Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 568
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः ९४१ चिनीपीम्यशिभ्यो रुः (८०६) चिंगट चेरुः मुनिः । णींग् नेरुः जनपदः । पीछच् पेरुः सूर्यः गिरिः कलविङ्कश्च । मीच् मेरुः देवाद्रिः । अशौटि अश्रु नेत्रजलम । ॥ ८०६ ॥ रुपूभ्यां कित् (८०७) रुः । रुक रुरुः मृगः । पूगश पूरुः राजा ॥ ८०७॥ खनो लुक् च (८०८) अस्मात् रुः अन्तस्य च लुक् स्यात् । खरुः दर्पः क्रूरः मूर्खः दृप्तः गीतविशेषश्च ॥ ८०८ ॥ जनिहनिशद्यतॆस्त च (८०९) एभ्यो रुः तकारश्चान्तादेशः स्यात् । जत्रुः शरीरावयवः मेघः धर्मा-५ वसानं च । त्रुः हिंस्रः । शदं शत्रुः रिपुः । बाहुलकात्तादेशविकल्पे शगुः पुरुषः अत्रुः क्षुद्रजन्तुः। ॥ ८०९॥ श्मनः शीडो डित् (८१०) श्मन् पूर्वात् शीर्द अस्मात् डित् रुः स्यात् । श्मश्रु मुखलोमानि ॥८१०॥ शिग्रुगेरुनमेादयः (८११) रुप्रत्ययान्ता निपात्यन्ते । 'शिंग्ट् निशाने' कित् गोन्तश्च । शिग्रुः शोभाञ्जनकः हरितकविशेषश्च । गिरतेरेच्च । गेरुर्धातुः । नमेनपूर्वस्य मयतेवा; एच । नमेरुः देववृक्षः । आदिग्रहणादन्येपि ॥ ८११॥ कटिकुट्यतररुः (८१२)१० कट, कटरुः शकटम् । कुटत् कुटरुः पक्षिविशेषः मर्कटः वृक्षः । ऋक् , अररुः असुरः आयुधं मण्डलं च ॥ ८१२ ॥ कर्केरारुः (८१३) कर्केः सौत्रादारुः । कर्कारुः क्षुद्रचिभिटी ॥ ८१३ ॥ उर्वरादेरुदेतौ च (८१४) 'उर्वै हिंसायाम्' इत्यस्मादारुप्रत्यय आदेशश्च ऊकार एकारौ स्याताम् । उर्वव्यतिमिति । ऊर्वारुः कटुचिर्भिटी । एर्वारुः चारुचिभिटी॥ ८१४ ॥ कृपिक्षुधिपीकुणिभ्य: कित् (८१५) आरुः । कृपौङ् कृपारुः दयाशीलः । क्षुधारुः क्षुधमसहमानः । लत्वे, कृपालुः १५ क्षुधालुः । पींच् पियारुवृक्षः । कुणत् कुणारुः वनस्पतिः ॥ ८१५॥ श्यः शीत च (८१६) श्यैङ् अस्मादारुः अस्य च शीत इत्यादेशः स्यात् । शीतारुः शीतासहः । लत्वे शीतालुः ॥ ८१६ ॥ तुम्बेरुरुः (८१७) 'तुबु अर्दने' अस्मादुरुः । तुम्बुरुः गन्धर्वः गन्धद्रव्यं च ॥ ८१७॥ कन्देः कुन्द च (८१८) कदु अस्मादुरुः अयं चास्यादेशः स्यात् । कुन्दुरुः सल्लकी निर्यासः ॥८१८ ॥ चमेरुरुः (८१९) चमूरुः चित्रकः ॥ ८१९ ॥ शीङो लुः (८२०) शेलुः२० श्लेष्मातकः ॥ ८२०॥ पीङ: कित् (८२१) लुः । पीलुः हस्ती वृक्षश्च ॥ ८२१ ॥ लस्जी. यिशलेरालुः (८२२) लज्जालुः लज्जाशीलः । ईर्ष्यालुः ईर्ष्याशीलः । शलालुः वृक्षावयवः ॥ ८२२ ॥ आपोप् च (८२३) आप्लंट्, अस्मादालुः अयं चास्यादेशः स्यात् । अपालुः वायुः ॥ ८२३ ॥ गूहलुगुग्गुलुकमण्डलवः (८२४) आलुप्रत्ययान्ता निपात्यन्ते । गृहतेह्रस्वश्च प्रत्ययादेः । गृहलुः ऋषिः । गुङ् अस्यादितुंग लोपश्च प्रत्ययादेः । गुग्गुलुः वृक्षविशेषः । कमूङ २५ अण्ड् अन्तः हस्वश्च प्रत्ययादेः । कमण्डलुः अमत्रम् ॥ ८२४ ॥ प्रःशुः (८२५) पृश् पशुः वनिसंज्ञं वक्रास्थि ॥ ८२५ ॥ मस्जीष्यशिभ्यः सुक् (८२६) कित् सुः । 'मस्जेः सः' (४।४।११०) इति नोऽन्तः । मङ्खः मुनिः । 'इषश् आभीक्ष्ण्ये' । इक्षुः गुडादिप्रकृतिः । अशौटि अक्षुः समुद्रः वप्रश्च ॥ ८२६ ॥ तृपलिमलेरक्षुः (८२७) तरक्षुः श्वापदविशेषः । 'पल गतौ' । 'मलि धारणे' । पलक्षुः मलक्षुश्च वृक्षः ॥ ८२७ ॥ उले. कित् (८२८) अक्षुः । 'उल दाहे' उलक्षुः तृणजातिः ३० ॥ ८२८ ॥ इत्युकारान्ता एकादशेन सूत्रशतेन । कृषिचमितनिधन्यन्दिसर्जिखर्जिभर्जिलस्जीयिभ्यः (८२९) कर्पूः कुल्या (अङ्गारः परिखा गर्तश्च)। चमूः सेना। तनूः शरीरम् । 'धन शब्दे', 'धन धान्ये' सौत्रो वा। धनूः धान्यराशिः ज्या वरारोहा च स्त्री। अदु, अन्दूः पादकटकः । 'सर्ज अर्जने' सर्जूः अर्थः क्षारः वनस्पतिर्वणिक् च । 'खर्ज मार्जने च' । खजूंः कण्डूः विद्युच्च । भृजैङ् भ्रजीत् वा । भर्जूः यवविकारः । लजूः लजालूः । ईप्यूः ईर्ष्यालुः ॥ ८२९॥ फले फेल् च (८३०) फेलू: ३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636