________________
९५० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहै मलघुसहेर्ध च (९९२) षहिं, अस्मादिस् धश्चास्यान्तादेशः स्यात् । सधिः सत्त्वं भूमिः संयोगः सहिष्णुः अग्निः अनड्वांश्च ॥ ९९२॥ पस्थोऽन्तश्च (९९३) पां अस्मादिस् थश्चास्यान्तादेशः स्यात् । पाथिः पानं नदी आदित्यः ज्योतिः स्वर्गलोकश्च ॥ ९९३ ॥ नियो डित् (९९४) इस् । निः उपसर्गोऽयं पृथग्भावे; निश्चिनोति, निर्णयः ॥ ९९४ ॥ अवेर्णित् (९९५) इस् । अव, आविः ५प्राकाश्ये; आविरभूत् , आविष्करोति ॥ ९९५ ॥ तुभूस्तुभ्यः कित् (९९६) इस् । तुंक्, तुविः समुद्रः सरितः विवस्वान् प्रभुसंयोगश्च । भू, भुविः क्रतुः समुद्रः सरित् विवस्वांश्च । टुंग्क् , स्तुविः स्तोता यज्ञश्च ॥ ९९६ ॥ रुघर्तिजनितनिधनिमनिग्रन्थिपृतपित्रपिवपियजिप्रादिवेपिभ्य उसू (९९७) रुदृक् , रोदुः अश्रुनिपातः । अरुः व्रणः । जनुः अपत्यं पिता
माता जन्म प्राणी च । तनुः शरीरम् । 'धन धान्ये' सौत्रः, धनुः चापम् । मनिच् , मनुः प्रजापतिः । १० 'ग्रन्थश् सन्दर्भे' ग्रन्थुः ग्रन्थः । पश् , परुः पर्व समुद्रः धर्मश्च । तप, तपुः त्रपुः शत्रुः भास्करः
अग्निः कृच्छ्रादि च । त्रपौषि, त्रपुः त्रपु । दुवपी, वपुः शरीरं लावण्यं तेजश्च । यजी, यजुः अच्छन्दाः श्रुतिः यज्ञोत्सवश्च । अदक् प्रपूर्वः । प्रादुः प्राकाश्ये उत्पत्तौ च । प्रादुर्बभूव । प्रादुरासीत् । टुवेपृङ्, वेपुः वेपथुः ॥ ९९७ ॥ इणो णित् (९९८) उस् । आयुर्जीवितम् । जटापूर्वादपि जटायुः अरुणात्मजः । 'तं नीलजीमूतनिकाशवर्णं स पाण्डुरोरस्कमुदारधैर्यम् । ददर्श १५ लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदाहम्' ॥ १ ॥ ॥ ९९८ ॥ दूषेर्डित् (९९९) उस् ।
दुः निन्दायाम् । दुष्पुरुषः ॥ ९९९ ॥ मुहिमिथ्यादेः कित् (१०००) उस् । मुहौच, मुहुः कालावृत्तिः । मिथग्, मिथुः सङ्गमः । आदिग्रहणादन्येभ्योऽपि भवन्ति ॥१०००॥ चक्षेः शिवा (१००१) चक्षिक् अस्मादुस् स च शिद्वा । चक्षुः परिचक्षुः अवचक्षुः । अवख्युः । बाहुलकाहिर्वचने संचचक्षुः विचख्युः ॥१००१॥ पातेडुम्सुः (१००२) पांक् अस्माद् डित् उम्सुः २० स्यात् । पुमान् पुमांसौ । उकार उदित्कार्यार्थः ॥१००२ ।। न्युयामश्वेः ककाकैसष्टावच (१००३) न्युझ्या परादञ्चः कितः अ आ ऐस् इत्येते प्रत्ययाः स्युः । ते च टावत् । टायामिव तेषु कार्य स्यादित्यर्थः । तेन 'अच्च प्राग् दीर्घश्च' (२।१।१०४) इति स्यात् । नीचम् । उच्चम् । नीचा । उच्चा । नीचैः । उच्चैः । प्रसिद्धार्था एते । लाघवार्थ सन्ताधिकारेऽप्यकार-आकारप्रत्ययविधानम् ।
॥१००३ ॥ शमो नियो डैस् मलुक् च (१००४) शम्पूर्वात् णींम् अस्मात् डित ऐस् २५ शमो मस्य च लुक् स्यात् । शनैः मन्दम् ॥ १००४॥ यमिदमिभ्यां डोसू (१००५) आभ्यां डित् ओस् । यमूं, योः विषयसुखम् । दमूच् दोः बाहुः ॥ १००५ ॥ अनसो वहेः किप् सश्च डः (१००६) अनसूशब्दपूर्वात वहीं अस्मात् किम् , सस्यं च डः स्यात् । अनडुशब्दः । अनो वहति अनड्वान् वृषभः ॥१००६॥ इति व्यजनान्ताः अष्टात्रिंशेन सूत्रशतेन । .
एवं पञ्चोत्तरं सूत्रसहस्रं परिभावितम् । उणादिषु प्रत्ययेषु कृपावाजीतिसूत्रतः ॥ १॥ किञ्चित् संक्षिप्य निर्दिष्टाः प्रत्यया इत्युणादयः । हैमोणादिविवरणमनुसृत्य यथावतम् ॥ २ ॥
अथ भविष्यत्काले भावे ये विहिताः प्रत्ययास्तान् दर्शयति । क्रियायां क्रियार्थायां तुम्णकचूभविष्यन्ती ॥ १४५॥ [सि० ५।३।१३ ]
यसाद्धातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्यास्तयां क्रियायामुपपदे वर्ल्स३४ दर्थाद्धातोस्तुमादयः स्युः । कर्तुम् कारकः करिष्यामीति याति ॥ १४५ ॥
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org