Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 608
________________ प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायां णम्प्रत्ययप्रकरणम् ९८१ व्यङ्गुलेन व्यङ्गुले उत्कृष्य गण्डिकां छिनत्ति । केशैर्गृहीत्वा केशेषु गृहीत्वा युद्ध्यन्ते । 'पञ्चम्या त्वरायाम्' (५।४।७७ ) अस्यां गम्यायां पचम्यन्तेन योगे धातोस्तुल्यकर्तृकेर्थे वर्त्तमानाद्धातोः सम्बन्धे णम् वा स्यात् । [ त्वरा परीप्सा औत्सुक्यमिति यावत् ] शय्याया उत्थानं शय्योत्थानं धावति । त्वरयावश्यकादिकमपि नापेक्षते । स्तनरन्ध्रादपकर्ष स्तनरन्ध्रापकर्ष पयः पिवति । त्वरया पात्रे दोहमध्यप्रतीक्ष्य मुख एव पयः पिबतीत्यर्थः । पक्षे शय्याया उत्थाय धावति । त्वरायामिति किम् ? आसना-५ दुत्थाय गच्छति । 'द्वितीयया' (५।४।७८) द्वितीयान्तेन योगे धातोस्तुल्यकर्तृकेऽर्थे वर्त्तमानात् त्वरायां गम्यायां धातोः सम्बन्धे णम् वा स्यात् । लोष्ठान् ग्राहं लोष्ठप्राहं दण्डमुद्यामं दण्डोद्यामं युद्ध्यन्ते एवं नाम योद्धुं त्वरन्ते । यदायुधग्रहणमपि नाद्रियन्ते यत्किञ्चिदासनं तद् गृह्णन्ति । पक्षे लोष्ठान् यष्टीन गृहीत्वा युद्ध्यन्ते । त्वरायामित्येव, खतं गृहीत्वा युध्यन्ते । योगविभाग उत्तरार्थः । 'खाङ्गेनाधुवेण' (५।४।७९) यस्मिन्नने छिन्ने भिन्ने वा प्राणि न म्रियते तदध्रुवम् । अश्रुवेण परिभाषितखाङ्गेन १० द्वितीयान्तेन योगे धातोस्तुल्यकर्तृकेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे णम्वा स्यात् । भ्रुवौ विक्षेपं 1 विक्षेपं जल्पति । अक्षिणी निकाणं अक्षिनिकाणं हसति । केशान् परिधायं केशपरिधायं नृत्यति । प्रतिमाया पादावनुलेपं पादावनुलेपं प्रणमति । पक्षे भ्रुवौ विक्षिप्य जल्पति । स्वाङ्गेनेति किम् ? कफमुन्मूल्य जल्पति । अधुवेणेति किम् ? शिर उत्क्षिप्य कथयति । 'परिक्लेश्येन' (५।४।८० ) परिसमन्तात् पीड्यमानेन द्वितीयान्तेन योगे तुल्यकर्तृकेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे णम् वा स्यात् । १५ ध्रुवगार्थोऽयमारम्भः । उरांसि प्रतिपेषं उरःप्रतिपेषं युद्ध्यन्ते । शिरांसि छेदं शिरश्छेदं युद्ध्यन्ते । उरांसि परिपीड्यन्तः शिरांसि छिंदन्तो युध्यन्ते इत्यर्थः । पक्षे उरांसि प्रतिपिष्य शिरांसि छित्त्वा । 'विशपतपदस्कन्दवीप्साभीक्ष्ण्ये' (५।४।८१) श्रुतत्वाद्विश्यादि क्रियाभिः साकल्येनोपपदार्थानां व्याप्तुमिच्छा वीप्सा । प्रकृत्यर्थस्य पुनः पुनरासेवनमाभीक्ष्ण्यम् । यदाहु: 'सुप्सु वीप्सा ति अव्ययकृत्सु चामीक्ष्ण्यमिति' । द्वितीयान्तेन योगे विश्यादिभ्यस्तुल्यकर्तृकेऽर्थे वर्त्तमानेभ्यो बीप्सा- २० यामामीक्ष्ण्ये च गम्यमाने धातोः सम्बन्धे णम् वा स्यात् । गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते । गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते । गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते । गेहं गेहमनुप्रपादं गेहानुप्रपाद्मास्ते । गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते । गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते । गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमास्ते । पक्षे गेहं गेहमनुप्रविश्यास्ते । गेहमनुप्रविश्यानुप्रविश्यास्ते इत्यादि । वीप्सायामुपपदस्य द्विर्वचनम् । आभीक्ष्ण्ये धातोर्द्विर्वचनम् । गेहानुप्रवेशमा स्ते २५ इत्यादौ तु वीप्साभीक्ष्ये शब्दशक्तिस्वाभाव्यात् समासेनैवोक्ते इति द्विर्वचनं न भवति । आभीक्ष्ण्ये णम् सिद्ध एव, विकल्पेनोपपदसमासार्थं वचनम् । 'ख्णम् चाभीक्ष्ण्ये' ( ५।४।४८) इत्यनेन हि रुणमि समासो न स्यात् । वीप्सामीक्ष्ण्य इति किम् ? गेहमनुप्रविश्यास्ते । 'कालेन तृष्यखः क्रियान्तरे' (५।४।८२) क्रियामन्तरयतीति क्रियान्तरः क्रियाव्यवधायकस्तस्मिन्नर्थे वर्त्तमानाभ्यां तृष्यसूभ्यां धातुभ्यां द्वितीयान्तेन कालवाचिना योगे धातोः सम्बन्धे णम् वा स्यात् । व्यहं तर्ष व्यहतर्षं व्यहमत्यासं ३० यहात्यासं गावः पिबन्ति । तर्षेणात्यासेन च गवां पानक्रिया व्यवधीयते; अद्य पीत्वा व्यहमतिक्रम्य पिबन्तीत्यर्थः । अन्तर्मुहूर्त्तमत्यासमन्तमुहूर्त्तात्यासं सम्यक् पश्यन्ति, सम्यग्दृष्ट्वान्तर्मुहूर्त्त मिथ्यात्वमनुभूय पुनः सम्यग्दृष्टयो भवन्तीत्यर्थः । कालेनेति किम् ? योजनं तर्षित्वा योजनमत्यस्य गावः पिबन्ति । तृष्यस्व इति किम् ? व्यहमुपोष्य भुङ्क्ते । क्रियान्तर इति किम् ? अहरत्यस्येषून् गतः । अहरिषूनत्यस्य गत इत्यर्थः । इहात्यासेनाहरिषवञ्च व्याप्यन्ते, नतु गतिक्रिया व्यवधीयते । ३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636