Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 615
________________ ૧૮૮ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुआङ्पूर्वादञ्जघृतेऽर्थे क्यप् । आनजन्त्यनेनेत्याज्यं घृतम् । आञ्जनमन्यत् । सर्तेः क्यप् ऋकारस्योर सुवतेर्वा क्यप् रोऽन्तश्च देवतायाम् । सरति सुवति वा कर्मसु लोकानिति सूर्यो देवता । बहुलाधिकारान्निपातनसामर्थ्याद्वानुक्तोऽपि निपातनेषु कारकविशेषोऽवगम्यते ॥ २२३ ॥ वग्रस्तुजुषेतिशासः ॥ २२४ ॥ [सि० ५।१।४०] ५ एभ्यः क्यप् । आदृत्यः प्रावृत्यः स्तुत्या जुष्यः । एतीति इणिकोहणम् । इत्यः अधीत्यः शासे शिष्यः । आशासेस्तु आशास्थम् ॥ २२४ ॥ 'हवृ०' , आदृत्यः प्रावृत्य इति युगः । वृङस्तु वार्या ऋत्विजः । स्तु, स्तुत्यः अवश्यस्तुत्यः । जुष जुष्यः । इत्यः अधीत्य इति इणिकोः । अयतेरिङस्तु न भवति उपेयम् अध्येयम् । इकोऽप्यध्येयमित्येके । ईयतेरप्युपेयमिति भवति । आशास्यमिति । 'आशास्थमन्यत्पुनरुक्तभूतमिति' । कथ मनिवार्यो १० गजैरन्यैः स्वभाव-इव देहिना मिति ?। सम्भक्तेरन्यत्रापि वृछ ।। २२४ ॥ ऋदुपान्त्यादकृपिचः ॥ २२५॥ [सि० ५॥१॥४१] कृप्यादिवर्जाददुपान्त्यात्क्यप् स्यात् । वृत्यम् । कृप्यादिवर्जनात् कल्प्यम् ॥ २२५ ॥ 'ऋदु०' वृत्यमिति । एवं वृध्यं गृध्यं शृध्यम् । कल्प्यमिति । एवं चर्यं अय॑म् ॥ २२५ ॥ कृवृषिमृजिशंसियहिदुहिजपो वा ॥ २२६ ॥ [सि० ५।१।४२] १५ एभ्यः सप्तभ्यः क्यप् वा स्यात् । कृत्यं कार्यम् । वृष्यं वर्ण्यम् । मृज्यं मार्यम् । शस्यं शंस्यम् । गुह्यं गोयम् । दुयं दोह्यम् । जप्यं जाप्यम् ॥ २२६ ॥ ___'कृवृ०' जाप्यमिति । जपेरपि क्यबभावपक्षे ध्यण् । विकल्पसामर्थ्यात् । 'शकितकि०' इति यप्रत्यये तु विशेषाभावः । आदिशब्दानुवृत्त्या च "जिविपून्यो हलिमुञ्जकल्के' (५।१।४३) जयतेर्विपूर्वाभ्यां च पूनीभ्यां यथासङ्ख्यं हल्यादिष्वर्थेषु क्यप् स्यात् । जीयते निपुणेनेति जित्या जित्यो वा हलिर्म२० हद्धलम् । पूङ पूगु वा विपवितव्यो विपूयो मुञ्जस्तृणविशेषः । पूगो नेच्छन्त्येके । विनेतव्यस्तैलादिना कात्ममध्ये प्रापणीय इति विनीयः कल्कत्रिफलादीनाम् । हल्यादिष्विति किम् ? अन्यत् जेयम् । विपव्यम् । विनेयम् । 'पदाखैरिबाह्यापक्ष्ये ग्रहः' (५।११४४) विभक्त्यन्तं पदम् । अस्वैरी परतत्रः । बाह्या बहिर्भवा । पक्ष्यो वयः । एष्वर्थेषु ग्रहः क्यप् स्यात् । ध्यणोऽपवादः । प्रगृह्यते विशेषेण ज्ञायते इति प्रगृह्यं पदम् यत्स्वरेण न सन्धीयते 'अनी इति' । अवगृह्यते नानावयव२५ सात्क्रियते इति अवगृह्यं पदम् । यथा पचतीत्यत्र पच् शव् तिव् इत्यवयवाः । अस्वैरिणि, गृह्यन्ते इति गृह्याः कामिनः रागादिपरतत्रा इत्यर्थः । बाह्यायां ग्रामगृह्या श्रेणिः, नगरगृह्या सेना बाह्येत्यर्थः । स्त्रीलिङ्गनिर्देशो लिङ्गान्तरेऽनभिधानख्यापनार्थः। पक्ष्ये, त्वद्ह्यः मद्गृह्यः । 'गुणगृह्या वचने विपश्चितः' तत्पक्षाश्रिता इत्यर्थः । एष्विति किम् ? ग्राह्यं वचः । 'भृगोऽसंज्ञायाम्' (५।१।४५) क्यप् । भ्रियते भृत्यः पोष्य इत्यर्थः । असंज्ञायामिति किम् ? भार्यो नाम क्षत्रियः । भार्या पत्नी । ननु च ३० संज्ञायामपि स्त्रियां भृगो नानीति क्यबस्ति । यथा कुमारभृत्या । न । तस्य भावे एव विधानात् । 'समो वा' (५।१।४६) सम्पूर्वाद्धगः क्यप् वा स्यात् । सम्भृत्यः सम्भार्यः । * इति क्यप्प्रत्ययप्रकरणम् - ३२॥ २२६ ॥ कृत्यप्रत्ययानामर्थविशेषानाह । सूत्रम् Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636