Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai
View full book text
________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायां कृत्यप्रत्ययाधिकारः ९८७ वदेर्निरुपपदाद् ध्यण पश्चान्नन्समासः । पणेर्ये पण्यं विक्रेयं चेत् । पण्यः कम्बलः । पण्यो गौः विक्रेय इत्यर्थः । अन्यत्र पाण्या साधुः । 'खामिवैश्येयः' (५।१।३३) अर्तेरनयोरभिधेययोर्यो निपात्यते । अर्यः स्वामी वैश्यश्च । अन्य आर्यः । 'वह्यं करणे (५।१।३४) वहेः करणे यो निपात्यते । वहन्ति तेनेति वह्यं शकटम् । वाह्यमन्यत् । *इति यप्रत्ययप्रकरणम् ॥ २१८ ॥ सूत्रम्
नानो वदः क्यप् च ॥ २१९ ॥ [सि० ५।१३५] अनुपसर्गान्नानः पराद्वदेः क्यप्यो साताम् । ब्रह्मोद्यम् ब्रह्मवद्यम् ॥ २१९ ॥ 'नानो' अनुपसर्गादिति वर्तते । ब्रह्मोद्यमिति । एवं सत्योद्यम् सत्यवद्यम् । अनुपसर्गादित्येव । प्रवाद्यम् । अनुवाद्यम् । ककारः कित्कार्यार्थः । पकार उत्तरत्र तागमार्थः ॥ २१९ ॥
हत्याभूयं भावे ॥ २२० ॥ [सि० ५।१६३६ ] अनुपसर्गानाम्नः परावेतौ भावे क्यबन्तौ निपात्यौ । ब्रह्महत्या देवभूयं गतः ॥ २२०॥ 'हत्या' हन्तेः स्त्रीभावे क्यप् तकारश्चान्तादेशः । ब्रह्मणो वधः ब्रह्महत्या भ्रूणहत्या दरिद्रहत्या । भवतेनपुंसके भावे क्यप् । ब्रह्मणो देवस्य भवनं ब्रह्मभूयं देवभूयं गतः । ब्रह्मत्वं देवत्वं गत इत्यर्थः । भाव इति किम् ? शुना हन्यते श्वघात्या वृषली । नान्न इत्येव । हतिः घातः भव्यम् । हन्तेर्भावे ध्यण् न भवत्यनभिधानात् । तथा च बहुलाधिकारः । अनुपसर्गादित्येव । उपहतिः १५ प्रभव्यम् ॥ २२० ॥ सूत्रम् अग्निचित्या [सि०५॥१॥३७] खेयमृषोये [सि०५।११३८] ॥ २२१ ॥२२२॥ एते निपात्याः ॥ २२१ ॥ २२२ ॥ 'अग्निः ' अग्नेः पराचिनोतेः स्त्रीभावे क्यप् । अग्नेश्चयनमग्निचित्या । 'खेय०' (५।१।३८) अनुपसर्गादिति नान इति च निवृत्तम् । एतौ क्यबन्तौ निपात्येते । खनेय॑णोऽपवादः क्यप् अन्त्य-२० खरादेरेकारश्च । खन्यते इति खेयम् निखेयम् उत्खेयम् । मृषापूर्वाद्वदतेः पक्षे ये प्राप्ते नित्यं क्यप् । मृषोद्यते इति मृषोद्यम् । नात्र भाव एवेति योगविभागः ॥ २२२ ॥ कुप्यभियोद्ध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्यं नाम्नि
॥ २२३॥ [सि० ५॥१॥३९] एते क्यबन्ताः संज्ञायां निपात्याः ॥ २२३ ॥
२५ 'कुप्य' गुपेः क्यप् आदेः कत्वं च धनेऽर्थे । गोपाय्यते तदिति कुप्यम् धनम् । गोप्य ? (गोपाय्यं) मन्यत् । भिदेरुज्झेश्च नदेऽभिधेये क्यप् उज्झेधत्वं च । भिनत्ति कूलानि इति भिद्यः । उज्झत्युदकमिति उद्ध्यः । अन्यत्र भेत्ता उज्झिता । सिधित्विषिपुषिभ्यो नक्षत्रेऽभिधेये क्यप् विषेर्वलोपश्च । सिध्यन्ति त्वेषन्ति पुष्यन्यस्मिन् कार्याणीति सिध्यः तिष्यः पुष्यः । अन्यत्र सेधनः त्वेषणः पोषणः। युजेः क्यप् गत्वं च वाहनेऽभिधेये । युञ्जन्ति तदिति युग्यं वाहनम् गजाश्वादि । योग्यमन्यत् ।३०
१ एतदर्थमेव बहुलाधिकारोऽनुवर्तते इत्यर्थः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636