Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 605
________________ ९७८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुशब्दमुच्चार्य चौरोऽसीत्याक्रोशतीत्यर्थः । एवं दस्युंकारं व्याधंकारम् । शाप इति किम् ? । चौरं कृत्वा हेतुभिः कथयति ॥ २०३ ॥ सूत्रम् स्वाद्वर्थाददीर्घात् ॥ २०४ ॥ [सि० ५।४।५३ ] खाद्वर्थाददीर्घान्तात् व्याप्यात्परसात्तुल्यकर्तृकात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात् । ५स्वादुङ्कारं मृष्टङ्कारं भुङ्क्ते । पक्षे खाईंकृत्वा ॥ २०४॥ खाद' अयमस्यार्थः । स्वादोरर्थे वर्तमानाच्छब्दाददीर्घान्ताव्याप्यात्परस्मात्तुल्यकर्तृकेऽर्थे वर्तमानात्करोतेर्धातोः सम्बन्धे ख्णम् वा स्यात् । मृष्टंकारं । एवं सम्पन्न कारं लवणकारं । पक्षे खादु मृष्टं सम्पन्नं लवणं कृत्वा भुते । अदीर्घादिति किम् ? स्वाद्वीं कृत्वा खादूकृत्वा सम्पन्नां कृत्वा यवागू भुङ्क्ते । अस्वादु खादं कृत्वा स्वादुङ्कारं भुते इत्यत्र तु ङीच्च्योर्विकल्पितत्वान्न दीर्घ इति भवति । १० सम्पन्नंकारं यवागू भुङ्क्ते इति सामान्येन पदं निष्पाद्य पश्चाद्यवाग्वा सम्बन्धे भविष्यति ॥ २०४॥ अथ क्त्वातुमम् भावे इत्यत्रैव प्रक्रान्तं णम्प्रत्ययं निरूपयति सूत्रम् विग्भ्यः कास्य णम् ॥ २०५॥ [सि० ५।४।५४ ] अतिथिवेदं भोजयति । कन्यादर्श वरयति ॥ २०५॥ 'विद०' अस्यायमर्थः । कार्यविशिष्टाद्वथाप्यात्परेभ्यस्तुल्यकर्तृके प्राकालेऽर्थे वर्तमानेभ्यो १५ विदिभ्यो दृशेश्च धातोः सम्बन्धे णम् वा स्यात् । विद्यतेरकर्मकात्तद्वर्जास्त्रयो विदयो गृह्यन्ते । अतिथिवेदमिति । यं यमतिथिं जानाति लभते विचारयति वा तं तं सर्वं भोजयतीत्यर्थः । कन्यादर्शनमिति । यां यां कन्यां पश्यति तां तां सर्वां वरयतीत्यर्थः । बहुवचनं त्रयाणां विदीनां ग्रहणार्थमन्यथा निरनुबन्धग्रहणेन सानुबन्धस्येत्युपतिष्ठेत । काय॑ इति किम् ? अतिथिं विदित्वा भोजयति । कन्या दृष्ट्वा वरयति ॥ २०५ ॥ सूत्रम् व्याप्याच्चेवात् ॥ २०६ ॥ [सि० ५४७१] व्याप्यात् कर्तुश्च उपमानात्पराद्धातोस्तस्यैव सम्बन्धे णम्वा स्यात् । सुवर्णनिधायं निहितः। काकनाशं नष्टः । एवं यावजीवमधीते । शुष्कपेषं पिनष्टि । *जीवग्राहं गृह्णाति इत्यादयोऽपि यथायोगं णम्प्रत्ययान्ता ज्ञेयाः ॥२०६॥ इति स्वादिप्रत्ययाधिकारः। २५ 'व्याप्या' सूत्रे इवादिति इवार्थादुपमानादित्यर्थः । सुवर्णनिधायमिति सुवर्णमिव निहित इत्यर्थः । एवं रत्ननिधायं घृतनिधायं । शाकछेशं क्लिष्टः ओदनपाकं पकः । कर्तुंरुपमानात् , काकनाशमिति काक इव नष्ट इत्यर्थः । अभ्रविलायं विलीनः अभ्रमिव विलीनः इत्यर्थः । *णमप्रकरणं संक्षेपेण संगृह्णाति एवं यावज्जीवमिति । अत्र सूत्रम् । 'यावतो विन्दजीवः' (५।४।५५) कार्यविशिष्टाव्याप्याद्यावच्छब्दात्पराभ्यां विन्दजीविभ्यामेककर्तृकेऽर्थे वर्तमानाभ्यां ३० धातोः सम्बन्धे णम्वा स्यात् । विन्देति शनिर्देशाल्लाभार्थस्य ग्रहणम् । यावद्वेदं भुंक्ते यावल्लभते तावद्भुङ्क्ते इत्यर्थः । यावज्जीवमधीते, यावज्जीवति तावदधीते इत्यर्थः । जीवेः पूर्वकालासम्भवाद पूर्वकाल एव विधिः । एवमतिथिवेदं भोजयतीत्यत्राप्यपूर्वकाल एव विधिः । भोजनक्रियायामार३३ ब्धायां परिवेषणादि भोजनाईलाभस्य समानकालत्वादिति । शुष्कपेषमिति । अत्र सूत्रम् 'शुष्क २० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636