________________
९५४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुघनोऽपवादोऽयम् । चय इत्यादि । एवं निश्चयः जयः क्षयः । लव इति । एवं यवः पवः नवः स्तवः । वर इति । एवं प्रवरः । आदर इति । एवं दरः। एवं वशः रणः गमः अवगमः । कृ करः । गृ गरः । तृ तरः । दृ दरः । श शरः । प्रहः । कथं वारः समूहो वारोऽवसरः वारः क्रियाभ्यावृत्तिः । बहुलाधिकारात् पञ् । परिवार इति तु ण्यन्तादचि सिद्धम् ॥ १५३ ॥ सूत्रम् ।
वर्षादयः क्लीवे ॥ १५४ ॥ [सि० ५।३।२९] अलन्ता निपाताः ॥ १५४ ॥ 'वर्षा' (५।३।२९) अयमस्यार्थः । वर्षादयः शब्दा अलन्ताः क्लीवे यथादर्शनं भावाकोर्निपात्यन्ते नपुंसके क्ताननिवृत्त्यर्थं वचनम् । वर्ष भयं धनं खलं पदम् । युगम् अत्र रथाङ्गकालविशेषयुग्मेष्वल
गत्वगुणाभावौ च निपातनात्। अनपुंसकक्तस्त्वसरूपविधिर्नास्त्येव । वृष्यते स्म वृष्टं मेघेन । भीतं बटुना । १० आदिशब्दानुवृत्त्या 'समुदोजः पशौ' (५।३।३०) समुद्यां परादजतेः पशुविषये धात्वर्थे वर्तमानाद्भावाकोरल् स्यात् । समजः पशूनाम् ( समूह इत्यर्थः, उदजः पशूनाम् प्रेरणमित्यर्थः । समुद इति किम् ? व्याजः पशूनाम् ) । पशाविति किम् ? समाजः साधूनाम् । उदाजः खगानाम् । 'मुग्लहः प्रजनाक्षे (५।३।३१) सर्तिग्लहिभ्यां प्रजनाक्षविषये धात्वर्थे वर्तमानाभ्यां भावा
कोरल् स्यात् । गवामुपसरः । पशूनामुपसरः । वीनामुपसरं दृष्ट्वा । प्रजनो गर्भग्रहणम् तदर्थ १५ स्त्रीषु पुंसां प्रथम सरणमुपसरमुच्यते । अक्षाणां ग्लहः ग्रहणमित्यर्थः । ग्रहेः सूत्रनिपातनाल्लत्वम् । 'ग्रहूङ् ग्लहू अदने' इति प्रकृत्यन्तरं वा । प्रजनाक्ष इति किम् ? उपसारो भृत्यै राज्ञाम् । ग्रहः ग्लाहो वा पादस्य । कथं परिसरविषमेषु लीढमुक्तौ ? । अधिकरणेषु नाम्नि घेन सिद्धम् । 'पणेर्माने (५।३।३२) भावाकोरल् । मूलकपणः शाकपणः । पण्यते इति पणः । मूलकादीनां संव्यवहारार्थं परिमितो मुष्टिरित्यर्थः । मान इति किम् ? पाणः । घअपवादो योगः ॥ १५४ ॥ सूत्रम् ।
संमदप्रमदौ हर्षे ॥ १५५॥ [सि० ५।३।३३] निपातावित्यादि । *निषादयोऽप्येवम् ॥ १५५ ॥ 'संम०' (५।३।३३) निपाताविति। एतौ हर्षेऽर्थेऽलन्तौ निपात्येते । संमदः कोकिलानाम् । प्रमदः कन्यानाम् । हर्ष इति किम् ? सम्मादः प्रमादः। सम्प्रान्मद इत्यनुक्त्वा निपातनं रूपनिग्रहार्थम् ; तेनोपस.
गान्तरयोगे न स्यात् । प्रसंमादः। आदिशब्दात् 'हनोऽन्तर्घनान्तर्घणौ देशे (५।३।३४) अन्तः२५ पूर्वाद्धन्तेरल् घनघणौ चादेशौ निपात्येते देशेऽभिधेये भावाकोंः । अन्तर्हण्यतेऽस्मिन्निति अन्तर्घनः
अन्तर्घणो वा वाहीकेषु देशविशेषः । अन्तर्घातोऽन्यः । एक त्वन्तःसंहतो देशोऽन्तर्घनः । अभ्यन्तरो देश इति केचित् । तस्मिन्नन्तर्घनेऽपश्यत् । घणिः प्रकृत्यन्तरमित्यन्ये । 'प्रघणप्रघाणौ गृहाशे' (५।३।३५) प्रपूर्वाद्धन्तेहांशेऽभिधेयेऽल् एतौ चादेशौ निपात्येते । प्रघणः प्रघाणो द्वारालिन्दकः । प्रघातोऽन्यः । *निघादय इति । अत्र सूत्रम् 'निघोद्घसंघोद्घनापघनोपन्नं निमितप्रश३० स्तगणात्याधानाङ्गासनम्' (५।३।३६) हन्तेनिघादयः शब्दाः यथासङ्घयं निमितादिषु बाच्येषु कृतघत्वादयोऽलन्ता निपात्यन्ते । समन्ततो मितं तुल्यमविशेषेण वा मितं परिच्छिन्नं निमितम् , तुल्यारोहपरिणाहमित्यर्थः । निर्विशेष निश्चयेन वा हन्यन्ते ज्ञायन्ते निघा वृक्षाः । निघाः शालयः । निघा बृहतिका । निघं वस्त्रम् । निघातोऽन्यः । उत्कर्षेण हन्यते ज्ञायते उद्धः प्रशस्तः । उद्धा३४ तोऽन्यः । गणः प्राणिसमूहः । संहतिः संघः, अन्यत्र संघातः । कथं संघातो मनुष्याणां ? । अत्रापि
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org