Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 604
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां क्त्वादिप्रत्ययाधिकारः ९७७ भयादिभिश्चित्तव्यापेक्षात्प्रयोक्तुस्त्वरणं सम्भ्रमस्तस्मिन् द्योत्ये पदं वाक्यमसकृदनेकवारं प्रयुज्यते । अहिरहिः बुद्ध्यस्ख २ अहिरहिरहिः बुद्ध्यस्व बुद्ध्यस्व बुद्ध्यस्व । हस्त्यागच्छति २ । लघु पलायध्वम् २ । सम्भ्रमादौ पदं वाक्यं वा द्विर्भवति । न पदावयवोऽतो नासावसकृद् द्विर्वा भवति । तच्च पदं वाक्यं वा परिनिष्पन्नं सत्तत्र वर्तते नापरिनिष्पन्नमिति कृतेषु घत्वादिकार्येषु तदसकृद् द्विर्वा भवति । नाकृतेषु । द्रोग्धा २ । द्रोढा २ इत्येव भवति । नतु द्रोग्धा द्रोढा, द्रोढा द्रोग्धा । एवं माषवापाणि २.५ मातुःष्वसा २ ।हीणः २। कृतद्विर्वचनानामपि रूपार्थयोरभेदेन स्थानिवद्भावेन चैकपदत्वात् कौतस्कुतः पौनःपुनिक इत्यादिषु तद्धितः सिद्धो भवति । इति सप्रसङ्गं द्विवचनप्रकरणम् । अथ प्रकृतम् । वाधिकारेणैव पक्षे तवाप्रत्ययसिद्धौ चकारण तस्य विधानं वर्तमानादिप्रत्ययान्तरनिषेधार्थम् । ननु स्वादिभिर्भावे विधीयमानः कर्तुरनभिहितत्वात् ओदनं पक्त्वा भुके देवदत्त इत्यादिषु कर्तरि तृतीया प्राप्नोति । नैवम् । भुजिप्रत्ययेनैव कर्तुंरभिहितत्वान्न भवति । प्रधानशक्त्यभिधाने हि गुणशक्तिरभि-१० हितवत्प्रकाशते इति । ख्णम् इत्यस्य खित्त्वं चौरकारमाक्रोशतीत्यादौ मागमार्थम् , णित्त्वं वृद्ध्याद्यर्थम् । अत्रादिशब्दानुसन्धानात् 'पूर्वाग्रेप्रथमे (५।४।४९) एखूपपदेषु परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद्धातोः सम्बन्धे ख्णम् वा स्यात् । अनाभीक्ष्ण्यार्थ पक्षे वर्तमानादिप्राप्त्यर्थं च वचनम् । पूर्व भोज ब्रजति । पूर्व भुक्त्वा व्रजति । अग्रे भोजं अग्रे भुक्त्वा । प्रथमं भोजं प्रथम भुक्त्वा ब्रजति । पक्षे वर्तमानादयोऽपि । पूर्व भुज्यते ततो ब्रजति । एवम प्रथमम् । पूर्वादयश्चात्र १५ व्यापारान्तरापेक्षे प्राक्काले व्रज्यापेक्षे तु क्त्वाख्णमाविति नोक्तार्थता; ततश्चायमर्थोऽन्यभोक्तभुजिक्रियाभ्यः स्खक्रियान्तरेभ्यो वा पूर्व भोजनं कृत्वा ब्रजतीत्यत्र पूर्वप्रथमसाहचर्यादग्रेशब्दः कालवाची न तु सप्तम्यन्तः ॥ २०२ ॥ सूत्रम् अन्यथैवंकथमित्थमः कृगोऽनर्थकात् ॥ २०३ ॥ [सि० ५।४।५०] एभ्यचतुर्व्यः परात्तुल्यकर्तृकात् कगोऽनर्थकाद्धातोः सम्बन्धे रुणम् वा स्याम् । अन्यथाकारं २० एवंकारं कथंकारं इत्थंकारं भुते ॥ २०३॥ 'अन्य' पक्षे क्त्वैव । अन्यथा कृत्वा मुझे इत्यादि । एवमुत्तरत्रापि । आनर्थक्यं करोतेरन्यथादिभ्यः पृथगर्थाभावात् । यावदुक्तं भवति अन्यथाभुङ्के, तावदुक्तं भवति अन्यथाकारं भुङ्के इति । अनर्थकादिति किम् ? अन्यथाकृत्वा शिरो मुक्के । अन्यथाशब्दः शिरःप्रकारे करीतेश्च शिरः कर्म करोतिना विना न गम्यते इति । २५ अत्रामू विशेषौ । 'यथातथादीयोत्तरे (५।४।५१) आभ्यां परात्तुल्यकर्तृकेऽर्थे वर्तमानादनर्थकात्करोतेर्धातोः सम्बन्धे सति ख्णम् वा स्यात् । ईय॑श्चेत्पृच्छते उत्तरं ददाति । कथं भवान् भोक्ष्यते इति पृष्टेऽसूयया तं प्रत्याह यथाकारमहं भोक्ष्ये । तथाकारमहं भोक्ष्ये । किं तवानेन किं ते मया यथाहं भोक्ष्ये तथाई भोक्ष्ये इत्यर्थः । ईर्योत्तरमिति किम् ? यथा कृत्वाहं भोक्ष्ये तथा प्रक्ष्यसि । अनर्थकादित्येव । यथा कृत्वाऽहं शिरो भोक्ष्ये, तथा कृत्वाहं ३० शिरो भोक्ष्ये, किं तवानेन । 'शापे व्याप्यात् (५।४।५२) अनर्थकादिति निवृत्तम् । शापेऽसम्भवात् । व्याप्यादिति भणनाद्वा । व्याप्यात्कर्मणः परात्तुल्यकर्तृकेऽर्थे वर्तमानात्करोतेर्धातोः सम्बन्धे रुणम् वा स्यात् । शापे आक्रोशे गम्ये । चौरंकारमाक्रोशति । करोतिरुच्चारणे । चौरं कृत्वा चौर-३३ __ है. प्रका० उत्त० १२३ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636