________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां भावाकोंः प्रत्ययाः ९५३ भावः । सर्वासु क्रियासु सत्त्वमिति भवत्यर्थः साधारण एवः । स च धात्वर्थः । स धातुनैवोच्यते न प्रत्ययैः । यः पुनः सिद्धतानाम धात्वर्थस्य धर्मः स प्रत्ययैरेवाभिधीयते न धातुना । तदुक्तम् 'आख्यातसाध्यैरर्थोऽसावन्तर्भूतोऽभिधीयते । नामशब्दाः प्रवर्त्तन्ते संहरन्त इव क्रमम् ॥ १॥ तत्रायं घबन्तादिविधिरिति क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्तिता । सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घविधिम् ॥ २॥ तेन तद्योगे लिङ्गवचनभेदः सिद्धो भवति । पाकः पाको पाकाः । पचनं पचने५ पचनानि । पक्तिः पक्ती पक्तयः इति ।
अत्रामी विशेषाः 'इङोऽपादाने तु टिद्वा' (५।३।१९) इङो धातो वाकोंर्घञ् स्यात् । अपादाने तु कारके स वा टित्स्यात् । अध्ययनमध्यायः । अधीयत इत्यध्यायः । उपेत्याधीयतेऽस्मादित्युपाध्यायः । टिद्विधानसामर्थ्यात् स्त्रियां क्तिर्बाध्यते । उपाध्यायी उपाध्याया । श्रो वायुवर्णनिवृते । (५।३।२०) शृ इत्येतस्माद्भावाकोंर्वाय्वादिष्वर्थेषु घञ् स्यात् । शीर्यते १० औषधादिभिरिति शारो वायुः । मालिन्येन शौर्यते इति शारो वर्णः निवृतं निवरणं । प्रावरणमित्यर्थः । निशीर्यते शीताद्युपद्रवो येन तन्नीशारो निवृतम् , 'गौरिवाकृत नीशारः [प्रायेण शिशिरे कृशः । निवृता तोपकरणमिति कश्चित् , नियमेन वृता इत्यम्वर्थात् ] । शारैरिव क्रीडितं । एध्विति किम् ? शरः । 'निरभे: पूल्वः ' (५।३।२१) पू इति पूगपूडोम्रहणम् । निरभिपूर्वाभ्यां यथासङ्ख्यं पूलुभ्यां भावाकोंर्घब् स्यात् । निष्पूयते निष्पावः अभिलावः । १५ 'रोरुपसर्गात्' (५।३।२२) भावाकोंर्घञ् । संरवणं संरावः उपरावः । उपसर्गादिति किम् ? रवः ।साराविणमित्यत्र लिन बाधकः। कथं रावः ? बहुलाधिकारात् 'उद्यमोपरमौ' (४।३।५७) उदुपपूर्वयोर्य मिरम्योपनि वृद्ध्यभावो निपात्यते । उद्यमः । उपरमः । अन्यत्र ‘णिति' इति वृद्धिरेव । यामः संयामः । रामः विरामः । * इति घञ्प्रत्ययप्रकरणम् ॥ १५१ ॥ सूत्रम् । भूश्यदोऽल् ॥ १५२ ॥ [सि० ५॥३॥२३]
२० एभ्यः सोपसर्गेभ्यो भावाकोरल् स्यात् । प्रभवः । संश्रयः। विधसः ॥१५२ ॥ "भू०' प्रभव इति एवं विभवः। संश्रय इति । एवं प्रश्रयः प्रतिश्रयः । विघस इति । एवं प्रघसः।। उपसर्गादित्येव; भावः श्रायः घासः । भावाकोरिति घन् । भूश्योरुपसर्गादेवेति नियमार्थ वचनम् । कथं प्रभावः विभाव अनुभावः ? । बहुलाधिकारात्, प्रकृष्टो भाव इत्यादिप्रादिसमासो वा । लकारो मिग्मीगोऽखलचलीत्यत्र विशेषणार्थः । अत्रामी विशेषाः।'न्यादो नवा' (५।३।२४)२५ निपूर्वाददेरलि घस्लभावोऽकारस्य दीर्घत्वं वा निपात्यते । न्यादः निघसः। 'संनिव्युपाद्यमः' (५।३।२५) भावाकोरल् वा स्यात् । संयमः । पक्षे घञ् संयामः । नियमः नियामः ( इत्यादि) 'नेन्दगदपठखनक्कणः' (५।३।२६) भावाकोरल् वा स्यात् । निनदः निनादः । निपठः २ । 'वणे कणः' (५।३।२७) । वीणायां भवो वैणः । वैणेऽर्थे वर्तमानादुपसर्गपूर्वात्कणेर्भावाकोरल् वा स्यात् । प्रकाणः प्रकणः । निक्काणः २ वीणाया। वैण इति किम् ? प्रकाणः शृङ्खलस्य । कथं क्वणः ३० क्वाणो वीणायाः ? 'नवा कण' (५।३।४८) इति सामान्येन विधानाद्वैणेऽपि भवति ॥१५२॥ सूत्रम् ।
युवर्णवृदृवशरणगमृद्धहः ॥ १५३ ॥ [सि० ५।३२८] इवर्णोवर्णान्तेभ्यो वादेरृदन्तेभ्यो ग्रहश्च भावाकोरल् स्यात् । चयः । क्रयः । रवः । लवः । वरः । आदरः ॥१५३ ॥ 'युव०' व्रादेरिति । वृवशरणगमिभ्य इत्यर्थः । उपसर्गाद्वेति च निवृत्तम् । अल् स्यादिति ३५
है. प्रका० उत्त० १२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org