________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां तुम्प्रत्ययः
९५१ 'क्रिया०' वेति निवृत्तम् । तुमादय इति तुम् णकच् भविष्यन्तीप्रत्यया भवन्ति । कर्तुं ब्रजति । कारको व्रजति । करिष्यामीति व्रजति । भोक्तुं व्रजति । भोजको व्रजति । भोक्ष्ये इति व्रजति । क्रियायामिति किम् ? भिक्षिष्ये इत्यस्य जटाः । क्रियार्थायामिति किम् ? धावतस्ते पतिष्यति वासः । अत्रास्ति धावनक्रियोपपदं न त्वसौ पतनार्थमुपात्तेति न भवति । अत्र हि धावनक्रिया देवदत्तकर्तृका पतनक्रिया च वासःकर्तृकेति भिन्नकर्तृकत्वेऽपि सूत्रप्रवृत्तिरिति प्राप्नोति । णकतृचा-५ विति सामान्येन सिद्धे क्रियार्थोपपदभाविन्या भविष्यन्त्या बाधो मा भूदिति णकविधानम् । असरूपविधिना णकोपि भविष्यतीति चेत् ? एवं तर्हि असरूपविधिना तृजादयो मा भूवन्निति पुनर्णक विधानम् । तेन ओदनस्य पाचको व्रजति पक्ता ब्रजति पचो व्रजति विक्षिपो व्रजतीत्यादि न भवति ।
अत्रादिशब्दानुवृत्तेः 'कर्मणोऽण' (५।३।१४) क्रियायां क्रियार्थायामुपपदे कर्मणः १० पराद्वय॑त्यर्थे वर्तमानाद्धातोरण स्यात् । कुम्भकारो व्रजति । काण्डलावो व्रजति । कर्मणोऽण् इति सामान्येन विहितोऽण् णकचानेन बाध्येत, असरूपविधिश्च नास्तीति पुनर्विधीयते । सोऽपवादत्वाण्णकचं बाधते, परत्वात्सामान्यस्याणो बाधकान् टगादीनपि; तेन वक्र गास्यतीति वक्रगादयः । एवं सुरापायः, गोदायो व्रजति । बहुलाधिकाराण्णकचूभविष्यन्यावपि भवतः । कटं कारको ओदनं भोजको काण्डानि लविष्यामि कम्बलं दास्यामीति व्रजति । "भाववचनाः'१५ (५।३।१५) भाववचनाः स्यादयस्ते क्रियायां क्रियायार्थायामुपपदे वय॑त्यर्थे वर्तमानाद्धातोर्भवन्ति । क्रियार्थोपपदेन तुमा मा बाधिषतेति वचनम् । असरूपविध्यभावस्य ज्ञापितत्वात् । पाकाय पक्तये पचनाय ब्रजति । वचनग्रहणाद्यो यथा विहितः स तथा भवति । यदि भावे इति क्रियेत तदा भावमात्रे एव ये विहितास्ते एव लभ्येरन सर्वे । वचनग्रहणेन तु येन केनापि प्रकारेणापि भावं ब्रुवाणा गृह्यन्ते एव । 'तुमोऽर्थे भाववचनात्' (२।२।६१) इति चतुर्थी ॥ १४५ ॥ अनोपयोगिसूत्रम् २०
तुमश्च मनःकामे ॥ १४६ ॥ [ सि० ३।२।१४०] तुम्समोर्मनसि कामे च परे म्लुप् स्यात् । भोक्तुमना गन्तुकामः (पृ० २८९) ॥ १४६ ॥ 'तुम्०' स्पष्टम् ।। १४६ ॥ तुम्प्रत्ययस्यार्थमाह ।
क्त्वातुमम् भावे ॥ १४७ ॥ [सि० ५।१।१३] एते धात्वर्थमात्रे स्युः ॥१४७॥ 'तवा०' स्पष्टम् ॥ १४७ ॥ अथ तुम्प्रत्ययप्रस्तावनादुपपदयोगे विहितं तुम्प्रत्ययमाह शकषज्ञारभलभसहार्हग्लाघटास्तिसमर्थार्थे च तुम्
॥१४८॥ [सि० ५।४।९०] शक्याद्यर्थेषु इच्छार्थेषु च धातुषु समर्थार्थेषु च नामसूपपदेषु कर्मभूताद्धातोस्तुम् स्यात् । ३० शक्नोति पारयति वा भोक्तुम् । इच्छति पठितुम् । समर्थो ग्रहीतुम् ॥ १४८॥
'शक०' शक्नोति पारयति वा भोक्तुम् इति, धृष्णोत्यध्यवस्यति वा भोक्तुम् , जानाति वेत्ति वा 'भोक्तुं आरभते प्रक्रमते वा भोक्तुम् , लभते विन्दते वा भोक्तुम् , सहते क्षमते वा भोक्तम् , अर्हति ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org