________________
९४९
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः चक्षिक् अस्मादस् , स च शिद्वा । चक्षः ख्याः; उभे अपि रक्षोनामनी । आचक्षाः वाग्मी । आख्याः प्रख्याः बृहस्पतिः । संचक्षाः ऋत्विक् । नृचक्षाः राक्षसः ॥ ९६९ ॥ वत्स्यगिभ्यां णित् (९७०) वस् वसिक् । वासः वस्त्रम् । अग, आगः अपराधः ॥ ९७० ॥ मिथिरज्युपितृपशृभूवष्टिभ्यः कित् (९७१) अस् । 'मिथग मेधाहिंसयोः' । मिथः परस्परं रहसि चेत्यर्थः । रञ्जी, रजः गुणः अशुभं पांशुश्च । उषू, उषाः सन्ध्या अरुणः रात्रिश्च । त, तिर इति५ अन्तर्द्धावनृजुत्वे च । पश् , पुरः पूजायां । तथा च पठन्ति; नमः पूजायाम् पुरश्चेति । शश, शृणाति तद्वियुक्तमिति शिरः उत्तमाङ्गम् । भू, भुवः लोकः अन्तरिक्षं सूर्यश्च । वशक् , उशाः रात्रिः ॥९७१ ॥ विधेर्वा (९७२) 'विधत् विधाने' । अस्मादस् स च किद्वा । वेधाः विद्वान् सर्ववित प्रजापतिश्च । विधाः स एव ॥९७२॥ नुवो धथादिः (९७३) णूत् अस्मात् धकारादिस्थकारादिश्च किदस् स्यात् । नूधा नूथाः सूतमागधौ । धादौ गुणमिच्छन्त्येके । नोधाः ऋषिः १० ऋत्विक् ॥ ९७३ ॥ वयापयःपुरोरेतोभ्यो धागः (९७४) एभ्यः परात् धागः किदस् स्यात् । वयोधाः युवा चन्द्रः प्राणी च । पयोधाः मेघः । पुरोधाः पुरोहितः । रेतोधाः जनकः ॥ ९७४ ॥ नञ् इहेरेहेधौ च (९७५) नञ्पूर्वात् 'ईहि चेष्टायाम्' अस्मादस् अस्य चेमावादेशौ स्तः । अनेहाः कालः इन्द्रश्चन्द्रश्च । अनेधा अग्निर्वायुश्च ॥ ९७५ ॥ विहायस्सुमनस्पुरुदंशस्पुरूरवोङ्गिरसः (९७६) असन्ता निपात्यन्ते । विपूर्वाजहातेर्जिहीतेर्वा योऽन्तश्च ।१५ विजहातीति विहायः आकाशम् । विजिहीते इति विहायाः पक्षी । सुपूर्वान्मानेह्रस्वश्च । सुष्ठ मानयति मन्यते वा सुमनसः पुष्पाणि देवाश्च । पुरु दशतीति पुरुदंशा इन्द्रः । पुरुपूर्वाद्रौतेर्दीर्घश्च पुरु रौतीति पुरूरवा राजाऽयमुर्वशी चकमे । अङ्गेरिरोऽन्तश्च । अङ्गिरा ऋषिः ॥ ९७६ ॥ पातेजस्थसौ (९७७) पांक् अस्मादेतौ स्याताम् । पाजः बलम् । पाथः उदकं अन्नं च ॥ ९७७॥ खुरीभ्यां तस् (९७८) खं स्रोतः निर्झरणम् । सुष्टु स्रवतीति सुस्रोताः नदी । रीश् रेतः२० शुक्रम् ॥ ९७८ ॥ अर्तीणभ्यां नस् (९७९) ऋक् अर्णः जलम् । इणक एनः पापमपराधश्च ॥९७९ ॥ रिचेः क च (९८०) रिचम्पी अस्मान्नस् कश्चास्यान्तादेशः स्यात् । रिक्तं धनं पापं च ॥ ९८०॥रीवृभ्यां पस् (९८१)। रीश् , रेपः पापम् । वृग्ट् , वर्पः रूपम् ॥ ९८१ ॥ शीङः फश्च (९८२) अस्मात् पस् फस् च प्रत्ययौ स्याताम् । शेपः शेफञ्च मेढम् ॥९८२॥ पचिवचिभ्यां सस् (९८३) पक्षः चक्रम् । वक्षः उरः शरीरं च ॥९८३ ॥ इणस्तशस् २५ (९८४) एतशः (शाः ?) सोमः अध्वर्युः वायुः अग्निः अर्कः इन्द्रश्च ॥ ९८४ ॥ वष्टेः कनस् (९८५) कित् अन्स् । उशना शुक्रः ॥ ९८५॥ चन्दो रमस् (९८६) चदु, चन्द्रमाः ॥ ९८६ ॥ दमेरुनसूनसौ (९८७) अस्मादेतौ स्याताम् । दमृच् दमुनाः अग्निः । दमूनाः सूर्यः देव उपशान्तश्च ॥९८७॥ इण आसू (९८८) आस् । अयाः कालः आदित्यश्च ॥९८८॥ रुच्यचिंशुचिहुमृपिछादिदिभ्य इस (९८९) रोचिः किरणः । वसुपूर्वात् वसुरोचिः वासवः३० किरणः ऋतुश्च । अर्च, अर्चिः ज्वाला । शुच, शोचिः रश्मिः शोकः पिङ्गलभावः विविक्तं च । हुंक् , हविः पुरोडाशादि । सृप्लं, सर्पिः घृतम् । छदण् , छदिः 'छदेरिस्मन्त्रटको' ( ४।२।३३) इति ह्रस्वः बाहुलकादीर्घत्वे छादिः । अभयमपि गृहाच्छादनम् । 'ऊदूपी दीप्तिदेवनयोः' । छर्दिर्वमनम्॥९८९॥ बंहिवृंहेर्नलुक् च (९९०) 'बहुङ् वृद्धौ' । बहिः अनभ्यन्तरे । 'वृहु शब्दे च' बर्हिः शिखी दर्भश्च ॥ ९९०॥द्युतरादेश्च जः (९९१)। द्युति, ज्योतिः तेजः सूर्यः अग्निः तारका च ॥९९१ ॥३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org