Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 607
________________ ९८० महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु 1 स्वार्थात् स्नेहनार्थाश्च करणवाचिनः पराद्यथासङ्ख्यं पुषः पिषश्च तस्यैव धातोः सम्बन्धे सति णम्वा स्यात् । स्वपोषं पुष्णाति पुष्यति पोषति वा । एवमात्मपोषं गोपोषं महिषीपोषं पितृपोषं रैपोषम् । स्वादिभिः पुष्णातीत्यर्थः । स्नेहनार्थात् उदपेषं पिनष्टि । एवं क्षीरपेषम् । उदकादिना पिनष्टीत्यर्थ: । 'कर्तुर्जी - पुरुषान्नश्वहः' (५/४१६९ ) कर्तृवाचिभ्यां जीवपुरुषाभ्यां पराभ्यां यथासङ्ख्यं नशिवहिभ्यां ५ तस्यैव धातोः सम्बन्धे णम्वा स्यात् । जीवनाशं नश्यति । जीवन्नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषः प्रेष्यो भूत्वा बहतीत्यर्थः । कर्त्तरिति किम् ? जीवेन नश्यति । पुरुषं वहति । 'ऊर्द्धात् पूः शुषः' (५/४/७०) कर्तृवाचिन ऊर्ध्वशब्दात् परात्पूरः शुषश्च तस्यैव धातोः सम्बन्धे णम्वा स्यात् । पूरीत्यनिर्देशात् पूर्दैवादिको न चौरादिकः । ऊर्ध्वपूरं पूर्यते ऊर्ध्वः पूर्यते । ऊर्द्धशोषं शुध्यति ऊर्द्धः शुष्यतीत्यर्थः । ‘उपात् किरो लवने' (५।४।७२) उपपूर्वात् किरतेले वनेऽर्थे वर्त्तमानस्य धातोः १० सम्बन्धे णम्वा स्यात् । लवन इति वचनात्तस्यैवेति निवृत्तम् । उपस्कारं मद्रका लुनन्ति विक्षिपन्तो लुनन्तीत्यर्थः ( लवन इति किम् ? उपकीर्य गच्छति ) । 'दंशेस्तृतीयया' (५।४।७३ ) तृतीयान्तेन योगे उपपूर्वात्तुल्यकर्तृकेऽर्थे वर्त्तमानादंशेरन्यस्य धातोः सम्बन्धे णम्वा स्यात् । मूलकेनोपदंशं मूलको पदंशं भुङ्क्ते । एवमार्द्रकोपदंशम्, पक्षे मूलकेनार्द्रकेणोपदश्य भुङ्क्ते । मूलकाद्युपदंशेः कर्माणि प्रधानस्य भुजेः करणमिति तृतीयैव भवति । प्रधानक्रियोपयुक्ते हि कारके गुणक्रिया न स्वानुरूपां विभक्तिमुत्पादयितु१५ मलमप्रधानत्वादेव । यथा पक्त्वा भुज्यते ओदन इति । यदा त्ववयवक्रियापेक्षया पूर्वकालविवक्षायां क्त्वा क्रियते । तदा क्रियाभेदात् सम्बन्धाभेदे द्वितीयापि भवति । मूलकमुपदश्य भुङ्क्ते इति । 'हिंसार्थादेकाप्यात्' (५।४।७४ ) हिंसार्थाद्धातोः सम्बध्यमानेन धातुना एककर्मकात्तृतीयान्तेन योगे तुल्यकर्तृकेऽर्थे णम् वा स्यात् । दण्डेनोपघातं दण्डोपघातं गाः सादयति । खङ्गेन प्रहारं खड्गप्रहारं शत्रून् विजयते । पक्षे दण्डेनोपहत्येत्यादि । हिंसार्थादिति किम् ? चन्दनेनानुलिप्य जिनं २० पूजयति । एकाप्यादिति किम् ? दण्डेनाहत्य चौरं गोपालो गाः खेटयति । 'उपपीडरुधकर्ष - स्तत्सप्तम्या' (५।४।७५ ) तया तृतीयया युक्ता सप्तमी तत्सप्तमी तदन्तेन योगे उपपूर्वेभ्य एभ्यस्तुल्यकर्तृकेभ्यो वर्त्तमानेभ्यो धातोः सम्बन्धे णम् वा स्यात् । पार्श्वाभ्यामुपपीडं पार्श्वोपपीडं शेते । पार्श्वयोरुपपीडं पार्श्वयोपपीडं शेते । व्रजेनोपरोधं व्रजोपरोधं गाः सादयति । व्रजे उपरोधं व्रजोपरोधं गाः स्थापयति । पाणिनोपकर्ष पाण्युपकर्ष धानाः पिनष्टि । पाणावुपकर्ष पाण्युपकर्षं धाना २५ गृह्णाति । कर्ष इति शवृनिर्देशाद्भौवादिकस्य । कर्षन्ति शाखां ग्राममिति द्विकर्मकस्याकर्षणार्थस्य प्रहणम न तु तौदादिकस्य । पञ्चभिः हलैः कृषतीति विलेखनार्थस्य, तेन भूमावुपकृष्य तिलान्वपति हलेनोपकृष्य बपतीत्यत्र न भवति । अन्ये त्वनयोरर्थभेदमप्रतिपद्यमानास्तौदादिकादपीच्छन्ति । उपेति किम् ? पार्श्वेन निपीड्य शेते । अन्ये तु उपपूर्वादेव पीडेरिच्छन्ति रुधकर्षाभ्यां तु कामचारेण तेन व्रजरोधं गाः स्थापयति हस्तरोधं दधद्धनुः ब्रजेन रोधं हस्तेन रोधं । उपपूर्वादपि व्रजोपरोधम् । अन्यो३० पसर्गपूर्वादपि ब्रजानुरोधं गाः स्थापयति । एवं पाणिना कर्षं पाणौ कर्षं पाणिनाकर्षं धाराना गृह्णातीत्याद्य भवति । 'प्रमाणसमासस्यो:' ( ५।४।७६) आयाममानम् प्रमाणम् । संरम्भपूर्वकः सन्निकर्षः समासत्तिः । मनःसंक्षोभपूर्वको वा कायविकारविशेषः संरम्भः । अनयोर्गम्ययोस्तृतीयान्तेन सप्तम्यन्तेन च योगे धातोस्तुल्यकर्तृकेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे णम्वा स्यात् । व्यङ्गुलेनोत्कर्ष व्यङ्गुलोत्कर्षम् । व्यङ्गुले उत्कर्षं व्यङ्गुलोत्कर्ष गण्डिकाछिनत्ति । समासत्तौ, केशैर्ग्राहं केशग्राहं । केशेषु प्राहं केशमा ३५ युध्यन्ते । एवं हस्तग्राहं अस्यपनोदं युध्यन्ते । संरम्भादत्यन्तं सन्निकृष्य युद्ध्यन्ते इत्यर्थः । क्षे 1 Jain Education International For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636