतेऽनेन परिघोऽर्गला । लत्वे पलिघः। 'ह: समाह्वयाहयौ द्यूतनानो' (५।३।४१) करण इति निवृत्तम् । द्यूते नाम्नि चाभिधेये यथासङ्ख्यं समाङ्पूर्वात् आपूर्वाच्च ह्वयतेरल् ह्वयादेशश्च निपात्यते । समाह्वयः प्राणिद्यूतम् । आह्वयो नाम । 'न्यभ्युपवेर्वाश्चोत्' (५।३।४२) एभ्यः परात् ह्वयतेः भावाकोरल् तत्सन्नियोगे च वाशब्द २५ उकारो भवति । अभेदनिर्देशः सर्वादेशार्थः । निह्वानं निहवः, एवं अभिहवः विहवः उपहवः । न्यभ्युपवेरिति किम् ? प्रह्वायः । वेति किम् ? सर्वस्य मा भूत् । तेन विजोहव इति सिद्धमन्यथा विहव इति स्यात् । भृशं विह्वयति यङ्लुपि द्वित्वे ह इति वृत् । विजोहवनमनेनाल् । अन्यथा प्रकृतिप्रहणे इति न्यायात् यङ्लुबन्तास्याप्यनेनालि ह्वो हव इति कृतद्वित्वस्यापि निपाते विहव इति स्यादित्यर्थः । जुहोतिनैव सिद्धे तयते रूपान्तरनिवृत्त्यर्थम् वचनम् । 'आङो युद्धे' (५।३।४३ )३० आङ्पूर्वात् ह्रयतेयुद्धेऽर्थे भावाकोरल् स्यात् । वाशब्दश्चोकारः । आहूयन्ते योद्धारोऽस्मिन्नित्याहवो युद्धम् । युद्ध इति किम् ? आहाय आह्वानम्। 'आहावो निपानम्' (५।३।४४) निपिबन्त्यस्मिन्निपानं पशुशकुनीनां पानार्थम् कृतो जलाधारः । आङ्पूर्वात् ह्वयतेर्भावाकोरल आहावादेशश्च निपात्यते । निपानं चेदभिधेयं स्यात् । आहूयन्ते पशवः पक्षिणः पानायास्मिन्निति पशूनां पक्षिणां वा आहाबः ।३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org