Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 617
________________ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु प्रशस्तिः १० . स्फूर्जदूपार्थनिधेमव्याकरणरत्नकोशस्य । अर्गलभिद्रचनेयं कनीयसी कुञ्चिकाद्रियताम् ॥१॥ श्रीहीरविजयसूरे पट्टे श्रीविजयसेनसूरीशाः। तेषां पट्टे सम्प्रति विजयन्ते विजयदेवसूरीन्द्राः ? ॥२॥ श्रीविजयसिंहमूरिर्जीयाजयवति गुरौ गते स्वर्गम् । श्रीविजयप्रभसूरियुवराजो राजतेऽधुना विजयी ॥३॥ खेन्दुमुनीन्दुमितेऽब्दे विक्रमतो राजधन्यपुरनगरे। श्रीहीरविजयसूरेः प्रभावतो गुरुगुरोविपुलात् ॥ ४॥ श्रीकीर्तिविजयवाचकशिष्योपाध्यायविनयविजयेन । हैमव्याकरणस्य प्रथितेयं प्रक्रिया जीयात् ॥५॥ युग्मम् । भावनगरीयां प्रतौ 'कान्तिविजयाख्यगणिनः पठनकृते कृतधियः सतीर्थ्यस्य । विहितोऽयं यत्नः स्तात् सफला सर्वोपकारेण ॥६॥ प्रत्यक्षरं गणनया संख्येतस्य मयोदिता। अनुष्टुभां चतुस्त्रिंशत्सहस्री जयताचिरम् ॥ ७॥ ग्रंथ सं. ३४००० वे. लि. बोडा पूनमचंद प्रत्यक्षरं गणनया ग्रन्थमानमिहोदितम् । अनुष्टुभां सहस्रे द्वे शतैः पञ्चभिरन्विते ॥ ८॥ इति अम्मदावादीयप्रतौ । समाप्तम् । १ व्याप्ये.' धुरकेलिमौ इत्यादि । तत्र 'भञ्जिभासिमिदो घुरः' (५।२।७४) 'वेत्तिच्छिदिभिदः कित्' (५।२७५) इति सूत्रद्वयेन विहितो घुरप्रत्ययः । केलिमोऽत एव वचनाद् ज्ञायते कृष्टपच्ये यश्च । एतेऽनेन कर्मकर्तरि विधीयन्ते । भिदेलिमास्तंदुलाः । 'विहाविशापचिभिद्यादेः केलिमः' (३५४) इत्यौणादिकः केलिमो नियतधातुवाच्यविषयो यथासम्भवं कादिकारके च । यथा पचत्यसावन्नमिति पचेलिमोऽग्निरादित्यश्च । भिदेलिमस्तस्करः । अयं तु २५ यथालक्ष्यं सर्वधातुविषयः कर्मकर्तरि च । कौमुद्यां तु केलिम उपसङ्ख्यानं पचेलिमा माषाः पक्तव्याः भिदेलिमाः सरला भेत्तव्याः । कर्मणि प्रत्ययः । वृत्तिकारस्तु कर्मकर्तरि चायमिष्यते इत्याह । तद्भाष्यविरुद्धमित्ययुक्तम् । कृष्टे पच्यन्ते स्वयमेव कृष्टपच्याः शालय इति । अत्र शालिशब्दोपादानं प्रक्रियाग्रन्थस्य समाप्तौ पर्यन्तमङ्गलार्थम् । तत्र शालिशब्दः प्रशस्यधान्याभिधायित्वेन द्रव्यमङ्गलम् । श्रीशालिभद्रमहर्षिस्मारकत्वेन भावमङ्गलमपीति ज्ञेयम् । अत्रादिशब्दानुवृत्त्या 'सङ्गतेजर्यम्' ३० ( ५।१५) सङ्गमनं सङ्गतम् तस्मिन् कर्त्तर्यभिधेये नञ्पूर्वाजीर्यतेर्यप्रत्ययो निपात्यते । देवादिकस्य जष इत्यस्येदं निपातनम् , न तु क्रैयादिकस्य जृश इति । न जीर्यति अजय आर्यसङ्गतम् । मृगैरजयं जरसोपदिष्टम् । सामान्यविशेषभावेन चोभयोरपि प्रयोगो भवति । तेन सङ्गतमार्येण रामाजयं कुरु ३३ द्रुतम् । अजय सङ्गतम् नोऽस्तु । सङ्गतमिति किम् ? अजरः पटः । अजरिता कम्बलः । कर्तरीत्येव । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636