Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 591
________________ ९६४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु 1 इक्षुभक्षिका में उपादि । प्रभे का त्वं कारिकामकार्षीः । का त्वं गणिकामजीगणः । आख्याने सर्वा कारिकामकार्षम् । सर्वां गणिमजीगणम् । बहुलाधिकारात् कचिन्न भवति । चिकीर्षा मे । बुभुक्षा मे उदपादि । प्रश्नाख्यानयोगेऽपि पर्यायादिषु परत्वात् णक एव भवति । अत्रायं विशेष: । 'नानि पुंसि च' (५।३।१२१) धातोः स्त्रियां भावाकर्नान्नि संज्ञायां णकः स्यात् । यथादर्शनं पुंसि च । ५ प्रच्छर्दनं प्रच्छर्धतेऽनयेति वा प्रच्छर्दिका वान्तिः । एवं प्रवाहिका अधिरजः प्रवृत्तिः । विचर्चिका प्रस्कन्दिका क्षयरोगः । विपादिका पादस्फोटः । एवमेता रोगसंज्ञाः । भज्यन्तेऽस्यां भञ्जिका । उद्दालकपुष्पाणां भञ्जिका उद्दालकपुष्पभञ्जिका । 'अकेन क्रीडाजीवे' ( ३|१|८१ ) इति समासः । एवं वारणपुष्पप्रचायिका । अभ्योषाः खाद्यतेऽस्यामित्यभ्योषखादिका । सालभञ्जिका । एवंनामान: क्रीडाः । बहुलाधिकारादिह न भवति । शिरोऽर्द्दनं शिरोर्त्तिः । एवं शीर्षार्त्तिः । शिरोभितप्तिः । १० चन्दनतक्षा क्रीडा । बहुलाधिकारादेव च अद्दिरित्यत्राईतेरर्दयतेश्च यथाक्रममप्रत्ययमनप्रत्ययं च बाधित्वा क्तिरेव स्यात् । पुंसि च; अरोचनं न रोचतेऽस्मिन्निति वा अरोचकः अनाशकः । उत्स्कन्दनं पृषोदरादित्वात्स लोपे उत्कन्दुकः उत्कर्णकः ॥ १७६ ॥ सूत्रम् । भावे ॥ ९७७ ॥ [ सि० ५।३।१२२ ] धात्वर्थनिर्देशे स्त्रियां धातोर्णकः स्यात् । शायिका ॥ १७७ ॥ ** इति भावे स्त्रीप्रत्ययाः । 9+ १५ 'भा०' स्पष्टम् ।। १७७ ॥ सूत्रम् क्ली क्तः ॥ १७८ ॥ [ सि० ५|३ | १२३ ] नपुंसके भावे क्तः स्यात् । तव हसितम् ॥ १७८ ॥ 'क्ली०' क्तः स्यादिति घञाद्यपवादः स्त्रियां भावाकरिति च निवृत्तम् । तव हसितमिति । २० एवं नृत्तं मयूरस्य । व्याहृतं कोकिलस्य । क्कीब इति किम् ? हसः हास: ।। १७८ ।। सूत्रम् 'अनट्' ॥ १७९ ॥ भावेऽर्थे धातोरनट् स्यात् । गमनम् ॥ १७९ ॥ 'अन०' स्पष्टम् । गमनमिति । एवं भोजनं वचनं हसनं छात्रस्य । टकार उत्तरत्र ङयर्थः । अत्रायं विशेषः ‘यत्कर्मस्पर्शात्कर्त्रङ्गसुखं ततः' (५।३।१२५ ) येन कर्मणा संस्पृश्यमानस्य २५ कर्त्तुरङ्गस्य सुखमुत्पद्यते ततः कर्मणः पराद्धातोः क्लीवे भावेऽर्थेऽनट् स्यात् । पूर्वेणैव प्रत्यये सिद्धेनित्यसमासार्थं वचनम् । पयःपानम् । ओदनभोजनं सुखम् । नित्यसमासत्वात् पयसां पानमिति न कार्यं किन्तु पयसांपीतिरिति शब्दान्तरेणार्थः कथ्यते । कर्मेति किम् ? अपादानादिस्पर्शे मामूत् । तूलिकाया उत्थानं सुखम् । स्पर्शादिति किम् ? अग्निकुण्डस्योपासनं सुखम् । कति किम् ? शिष्येण गुरोः स्नापनं सुखम् । स्नापयतेर्न गुरुः कर्त्ता किं तर्हि ? कर्म । अङ्गग्रहणं किम् ? पुत्रस्य ३० परिष्वजनं सुखम् । पुत्रस्पर्शान्न शरीरसुखम् । किं तर्हि ? मानसी प्रीतिः, अन्यथा परपुत्रपरिष्वङ्गेऽपि स्यात् । सुखमिति किम् ? कण्टकानां मर्द्दनम् । सर्वत्रासमासः प्रत्युदाहार्यः । अथवा तत इति सप्तम्यन्तात्तसुः येन कर्मणा स्पृश्यमानस्य कर्त्तुरङ्गसुखमुत्पद्यते तस्मिन् कर्मण्यभिधेये सामर्थ्यात्कर्तुः पराद्धातोरनट् स्यादित्यपरोऽर्थः । राज्ञा भुज्यन्ते राजभोजनाः शालयः । राजाच्छादनाः प्राकाराः । ३४ राजपरिधानानि वासांसि ॥ १७९ ॥ सूत्रम् । Jain Education International [ सि० ५|३ | १२४ ] For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636