Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 594
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां भविष्यति करणाधारयोः प्रत्ययाः ९६७ इति सिद्धे तोये प्रतिषेधार्थ वचनम् । रूपाविशेषाद् घोऽपि न स्यात् । 'आना' (५।३।१३६) आपूर्वान्नयतेः करणे पुन्नाम्नि घञ् निपात्यते । जालं चेद्वाच्यं स्यात् । आनायन्ति तेनानायो मत्स्यानां मृगाणां वा । आदिशब्दात् । 'खनो डडरेकेकवकघं च' (५।३।१३७) खनेः पुन्नान्नि करणाधारयोः ड डर इक इकवक घा एते पञ्च, चकारात् घञ् चेति षद प्रत्ययाः स्युः । आखायते आखन्यते वाऽनेनास्मिन् वा आखः आखरः आखनिकः आखनिकवकः आखनः आखान:५ ॥ १८१ ॥ सूत्रम् । गोचरसश्वरवहब्रजव्यजखलापणनिगमबकभगकषा कषनिकषम् ॥ १८२ ॥[सि० ५।३।१३१ ] न्यायावायाध्यायोद्यावसंहारावहाराधार दारजारम् ॥ १८३ ॥ [सि० ५॥३॥१३४] . एते घघञन्ता निपात्याः ॥ १८२ ॥ १८३ ॥ 'गोच.' एते शब्दाः करणाधारयोः पुन्नानि व्यञ्जनाद् घबिति प्राप्ते घप्रत्ययान्ता निपात्यन्ते । गावश्चरन्त्यस्मिन्निति गोचरो देशः । व्युत्पत्तिमानं चेदम् , विषयस्य तु संज्ञा । अनेकात्मकं वस्तु गोचरः सर्वविदाम् । सञ्चरन्तेऽनेन सञ्चरः । वहन्ति तेन वहः वृषस्कन्धदेशः । व्रजन्त्यस्मिन्निति ब्रजः । विपूर्वो जिः व्यजत्यनेन व्यजः । निपातनाद्वीभावाभावः । खलन्त्यस्मिन्निति खलः । एत्य पणाय-१५ न्त्यस्मिन्निति आपणः । निगच्छन्ति तत्रेति निगमः । वक्तीति बकः बाहुलकात्कर्तरि । निपचन्त्यनेन निपकः इति कश्चित् । भज्यतेऽनेनास्मिन् वा भागः । भगमिति तु बाहुलकात् क्लीवेऽपि घः । कषत्यस्मिन्निति कषः । एवमाकषः निकषः ।। १८२ ॥ सूत्रम् 'न्याया०' स्वरान्तार्थ आरंभः । एते इति एते शब्दाः *घघनन्ता इति गोचरादयो घान्ता न्यायादयश्च पुन्नाम्नि करणाधारयोरर्थे प्राप्ते घबन्ता निपात्यन्ते । निपूर्वस्येणो नीयतेऽनेनेति न्यायः ।२० एत्य वयन्ति वायन्ति तत्रेत्यावायः । अधीयतेऽनेनास्मिन् वाध्यायः । उद्युवन्ति तेन तस्मिन् वा उद्यावः । संहरन्ति तेन संहारः । अवहरन्ति तेन तस्मिन् वावहारः । आध्रियते तत्रेत्याधारः दीर्यते एभिरिति दाराः । जीर्यतेऽनेनेति जारः । दारयन्तीति दाराः । जरयतीति जारः इति कर्त्तरि केचिन्निपातयन्ति । ननु जार इत्यस्य 'कगेवनूजष०' (४।२।२५) इति हस्खत्वे प्राप्ते दीर्घार्थं निपातः क्रियताम् , दार इत्यस्य तु किं निपातनेन । सत्यम् । भयविवक्षायां दृधातोर्घटादित्वात् दरयतीति २५ यदा क्रियते तदापि दीर्घो मा भूदित्येवमर्थ निपातः॥ १८३ ॥ सूत्रम् इकश्तिव स्वरूपार्थे ॥ १८४ ॥ [सि० ५।३।१३८] धातोः स्वरूपेऽर्थे च वाच्ये एते स्युः । भञ्जिः क्रुधिः वेत्तिः भुजिः क्रियते पचतिः वर्तते ॥ १८४॥ 'इकि०' भञ्जिरित्यत्र इप्रत्ययः । कुधिरित्यत्र किप्रत्ययः, कित्त्वाद्गुणाभावः । वेत्ति इत्यत्र रितव-३० प्रत्ययः । अत्र धातोः स्वरूपेऽभिधेये एते प्रत्ययाः भञ्जिरित्यादयः एवंस्वरूपा धातव इत्यर्थः । धातोरर्थे यथा; यजेरङ्गानि यज्ञस्याङ्गानि । भुजिः क्रियते भोजनं क्रियते इत्यर्थः । केचिदेतान् प्रत्ययान् ३२ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636