Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 613
________________ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु य एचातः ॥ २१५॥ [सि० ५०२८] स्वरान्ताद्धातोर्यः स्यात् आत एश्च । चेयं देयम् ॥ २१५ ॥ 'य ए.' ऋवर्णव्यञ्जनान्ताद् घ्यणो विहितत्वात् परिशिष्टात् स्वरान्ताद्धातोर्यः स्यात् । दातुमिष्यते दित्स्यते इति दित्स्यम् धित्स्यम् । 'अत' इत्यलोपः । चेयम् । नेयम् । शेयम् । नव्यं । ५हव्यं । भव्यं । लव्यं । पेयं । गेयम् ॥ २१५ ॥ सूत्रम् शकितकिचकियतिशसिसहियजिभजिपवर्गात् ॥ २१६ ॥ [सि० ५।१।२९] एभ्योऽष्टाभ्यः पवर्गान्ताच्च यः स्यात् । शक्यं गम्यम् ॥ २१६ ॥ 'शकि०' शक्यमिति । एवं तक्यं चत्यं यत्यं शस्यं सह्यं यज्यं भज्यम् । पवर्ग, गम्यमिति । एवं तप्यं लभ्यम् । यजे. 'त्यजयज०' (४।१।११८) इति प्रतिषेधाजेश्च बाहुलकाद् ध्यणपि । याज्यं १० भाग्यम् । यजिभजिभ्यां नेच्छन्त्येके । कथमसिना वध्योऽसिवध्यः मुशलवध्यः 'न जनवधः०' (४।३।५४) इति वृद्धिप्रतिषेधे ध्यणा भविष्यति ॥ २१६ ॥ यममदगदोऽनुपसर्गात् ॥ २१७ ॥ [सि० ५।११३०] एभ्योऽनुपसर्गेभ्यो यः स्यात् । यम्यं मद्यं गद्यम् ॥ २१७ ॥ 'यम' अनुपसर्गादिति किम् ? आयाम्यं प्रमाचं निगाद्यम् । पवर्गान्तत्वात् सिद्धे नियमार्थ १५वचनम् । अनुपसर्गादेव यथा स्यात् । बहुलवचनान् माधन्त्यनेनेति मद्यम् करणेऽपि, नियम्यमिति च सोपसर्गादपि ॥ २१७ ॥ सूत्रम् क्षय्यजय्यौ शक्तौ ॥ २१८॥ [सि० ४।३।९०] शक्तौ गम्यायामेतौ निपात्यौ । क्षय्यो व्याधिः । जय्यः शत्रुः । 'क्रयः क्रयाथै (४३९१) क्रयाय प्रसारितः क्रय्योऽर्थः ॥२१८ ॥ २० 'क्षय्य.' क्षि जि इत्येतयोः शक्तौ गम्यायां यप्रत्ययेऽयन्तादेशो निपात्यते । शक्यः क्षेतुं क्षय्यो व्याधिः । शक्यं क्षेतुं क्षय्यं बटुना । शक्यो जेतुं जय्यः शत्रुः । शक्यं जेतुं जय्यं राज्ञा । शक्ताविति किम् ? अहे, क्षेयं जेयम् । सूत्रम् 'ऋय्यः ' (४।३।९१) क्रीणातेर्यप्रत्ययेऽयन्तादेशो निपात्यते । क्रयार्थे क्रयाय चेत्प्रसारितोऽभिधेयो भवति । क्रय्यो गौः । क्रय्यः कम्बलः । क्रयार्थ इति किम् ? केयं नो धान्यं न चास्ति प्रसारितम् । अत्रादिशब्दसान्निध्यात् 'चरेराङस्त्वगुरौं' २५ (५।१।३१) अनुपसर्गाचरेरापूर्वोत्त्वगुरौ यो भवति । चयं भवता । चर्यो देशः । आचर्यं भवता। आचर्यो देशः । आङस्त्विति किम् ? अभिचार्यम् । अगुराविति किम् ? आचार्यों गुरुः । 'वयोंपसर्यावधपण्यमुपेयर्तुमतीगीविक्रेये' (५।१।३२) वर्यादयः शब्दा उपेयादिष्वर्थेषु यथासमयं यान्ता निपात्यन्ते । घृणातेर्ये वर्या उपेया चेद्भवति । शतेन वर्या सहस्रेण वर्या कन्या सम्भक्तव्या मैत्रीमापादनीयेति यावत् ; वृत्यान्या । वृणोतेः क्यप् । स्त्रीलिङ्गनिर्देशादिह न भवति । ३० वार्या ऋत्विक् । अन्यस्तु 'सुग्रीवो नाम वर्योऽसौ भवता चारुविक्रम' इति प्रयोगदर्शनात् पुंल्लिङ्गेऽपीच्छति । सामान्यनिर्देशात्तदपि सङ्ग्रहीतम् । शतेन वर्यः सहस्रेण वर्यः । उपपूर्वात्सर्तेर्ये उपसर्या ऋतुमती चेत् । उपसर्या गौः । गर्भग्रहणे प्राप्तकालेत्यर्थः । अन्यत्र उपसार्या शरदि मथुरा । नपूर्वा३३द्वदेर्ये अवयं गडं चेत् । अवयं पापम् । अवद्या हिंसा गर्दैत्यर्थः । अनुद्यमन्यत् । कथमवाया ? Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636