________________
९५२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ है मलघु
प्राप्नोति वा भोक्तुम्, ग्लायति म्लायति वा भोक्तम्, घटते युज्यते वा भोक्तम् अस्ति विद्यते वा भोक्तुम्, समर्थोऽलं प्रभवति ईष्टे वा भोक्तुम् । समर्थार्थप्रतीतावपि द्रष्टुं चक्षुः, योद्धुं धनुः । शक्त्या भुज्यते सामर्थ्येन भुज्यते इत्यादौ त्वनभिधानान्न भवति । इच्छार्थेषु इच्छति भोक्तुं वाञ्छति भोक्तम् । वष्टि अभिलषतीत्यादि समर्थार्थत्वादेव सिद्धे शकग्रहणमसमर्थार्थम् । कर्मण इति च ५ सामर्थ्याच्छकादिष्वर्हपर्यन्तेषु इच्छार्थेषु चोपपदेषु सत्सु सम्बन्धनीयम् । अन्ये तु शकादिषु घटान्तेषु स्वरूपोपपदेष्वेवेच्छन्ति न तदर्थेषु । अतादर्थ्यार्थमक्रियोपपदार्थ चेदं प्रस्तूयते ॥ १४८ ॥ अथार्थविशेषे च उपपदविशेषे च तुम्प्रत्ययमाह
कालवेलासमये तुम्वावसरे ॥ १४९ ॥ [ सि० ५।४।३३ ]
एषु त्रिषूपपदेष्ववसरे गम्ये धातोस्तुम्वा स्यात् । कालो भोक्तुम् । वेला भोक्तुम् । समयो १० भोक्तुम् । पक्षे कालो भोजनस्य ॥ १४९ ॥
'काल०' कालो भोजनस्येति । ऊर्ध्वं मुहूर्त्तात्कालो भोक्तम् 'सप्तमी चोर्ध्वमौहूर्त्तिके' (५।४।३० ) इति प्राप्तानां सप्तम्यादीनामपवादस्तुम् । ऊर्ध्वं मुहूर्त्ताद्धोक्तुं स्म काल: । 'स्मे पञ्चमी' ( ५|४|३१ ) इत्यस्यापवादस्तुम् । अङ्गशब्दः प्रकाशे कोमलामन्त्रणे च । अवसर इति किम् ? कालः पचति भूतानि । कालोऽत्र द्रव्यं नत्ववसरः ॥ १४९ ॥
१५
अथ सामान्यतः कालत्रयेऽपि विहितान् प्रत्ययानाह । सूत्रम्
पदरुजविशस्पृशो घञ् ॥ १५० ॥ [ सि० ५।३।१६ ]
एभ्यश्चतुर्भ्यो घम् । पद्यतेऽपादि पेदे वा पादः । एवं रोगः वेशः स्पर्शः ॥ १५० ॥
'पद०' एभ्यो घञ् स्यात् । कृत्त्वात्कर्त्तरि । ( वर्त्यत्यादि निवृत्तम् ) स्पर्शो व्याधिविशेषः । स्पर्शो देवदत्तः कम्बलस्य । घकारः कत्वगत्वार्थः । नकारो वृद्ध्यर्थः । अत्रादिशब्दानुषङ्गात् 'सर्ते: २० स्थिरव्याधिबलमत्स्ये' ( ५।३।१७ ) सतेंरेषु कर्तृषु घन् स्यात् । सरति कालान्तरमिति सारः स्थिरपदार्थः । सालसारः खदिरसारः कार्यसारः । व्याध्यादौ अतीसारो व्याधिः । सारो बलम् विसारो मत्स्यः ॥ १५० ॥ सूत्रम्
भावाऽकर्त्रीः ॥ १५१ ॥ [ सि० ५।३।१८ ]
भावे कर्तुवर्जिते च कारके धातोर्घञ् स्यात् । पाकः । त्यागः । दायः । आयः । २५ भावः ।। १५१ ॥
"भावा०' भाव इति । भावे वाच्ये कर्तृवर्जिते कारके च सर्वधातुभ्यो घन् स्यात् । पचनं पाकः । एवं रागः । कर्तृवर्जिते कारके यथा - प्रकुर्वन्ति तमिति प्राकारः । एवं प्रासः प्रसेवः समाहारः । करणाधिकरणयोरनट् तदपवादश्च व्यञ्जनान्तेभ्यो घन् वक्ष्यते । दाशन्तेऽस्मा इति दाश: । तालव्योपान्त्योऽयम् । आहरन्ति तस्मादाहारः । असंज्ञायामपि दायो दत्तः । लाभो लब्धः । कृतः कटो ३० हृतः भार इत्यादौ बहुलाधिकारान्न भवति । अकर्त्रिति पर्युदासेन कारकाश्रयणात् सम्बन्धे न भवति । देवदत्तस्य पच्यते । भावाकर्त्रीरिति किम् ? पचः । भावो भवत्यर्थः साध्यरूपः क्रियासामान्यं धात्वर्थः स धातुनैवोच्यते । तत्रैव त्यादयः क्त्वातुममस्तव्यानीयादयश्च भवन्ति । यस्तु भावो ३३ धात्वर्थधर्मः सिद्धता नाम लिङ्गसङ्ख्यायोगी स द्रव्यवद्धात्वर्थादन्यस्तत्रायं घनादिविधिः । अयं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org