Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 579
________________ ९५२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ है मलघु प्राप्नोति वा भोक्तुम्, ग्लायति म्लायति वा भोक्तम्, घटते युज्यते वा भोक्तम् अस्ति विद्यते वा भोक्तुम्, समर्थोऽलं प्रभवति ईष्टे वा भोक्तुम् । समर्थार्थप्रतीतावपि द्रष्टुं चक्षुः, योद्धुं धनुः । शक्त्या भुज्यते सामर्थ्येन भुज्यते इत्यादौ त्वनभिधानान्न भवति । इच्छार्थेषु इच्छति भोक्तुं वाञ्छति भोक्तम् । वष्टि अभिलषतीत्यादि समर्थार्थत्वादेव सिद्धे शकग्रहणमसमर्थार्थम् । कर्मण इति च ५ सामर्थ्याच्छकादिष्वर्हपर्यन्तेषु इच्छार्थेषु चोपपदेषु सत्सु सम्बन्धनीयम् । अन्ये तु शकादिषु घटान्तेषु स्वरूपोपपदेष्वेवेच्छन्ति न तदर्थेषु । अतादर्थ्यार्थमक्रियोपपदार्थ चेदं प्रस्तूयते ॥ १४८ ॥ अथार्थविशेषे च उपपदविशेषे च तुम्प्रत्ययमाह कालवेलासमये तुम्वावसरे ॥ १४९ ॥ [ सि० ५।४।३३ ] एषु त्रिषूपपदेष्ववसरे गम्ये धातोस्तुम्वा स्यात् । कालो भोक्तुम् । वेला भोक्तुम् । समयो १० भोक्तुम् । पक्षे कालो भोजनस्य ॥ १४९ ॥ 'काल०' कालो भोजनस्येति । ऊर्ध्वं मुहूर्त्तात्कालो भोक्तम् 'सप्तमी चोर्ध्वमौहूर्त्तिके' (५।४।३० ) इति प्राप्तानां सप्तम्यादीनामपवादस्तुम् । ऊर्ध्वं मुहूर्त्ताद्धोक्तुं स्म काल: । 'स्मे पञ्चमी' ( ५|४|३१ ) इत्यस्यापवादस्तुम् । अङ्गशब्दः प्रकाशे कोमलामन्त्रणे च । अवसर इति किम् ? कालः पचति भूतानि । कालोऽत्र द्रव्यं नत्ववसरः ॥ १४९ ॥ १५ अथ सामान्यतः कालत्रयेऽपि विहितान् प्रत्ययानाह । सूत्रम् पदरुजविशस्पृशो घञ् ॥ १५० ॥ [ सि० ५।३।१६ ] एभ्यश्चतुर्भ्यो घम् । पद्यतेऽपादि पेदे वा पादः । एवं रोगः वेशः स्पर्शः ॥ १५० ॥ 'पद०' एभ्यो घञ् स्यात् । कृत्त्वात्कर्त्तरि । ( वर्त्यत्यादि निवृत्तम् ) स्पर्शो व्याधिविशेषः । स्पर्शो देवदत्तः कम्बलस्य । घकारः कत्वगत्वार्थः । नकारो वृद्ध्यर्थः । अत्रादिशब्दानुषङ्गात् 'सर्ते: २० स्थिरव्याधिबलमत्स्ये' ( ५।३।१७ ) सतेंरेषु कर्तृषु घन् स्यात् । सरति कालान्तरमिति सारः स्थिरपदार्थः । सालसारः खदिरसारः कार्यसारः । व्याध्यादौ अतीसारो व्याधिः । सारो बलम् विसारो मत्स्यः ॥ १५० ॥ सूत्रम् भावाऽकर्त्रीः ॥ १५१ ॥ [ सि० ५।३।१८ ] भावे कर्तुवर्जिते च कारके धातोर्घञ् स्यात् । पाकः । त्यागः । दायः । आयः । २५ भावः ।। १५१ ॥ "भावा०' भाव इति । भावे वाच्ये कर्तृवर्जिते कारके च सर्वधातुभ्यो घन् स्यात् । पचनं पाकः । एवं रागः । कर्तृवर्जिते कारके यथा - प्रकुर्वन्ति तमिति प्राकारः । एवं प्रासः प्रसेवः समाहारः । करणाधिकरणयोरनट् तदपवादश्च व्यञ्जनान्तेभ्यो घन् वक्ष्यते । दाशन्तेऽस्मा इति दाश: । तालव्योपान्त्योऽयम् । आहरन्ति तस्मादाहारः । असंज्ञायामपि दायो दत्तः । लाभो लब्धः । कृतः कटो ३० हृतः भार इत्यादौ बहुलाधिकारान्न भवति । अकर्त्रिति पर्युदासेन कारकाश्रयणात् सम्बन्धे न भवति । देवदत्तस्य पच्यते । भावाकर्त्रीरिति किम् ? पचः । भावो भवत्यर्थः साध्यरूपः क्रियासामान्यं धात्वर्थः स धातुनैवोच्यते । तत्रैव त्यादयः क्त्वातुममस्तव्यानीयादयश्च भवन्ति । यस्तु भावो ३३ धात्वर्थधर्मः सिद्धता नाम लिङ्गसङ्ख्यायोगी स द्रव्यवद्धात्वर्थादन्यस्तत्रायं घनादिविधिः । अयं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636