Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 599
________________ ९७२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'अन' प्रदायेति । एवमुचैःकृत्य नानाकृत्य । *अकृत्वेति । एवं परमकृत्वा । अनब इति नञ्सदृशमव्ययं गृह्यते इतीह नबोऽनव्ययाच्च न भवति । उत्तरपदस्थेत्येव । अलङ्कृत्वा ।। १९४ ॥ अनोपयोगिसूत्राण्याह । सूत्रम् लघोर्यपि ॥ १९५॥ [सि०४।३।८६ ] ५ लघोः परस्य णेर्यप्यय् स्यात् । प्रशमय्य ॥ १९५ ॥ 'लघो' प्रशमय्येति । एवं प्रबेभिदय्य प्रगणय्य' । प्रबेभिद्यमानं प्रयुङ्क्ते यङन्ताणिग् न यङ्लुबन्तात् । 'अतः' (४।३।८२) इत्यलोपे 'योऽशिति' (४।३।८०) यलुप् अस्य स्थानित्वाद्गुणाभावः । प्रबेभिदनं पूर्वम् । यङ्लुबन्ताद्धि णिगि गुणः स्यात् । 'न वृद्धिश्च' इति तु नोपतिष्ठते । यङः पूर्व लोपात् । वचनसामर्थ्यादेकेन वर्णेन व्यवधानमाश्रीयते, न तु भूतपूर्वन्यायोऽत इत्यकरणात् । ननु १० वचनादेकवर्णव्यवधानं तदाश्रीयते यदाऽव्यवहितो न सम्भवति । अत्र तु गणय्येत्यादौ चुराद्यदन्तेषु प्रबेभिय्येत्यादौ च योऽकारलोपे भूतपूर्वगत्याऽव्यवहितः सम्भवतीत्यत्राह अित इत्यकरणादिति । लघोरिति किम् ? प्रतिपाद्य गतः ॥ १९५ ॥ सूत्रम् । वाऽनोः ॥ १९६ ॥ [सि० ४।३।८७] आमोतेः परस्य णेर्यप्यय्वा स्यात् । प्रापय्य प्राप्य । 'मेडो वा मित्' (४।३।८८) यपि । १५अपमित्य अपमाय । 'क्षेः क्षी' (४।३।८९) प्रक्षीय । 'यदि चादो जग्ध्' (४।४।१६) प्रजग्ध्य ॥ १९६ ॥ 'वा' प्राप्येति । पक्षे 'णेरनिटि' (४।३।८३ ) इति लुक् । निर्देशात् इङादेशस्य न स्यात् । अध्याप्य गतः । णौ क्रीजीङः (४।२।१०) इतीङ आत्वे प्राप्ते च रूपम् । 'आकृण लम्भने' इत्यस्यापीच्छन्त्यन्ये । 'मेङो०' सूत्रं स्पष्टम् । 'क्षेः' निरनुबन्धनिर्देशात् क्षिषर हिंसायामित्यस्य २० न भवति । प्रक्षित्य । अस्यापि ग्रहणमित्यन्ये । 'यपि चादो जग्ध' इति स्पष्टम् । प्राग् व्याख्यातं च (पृ० ८७३)॥ १९६ ॥ सूत्रम् यपि ॥ १९७॥ [सि० ४।२।५६ ] यम्यादीनां यपि लुक् स्यात् । प्रहत्य ॥ १९७ ॥ 'यपि यम्यादीनामिति । यमिरमिनमिगमिहनिमनिवनतितनादीनामित्यर्थः । एषामन्तस्य यपि २५लुक् स्यात् । 'वामः' (४।२।५७) इति वचनान्तानान्नामेवायं विधिः । प्रहत्येति । एवं प्रमत्य । वनति प्रवत्य । तनादि प्रतत्य प्रसत्य प्रक्षत्य । यपीति किम् ? हन्यते ॥ १९७ ॥ सूत्रम् वाऽमः ॥ १९८ ॥ [सि० ४।२।५७ ] यम्यादीनाममन्तानां यपि वा लुक् । प्रयत्य । प्रयम्य ॥ १९८॥ 'वा' प्रयम्येति । एवं बिरत्य विरम्य, प्रणय प्रणम्य, आगत्य आगम्य । एषामित्येव । उपशम्य ३०॥ १९८ ॥ सूत्रम् निमील्यादिमेङस्तुल्यकर्तृके ॥ १९९ ॥ [सि० ५।४।४६] ३२ तुल्यो धात्वर्थान्तरेण कर्ता यस्य तद्वृत्तिभ्यो निमील्यादिभ्यो मेङश्च धातोः सम्बन्धे त्वा Jain Education International For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636