Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 585
________________ ९५८८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुहस्तप्राप्यम् । तद्विषयाचिनोतेर्घञ् स्यात् । अस्तेये, न चेद्धात्वर्थः स्तेये चौर्ये भवति । हस्तप्राप्यशब्देन प्रत्यासत्तिः प्राप्यस्य लक्ष्यते । तेन प्रत्यासत्तिविषये धात्वर्थे विधानम् । पुष्पप्रचायः । फलावचायः । पुष्पोच्चायश्च संहतैः । उदो नेच्छन्त्यन्ये । फलोच्चयः । हस्तप्राप्य इति किम् ? पुष्पप्रचयं करोति तरुशिखरे । अस्तेय इति किम् ? स्तेयेन पुष्पप्रचयं करोति । हस्तप्राप्यशब्देन प्रमाणमप्युच्यते । ५यद्धस्ते सम्भवति संमाति न तद्धस्तादतिरिच्यते इति । ततश्च 'माने' (५।३।८१) इत्यनेनैव सिद्धे नियमार्थ वचनम् । अस्तेय एवेति, तेन पुष्पाणां हस्तेन प्रचयं करोति चौर इत्यत्र ‘माने' इत्यनेनापि घञ् न भवति । 'चितिदेहावासोपसमाधाने कश्चादेः' ( ५।३।७९) चीयते इति चितिर्यक्षेऽग्निविशेषः तदाधारो वा । देहः शरीरम् । आवासो निवासः। उपसमाधानमुपर्युपरि राशीकरणम् । एष्वर्थेषु चिनोतेर्भावाकोंर्षन् , तत्सन्नियोगे चादेः ककारादेशो भवति । चितौ आकायमग्निं १०चिन्वीत । देहे कायः शरीम् । आवासे ऋषिनिकायः । उपसमाधाने गोमयनिकायः गोमयपरिकायः कथं काष्ठनिचयः ? बहुत्वमात्रविवक्षया । एग्विति किम् ? चयः । चः क इत्येव सिद्धे आदिग्रहणामादेरेव यथा स्यात् । तेन चेर्यलुपि निकेचायः इत्येव भवति । 'सङ्केऽनूचे' (५।३।८०) न विद्यते कुतश्चिदूर्ध्वमुपरि किश्चिद्यस्मिन् सोऽनूलः, तस्मिन् सो प्राणिसमुदाये चिनोतेर्भावाकों घंञ् स्यात् । तत्सन्नियोगे चादेः कः स्यात् । वैयाकरणनिकायः । सङ्घ इति किम् ? सारसमुच्चयः । १५ अनूर्व इति किम् ? सूकरनिचयः । सूकरा उपर्युपरि चीयन्ते । 'माने (५।३।८१) माने गम्यमाने धातोर्भावाकोंर्घञ् स्यात् । मानमियत्ता, सा च द्वेधा-सङ्ख्या परिमाणं च । एको निघासः द्वौ निघासौ । एकस्तण्डुलावक्षायः । एकस्तण्डुलनिश्चायः । एकः कारः द्वौ कारौ त्रयः काराः । द्वौ सूर्पनिष्पावौ । समित्सङ्ग्राहः तन्दुलसङ्ग्रहः मुष्टिरित्यर्थः । मान इति किम् ? निश्चयः । अल एनायमपवादः, क्त्यादिभिस्तु बाध्यते । एका तिलोच्छृतिः । द्वे प्रसृती । 'स्थादिभ्यः कः' (५।३।८२) २० एभ्यो भावाकोंः कः स्यात् । आखूनामुत्थानं आखूत्थो वर्त्तते । प्रतिष्ठन्तेऽस्मिन्निति प्रस्थः सानुः । संतिष्ठन्तेऽस्यामिति संस्था । व्यवतिष्ठतेऽनयेति व्यवस्था । प्रस्त्रात्यस्मिन्निति प्रस्नः । प्रपिबन्त्यस्यामिति प्रपा । विध्यतेऽनेनेति विधः । आविध्यतेऽनेनेति आविधः । विहन्यतेऽनेनास्मिन्निति वा विनः । आयुध्यतेऽनेनेत्यायुधम् । आध्यायन्ति तमित्यादयः । पृषोदरादित्वात् धस्य ढः । सर्वापवादत्वादनटमपि कप्रत्ययो बाधते । कथमाव्याधः घातः विघातः उपघातः ? बहुलाधिकारात् । बहुवचनं २५प्रयोगानुसरणार्थम् ॥ १५७ ॥ सूत्रम् द्वितोऽथु ॥ १५८ ॥ [ सि० ५॥३॥८३] द्वितो धातोर्भावाकोरथुः स्यात् । वेपथुः । वमथुः ॥ १५८ ॥ 'द्वितो०' वमथुरिति । एवं स्फूर्जथुः भ्रासथुः नन्दथुः क्षवथुर्दवथुः । असरूपत्वाद् घञ्लावपि । वेपः क्षवः ॥ १५८ ॥ डितस्त्रिमा तत्कृतम् ॥ १५९ ॥ [सि० ५॥३॥८४] ड़ितो धातोर्भावाकोंत्रिमक, तेन कृतमित्यर्थे । पाकेन कृतं पवित्रमम् । कृत्रिमम् । दागस्त्तादेशे, परीत्रिमम् ॥ १५९ ॥ ३३ शित०' तेन कृतमिति तेन धात्वर्थेन कृतं निर्वृत्तमित्येतस्मिन्नर्थे । करणेन निर्वृत्तं कृत्रिमम् । ३० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636