Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 635
________________ अथ वृतगणफलम् । अथ वृतगणफलम् द्युतादेरद्यतन्यां चाडात्मनेपदमिष्यते । वृदादिपश्चकेभ्यो वा स्यसनोरात्मनेपदम् ॥१॥ ज्वलादेो विकल्पेन (?) यजादेः संप्रसारणम् ।। घटादीनां भवेद्रस्खो णो परेऽजीघटत् सदा ॥२॥ अद्यतन्यां पुषादित्वाद परसैपदे भवेत् । वादित्वाच्च क्तयोस्तस्य नकारः प्रकटो भवेत् ॥ ३ ॥ प्वादीनां गदितो हखो ल्वादेस्तक्त्योश्च नो भवेत् । युजादयो विकल्पेन ज्ञेयाश्चरादिके गणे ॥ ४॥ मुचादेर्नागमः शे च कुटादित्वात् सिचि परे । गुणवृद्धेरभावश्च कथितो हेमसूरिणा ॥५॥ अदन्तानां गुणोवृद्धिर्यह चुरादेश्च नो भवेत् । संक्षेपेण फलं चैतदीषितं वानरेण हि ॥ ६ ॥ इतिवृत्मणफलम् । अथ अनिट्कारिकाः विश्रिडीशीयुरुक्षुक्ष्णुणुस्तुभ्यश्च वृगो वृङः । ऊदृदन्तयुजादिभ्यः खरान्ता धातवोऽपरे ॥१॥ पाठ एकखरा स्युर्येऽनुखारेत इमे स्मृताः। द्विविधोऽपिशकिश्चैवं वचिर्विचिरिची पचिः॥२॥ वञ्जिरजिरुजयोर्निजिर्विषञ्जिभञ्जिभजयः सृजित्यजी ॥ ३ ॥ स्कन्दिविद्यविद्लवित्तयो नुदिः खिद्यतिः शदिसदी भिदिञ्छिदी। तुद्यदी पदिहदी खिदिक्षुदी राधिसाधिशुधयो युधिव्यधी ॥ ४ ॥ बन्धिबुध्यरुधयः कुधिक्षुधी सिद्ध्यतिम्तदनु हन्तिमन्यती।। आपिना तपिशपिक्षिपिछुपो लुम्पतिः सृपिलिपी वपिस्खपी ॥५॥ यभिरभिलमियमिरमिनमिगमयः क्रुशिलिशिरुशिरिशिदिशतिदशयः। स्पृशिमृशतिविशतिदृशिशिष्लशुषय-स्त्विपिपिषिविष्लकषितुषिदुषिपुषयः ॥ ६ ॥ श्लिष्यतिदिपिरतो घसिवसती रोहतिलहिरिही अनिदगदिता। देग्धिदोग्धिलिहयोमिहिबहती नातिर्दहिरिति स्फुटमनिटः॥७॥ इति अनिट्कारिकाः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 633 634 635 636