Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai
________________
९८४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुनाम । यस्मिन् याज्ञिकानधिब्रुवते तस्मिन्नेवाभिधानम् । अधिवाच्यमन्यत्र । आदिशब्दसंसर्गात् 'न वञ्चेर्गतौ' (४।१।११३) गतौ वर्तमानस्य वञ्चेः कत्वं न स्यात् । वञ्चेर्घञ् । वञ्चं वञ्चन्ति गन्तव्यं गच्छन्तीत्यर्थः । 'पश्यैते व्याधवाण्यसंडले वित्तवत्तमाः । रात्रावपि महारण्ये वश्वं वश्वन्ति वाणिजाः' ॥१॥ गताविति किम् ? वकं काष्ठं कुटिलमित्यर्थः । 'यजेर्यज्ञाने' ५(४।१।११४) यज्ञाङ्गे वर्तमानस्य यजेर्गत्वं न स्यात् । पञ्च प्रयाजाः । प्रेज्यन्ते एभियंञ्जनाद् घञ् । प्रयजनानि वा भावे घनि । त्रयोऽनुयाजाः । एकादशोपयाजाः । उपांशु एकान्ते यजनानि उपांशुयाजाः । पत्नीसंयाजाः । ऋतुयाजाः । घञ् याज इत्यप्यन्ये । यज्ञाङ्ग इति किम् ? प्रयागः अनुयागः यागः । 'भुजन्युजं पाणिरोगे' (४।१।१२०) भुजेर्निपूर्वस्योब्जेश्च घनन्तस्य पाणौ रोगे चार्थे यथासङ्ख्यं भुजन्युजौ निपात्येते । भुज्यतेऽनेनेति भुजः पाणिः । न्युब्जिताः शेरतेऽस्मिन्निति १० न्युब्जो रोगविशेषः । 'व्यञ्जनाद् घळ' (५।३।१३२) इति घनि गत्वाभावो भुजेर्गुणाभावश्च निपात्यते । पाणिरोग इति किम् ? भोगः न्युद्गः । 'वीरुन्यग्रोधी' (४।१।१२१) विपूर्वस्य रहेः क्विपि न्यपूर्वस्य चाचि वीरुत् न्यग्रोधशब्दौ धकारान्तौ निपात्येते । विरोहतीति वीरुत् निपातनादीर्घः । न्यग्रोहतीति न्यग्रोधः । अवरोध इत्यप्यन्ये ॥ २११ ॥
अथ प्रकृतम् १५ उवर्णादावश्यके ॥ २१२ ॥ [सि० ५।१।१९ ]
अवश्यंभावे द्योत्ये उवर्णान्ताद्धातोय॑ण स्यात् ॥ २१२ ॥
'उव.' अवश्यस्य भावो अवश्यम्भाव इति वा । अकनि आवश्यकम् तस्मिन् द्योत्ये उवर्णान्ताद्धातोय॑ण स्यात् । लाव्यं पाव्यम् । यन्नियोगात्कर्त्तव्यमर्थप्रकरणादिना निश्चितं तत्रायं प्रत्ययः ।
लाव्यमवश्यम् । पाव्यमवश्यम् । अवश्यलाव्यम् । अवश्यपाव्यम् । अत्रावश्यंशब्देनाप्यवश्यंभावो २० द्योत्यते । मयूरव्यंसकादित्वाच (३।१।११६) समासः । अवश्यस्तुत्य इति परत्वात् क्यप् । आवश्यक इति किम् ? लव्यम् पव्यम् ॥ २१२ ॥ अनोपयोगि सूत्रम् ।
कृत्येऽवश्यमो लुक् ॥ २१३ ॥ [सि० ३।२।१३८] कृत्यान्ते उत्तरपदेऽवश्यमो लुक् स्यात् । अवश्यलाव्यम् । 'घ्यण्यावश्यके' (४।१।११५)। चजोः कगौ न स्याताम् । अवश्ययाच्यं अवश्यरज्यम् ॥ २१३॥ २५ कृत्ये' अवश्यमो लुक् स्यादिति । षष्ठ्यान्त्यस्येति परिभाषया मो लुक् । अवश्यलाव्यमिति ।
एवं अवश्यकार्य अवश्यस्तुत्यं अवश्यदेयं अवश्यकर्त्तव्यं अवश्यकरणीयम् । कृत्य इति किम् ? अवश्यंलावकः ॥ तेनिट इति घत्वे प्राप्ते अपवादसूत्रम् । 'घ्यण्या०' (४।१।११५) आवश्यकोपाधिके ध्यणि परे धातोश्चजोः कगौ न स्याताम् । अवश्यपाच्यमिति । एवं अवश्यरेच्यं अवश्यरञ्जयमिति । एवमवश्यभञ्जयम् । आवश्यक इति किम् ? पाक्यं रेक्यं रजयं भङ्ग्यम् । अत्रादि३० शब्दानुवृत्त्या उक्तशेष ध्यणप्रत्ययप्रकरणं त्वेवम् । "पाणिसमवाभ्यां सृजः' (५।१।१८)
पाणिपूर्वात्समवपूर्वाच्च सृजेय॑ण् स्यात् । ऋदुपान्त्यक्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसा रजुः । समवसृज्यते समवसर्यः । आभ्यामिति किम् ? सृज्यं संसृज्यम् । समवेति समुदायग्रहणार्थ द्विवचनम् । 'आसुयुवपिरपिलपित्रपिडिपिदभिचम्यानसः' (५।१।२०) ३४आपूर्वाभ्यां सुनोतिनमिभ्यां यौत्यादिभ्योऽष्टाभ्यश्च ध्यण् स्यात् । यापवादः। आसाव्यं याव्यं वाप्यं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636