Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 616
________________ प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रियायां कृत्यप्रत्ययाधिकारः शक्ताऽर्हे कृत्याश्च ॥ २२७ ॥ [ सि० ५| ४ | ३५ ] शक्ते च कर्त्तरि गम्ये धातोः कृत्याः सप्तमी च स्युः । भवता खलु भारो वाह्यः । भवान् हि शक्तः । भवता खलु कन्या वाह्या । भवानेव तदर्हति ॥ २२७ ॥ 'शक्ता०' गम्ये इति । नतु वाच्य एवेत्यर्थः । शक्ते कर्त्तरि गम्ये, यथा भवता खलु भारो वाह्य इति । एवं वोढव्यः वहनीय उह्येत । शक्ते कर्त्तरि वाच्ये, यथा भवान् भारं वहेत् । तथा चाह - ५ भवान् हि शक्त इति । अर्हे कर्त्तरि गम्ये, यथा भवता खलु कन्या वाह्येति । एवं वोढव्या वहनीया । तथा चाह - भवानेव तदर्हतीति भवान् खलु कन्यां वहेत् । अत्रा कर्त्तरि वाच्ये व्यक्तिव्याख्यानादनेन सप्तमी । अन्यथा कर्त्तरि 'अर्हे तृच्' इति परत्वात्तृजेव स्यात् । भावकर्मणोरस्य चरितार्थत्वात् । एवं भवता खलु छेदसूत्रं वाह्यं वोढव्यं वहनीयम् । भवान् खलु छेदसूत्रं वहेत् । भवानेतदर्हति । सप्तम्या बाधो मा भूदिति कृत्यग्रहणम् । अत्रादिशब्दसंसर्गात् 'णिन् चावश्यका- १० धम' ( ५।४।३६ ) अवश्यंभाव आवश्यकम् । ऋणेऽधमोऽधमर्णस्तस्य भाव आधमर्ण्यम् अनयोर्गम्ययोः कर्त्तरि वाच्ये धातोर्णिन् कृत्याश्च स्युः । अवश्यं करोति कारी । हारी । यदा त्ववश्यमोपि प्रयोग उभाभ्यामपि द्योतनात्तदा मयूरव्यंसकादित्वात्समासः । अवश्यंकारी २ । अवश्यशब्दप्रयोगे तु अवश्यकारी । अकारान्तोऽपि ह्यनव्ययमवश्यशब्दोऽस्ति । अवश्यं गेयो गाथको गीतस्य । अवश्यं भव्यश्चैत्रः । आधमये शतं दायी सहस्रं दायी । कारी मे कटमसि । हारी मे १५ भारमसि । गेयो गाथानाम् । णिना बाधो मा भूदिति कृत्यविधानम् । कृत्त्वाच्च कर्त्तरि णिनो विधानात् कृत्यानामपि कर्त्तर्येव विधानम् । भावकर्मणोस्तु सामान्येन विधानात् सिद्धा एव बाधकाभावात् । 'अ तृच्' (५|४|३७ ) अर्हे कर्त्तरि वाच्ये धातोस्तृच् स्यात् । भवान् कन्याया वोढा । भवान् खलु छेदसूत्रस्य वोढा । सप्तम्या बाधो मा भूदित्यर्हे तृविधानम् ॥ २२७ ॥ । २० व्याप्ये घुरकेलिमकृष्टपच्यम् ॥ २२८ ॥ [ सि० ५ | १ | ४ ] घुरकेलिमौ प्रत्ययौ कृष्टपच्यशब्दश्च व्याप्ये कर्त्तरि स्युः । स्वयं भज्यते इति भङ्गुरं काष्ठम् । पचेलिमा माषाः । कृष्टपच्याः शालयः ।। २२८ ॥ Jain Education International इति श्रीमहोपाध्यायश्रीकीर्त्तिविजयगणि शिष्योपाध्यायश्री विनय विजयगणिविरचितायां हैमलप्रक्रियायां तृतीया वृत्तिः समाप्ता । ९८९ सम्पूर्णा चेयं प्रक्रिया For Personal & Private Use Only २५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636