Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 569
________________ ९४२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुहोमविशेषः ॥ ८३० ॥ कषेण्डछौ च षः (८३१) अस्मात् ऊः षकारस्य च ण्ड छ इत्यादेशौ स्याताम् । कण्डूः, कच्छूः, पामा ॥ ८३१॥ वहेर्धं च (८३२) अस्मात् ऊः धकारश्चान्तादेशः स्यात् । वधूः । पतिमुपसंपन्ना कन्या जाया च ॥ ८३२॥ मृजेर्गुणश्च (८३३) अस्मादूः अस्य च गुणः स्यात् । मर्जूः शुद्धिः नद्यास्तीरं रजक: शिला च । गुणे सिद्धे गुणवचनमकारस्य वृद्धि५बाधनार्थम् ॥ ८३३ ॥ अजे|न्तश्च (८३४) अजू: जननी ॥ ८३४ ।। कसिपद्यादिभ्यो णित् (८३५) ऊः । कासूः शक्ति मायुधं वाग्विकलः बुद्धिः व्याधिः विकला च वाक् । पादूः पादुका । आरू: वृक्षविशेषः । कच्छूः गतिः पिङ्गलश्च । आदिग्रहणात् कचतेः काचूः । शलतेः शालूरित्यादयः ॥ ८३५ ॥ अणेॉन्तश्च (८३६) आण्डूः जलभृङ्गारः ॥ ८३६ ॥ अडो ल च वा (८३७) 'अड उद्यमे' अस्माण्णिदूः लश्चान्तादेशः । आलूः भृङ्गारः करकश्च । १० आडूः दर्वी टिट्टिभः वनस्पतिः जलाधारभूमिः पादभेदनं च ॥ ८३७ ॥ नमो लम्बेर्नलुक् च (८३८) नपूर्वात् 'लबुङ् अवलंसने । अस्माण्णिदूः नकारस्य च लुक् स्यात् । अलाबूः तुम्बी ॥ ८३८ ॥ कफादीरेल च (८३९) कफपूर्वादीरीक् अस्मादूर्लश्चान्तादेशः स्यात् । कफेलूः श्लेष्मातकः यवलाजा मधुपर्क छादिषेयं च तृणम् ॥ ८३९ ॥ ऋतो रत् च (८४०) ऋत, अस्मात् ऊः रत् इति चास्यादेशः स्यात् । रतूः नदीविशेषः सत्यवाक् दूतः कृमिविशेषश्च ॥ ८४० ॥ १५ हभिचपेः खरान्नोन्तश्च (८४१) 'भैत् ग्रन्थे हन्भूः सर्पजातिः वनस्पतिः वज्रः ग्रन्थकारः (दर्भणं च)। बाहुलकात् 'नां धुइ वर्गेऽन्योऽपदान्ते' (१।३।३९) इति न स्यात् । 'चप सान्त्वने' चम्पू: कथाविशेषः॥८४१॥धृषेर्दिधिषदिधीषौ च (८४२) अस्मादूः इमौ चान्तादेशौ स्याताम् । बिधृषाद दिधिषः पूर्वपरिणीता पुंश्चली च । दिधीषूः ऊढायाः कनिष्ठायाः अनूढा ज्येष्ठा पुनर्भूः आहुतिश्च । अभिधानचिन्तामणी तु दिधिषूस्तु पुनर्भूचिरूढास्या दिधीः पतिरित्युक्तम् २०॥ ८४२॥ भ्रमिगमितनिभ्यो डित् (८४३) ऊ । भ्रमृच् भ्रूः अक्ष्णोरुपरि रोमराजिः । गम्लं अग्रे गच्छति अप्रेगूः पुरस्सरः । तनूयी, कुत्सितं तन्यते कुतू: चर्ममयमावपनम् ॥ ८४३ ॥ नृतिशूधिरुषिकुहिभ्यः कित् (८४४) ऊः । नृतैच्, नृतूः नर्तकः कृमिजातिः प्लवः प्रकृतिश्च । शुधूङ्, शृधूः शर्द्धनः कृमिजातिः अपानं बलिश्च दानवः । रुषच , रुपूः भर्त्सकः । कुहणि कुहूः अमावास्या ॥ ८४४ ॥ तृखडिभ्यां डुः (८४५) तईः द्रोणी प्लवः । 'खडण् भेदे' २५ खडूः बालानामुपकरणं स्त्रीणां पादाङ्गुष्ठाभरणं च ॥ ८४५॥ तुदृभ्यां दूः (८४६) तर्दूः दी । दृश् , दर्दूः कुष्ठभेदः ॥ ८४६ ॥ कमिजनिभ्यां बूः (८४७) कम्यूः भूषणं आदर्शः सरुः कुविन्दश्च । जम्बूः वृक्षजातिः ॥ ८४७ ॥ शकेरन्धूः (८४८) शकन्धूः वनस्पतिः देवताविशेषश्च ॥ ८४८॥ कृगः कादिः (८४९) अन्धूः । कर्कन्धूः बदरी व्रणः ( यवलाजा मधुपर्कं विष्टम्भश्च ) ॥ ८४९ ॥ योरागूः (८५०) युक्, यवागूः द्रवौदनः ॥ ८५० ॥ काच्छीङो डेरूः ३०(८५१) कपूर्वात् शीङ डित् एरू: स्यात् । कशेरू: कन्दविशेषः वीरुच ॥ ८५१ ॥ इत्यूकारान्तात्रयोविंशत्या सूत्रैः । दिव ऋः (८५२) दिवूच , देवा देवरः पितृव्य स्त्री अग्निश्च ॥ ८५२ ।। सोरसेः (८५३) सुपूर्वादसूच् अस्मात् ऋः । स्वसा भगिनी ॥ ८५३ ॥ नियो डित् (८५४) ऋः । णींग् ना पुरुषः॥८५४॥ सव्यात् स्थः (८५५) सव्यपूर्वात् ष्ठां, अस्माड्डिः । सव्ये तिष्ठतीति सव्येष्ठा सारथिः भीरुष्ठानादित्वात् (२।३।३३) षत्वं सप्तम्यलुक् च ॥ ८५५ ॥ यतिननन्दिभ्यां दीर्घश्च ३५ (८५६) यतैङ् नपूर्वात नन्देश्च ऋः दीर्घश्वास्य स्यात् । याता पितृभ्रातृभगिनी देवरभार्या Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636