Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 601
________________ ९७४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुउच्यते । यङ् स्वार्थिकत्वात् प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये समर्थो द्योतयितुमिति तदभिव्यक्तये द्विवचनं नापेक्ष्यते हिस्वादयः कर्तृकर्मभावार्थत्वेनास्वार्थिकत्वादसमर्थाः प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये द्योतयितुमिति तद्वद्योतनाय द्विवचनमपेक्षन्ते इति । ननु इह कस्मात् ख्णम् न भवति । यदयं पुनः पुनर्भुक्त्वा ब्रजयधीते एव ततः परम् । आमीक्ष्ण्यस्य स्वशब्देनैवोक्तत्वात् । क्त्वापि तर्हि न ५प्राप्नोति । माभूदभीक्ष्ण्ये प्राकाले भविष्यति । आमीक्ष्ण्यव्यक्तये द्विवचनमिति । अत्रैवं सूत्रपद्धतिः । भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमयादेः (७।४।७३) क्रियायाः साकल्यमवयवक्रियाणां कारूयं फलातिरेको वा भृशार्थः । पौनःपुन्यमाभीक्ष्ण्यम् । क्रियान्तरैरव्यवधानमविच्छेदः । एषु द्योत्येषु यत्पदं वाक्यं वा वर्तते । तत्तमबादिभ्यः प्रागेव द्विरुच्यते । भृशे लुनीहि लुनीहीत्येवायं लुनाति । अधीष्वाधीष्वेत्येवायमधीते । आमीक्ष्ण्ये, भोज २ भुक्त्वा २ ब्रजति । अविच्छेदे, पचति १०२ अधीते २ । भृशादयश्व क्रियाधर्मा इति क्रियापदमेवात्र सम्बध्यते । क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायाशादियोगे द्विर्वचनं भवति । मन्दं मन्दं चलति । यदा तु क्रियारूपता न विवक्ष्यते तदा 'नवा गुणः सदृशेरित्' (७।४।८६) इति द्विवचनम् । मन्दं मन्दं तुदति । एध्विति किम् ? लुनीहि । भुक्त्वा ब्रजति । पचति । भृशाभीक्ष्ण्ययोर्यङिति यङन्तमुक्तार्थत्वान्न द्विरुच्यते । यदा तु भृशार्थे यङ् तदाभीक्ष्ण्यार्थाभिव्यक्तयेद्विवचनम् । पापच्यते २ इति । यदा तु तत्प्रतिपादनाय पञ्चमी विधीयते तदा १५ तस्या द्विर्वचनसहायाया एवाभीक्ष्ण्यप्रतिपादने सामर्थ्यम् । क्त्वाख्णमोरिवेति द्विवचनमपि भवति । पापचख २ । इति । प्राक्तमबादेरिति किम् ? पचति पचतितमां, तराम् । अत्र तमबादेरातिशायिकात् पूर्वमेव द्विर्वचनं पश्चात्तमबादिः । अन्यथा ह्यनियमः स्यात् । 'नानावधारणे' (७।४।७४) नानाभूतानां भेदेनेयत्तापरिच्छेदो नानावधारणम् । तस्मिन् यच्छब्दरूपं तद्विरुच्यते । योगविभागात्प्राक् तमबादेरिति नानुवर्तते । अस्मात्कार्षापणादिह भवद्भयां मापं २ देहि । प्रत्येक माषमात्रं देहि २० नाधिकमित्यर्थः । द्वौ द्वौ देहि, त्रीन् २ देहि । 'आधिक्यानुपू] (७।४।७५) आधिक्यं प्रकर्षः । आनुपूऱ्या क्रमानुल्लङ्घनम् एतयोर्वर्तमानं शब्दरूपं द्विरुच्यते । आधिक्ये, नमो नमः, अधिकं नम इत्यर्थः । कन्या दर्शनीया २, अहो दर्शनीया २, मह्यं रोचते २, एष तवाञ्जलिः . २, मह्यं रोचतेतराम् २ । अत्र प्रागातिशयिकः पश्चात् द्वित्वम् । आनुपूर्ये, मूले मूले स्थूलाः । अग्रे अग्रे सूक्ष्माः । ज्येष्ठं ज्येष्ठमनुप्रवेशय । कनिष्ठं कनिष्ठमासय । मूलाद्यानुपूर्येणैषां स्थौल्यादय इत्यर्थः । २५ अग्रमध्यमूलानि त्रयो भागाः तत्रैकमेव मुख्यमयं मूलं च । अन्येषां तु भागानामपेक्षा कृतोऽप्रमूलव्यपदेशः । अधःसन्निविष्टमपेक्ष्याग्रव्यपदेशः । उपरिसन्निविष्टमपेक्ष्य मूलव्यपदेशः । न चैकरूपं भागानां स्थौल्यं सौक्ष्म्यं वा । किं तर्हि ? यथा मूलमुपचीयते स्थौल्यम् । यथानं च सौक्षम्यापचय इति वीप्सा नास्ति । एवं ज्येष्ठत्व कनिष्ठत्वयोरप्यापेक्षिकत्वाद्वीप्सा नास्तीति वचनम् । 'डतरडतमौ समानां स्त्रीभावप्रश्ने' (७।४।७६) समानां केनचिद्गुणेन तुल्यतया सम्प्रअधारितानां स्त्रीलिङ्गस्य भावस्य प्रश्ने वर्तमानं डतरडतमान्तं द्विरुच्यते । उभाविमावाढ्यौ कतरा कतरा नयोराढ्यता । किं दैवकृता उत पौरुपकृता वेत्यर्थः । कतमा कतमा अनयोराढ्यता । किं साधनसम्बन्धकृता उतान्यसम्बन्धकृता आहोखिदुभयसम्बन्धकृतेत्यर्थः । एवं सर्वे इमे आढ्याः कतरा २ एषामाढ्यता । यतरा २ एषां विभूतिः । ततरा २ कथ्यताम् । यतमा २ सम्पत् ततमा २ कथ्यताम् । डतरडतमाविति किम् ? उभाविमौ आढ्यौ काऽनयोराध्यता । समानामिति किम् ? आयोऽयं ३५ कतरास्याढ्यता कतमास्याव्यता । स्त्रीग्रहणं किम् ? उभाविमौ लक्ष्मीवन्तौ कतरानयोलक्ष्मीः कतमा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636