Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 578
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां तुम्प्रत्ययः ९५१ 'क्रिया०' वेति निवृत्तम् । तुमादय इति तुम् णकच् भविष्यन्तीप्रत्यया भवन्ति । कर्तुं ब्रजति । कारको व्रजति । करिष्यामीति व्रजति । भोक्तुं व्रजति । भोजको व्रजति । भोक्ष्ये इति व्रजति । क्रियायामिति किम् ? भिक्षिष्ये इत्यस्य जटाः । क्रियार्थायामिति किम् ? धावतस्ते पतिष्यति वासः । अत्रास्ति धावनक्रियोपपदं न त्वसौ पतनार्थमुपात्तेति न भवति । अत्र हि धावनक्रिया देवदत्तकर्तृका पतनक्रिया च वासःकर्तृकेति भिन्नकर्तृकत्वेऽपि सूत्रप्रवृत्तिरिति प्राप्नोति । णकतृचा-५ विति सामान्येन सिद्धे क्रियार्थोपपदभाविन्या भविष्यन्त्या बाधो मा भूदिति णकविधानम् । असरूपविधिना णकोपि भविष्यतीति चेत् ? एवं तर्हि असरूपविधिना तृजादयो मा भूवन्निति पुनर्णक विधानम् । तेन ओदनस्य पाचको व्रजति पक्ता ब्रजति पचो व्रजति विक्षिपो व्रजतीत्यादि न भवति । अत्रादिशब्दानुवृत्तेः 'कर्मणोऽण' (५।३।१४) क्रियायां क्रियार्थायामुपपदे कर्मणः १० पराद्वय॑त्यर्थे वर्तमानाद्धातोरण स्यात् । कुम्भकारो व्रजति । काण्डलावो व्रजति । कर्मणोऽण् इति सामान्येन विहितोऽण् णकचानेन बाध्येत, असरूपविधिश्च नास्तीति पुनर्विधीयते । सोऽपवादत्वाण्णकचं बाधते, परत्वात्सामान्यस्याणो बाधकान् टगादीनपि; तेन वक्र गास्यतीति वक्रगादयः । एवं सुरापायः, गोदायो व्रजति । बहुलाधिकाराण्णकचूभविष्यन्यावपि भवतः । कटं कारको ओदनं भोजको काण्डानि लविष्यामि कम्बलं दास्यामीति व्रजति । "भाववचनाः'१५ (५।३।१५) भाववचनाः स्यादयस्ते क्रियायां क्रियायार्थायामुपपदे वय॑त्यर्थे वर्तमानाद्धातोर्भवन्ति । क्रियार्थोपपदेन तुमा मा बाधिषतेति वचनम् । असरूपविध्यभावस्य ज्ञापितत्वात् । पाकाय पक्तये पचनाय ब्रजति । वचनग्रहणाद्यो यथा विहितः स तथा भवति । यदि भावे इति क्रियेत तदा भावमात्रे एव ये विहितास्ते एव लभ्येरन सर्वे । वचनग्रहणेन तु येन केनापि प्रकारेणापि भावं ब्रुवाणा गृह्यन्ते एव । 'तुमोऽर्थे भाववचनात्' (२।२।६१) इति चतुर्थी ॥ १४५ ॥ अनोपयोगिसूत्रम् २० तुमश्च मनःकामे ॥ १४६ ॥ [ सि० ३।२।१४०] तुम्समोर्मनसि कामे च परे म्लुप् स्यात् । भोक्तुमना गन्तुकामः (पृ० २८९) ॥ १४६ ॥ 'तुम्०' स्पष्टम् ।। १४६ ॥ तुम्प्रत्ययस्यार्थमाह । क्त्वातुमम् भावे ॥ १४७ ॥ [सि० ५।१।१३] एते धात्वर्थमात्रे स्युः ॥१४७॥ 'तवा०' स्पष्टम् ॥ १४७ ॥ अथ तुम्प्रत्ययप्रस्तावनादुपपदयोगे विहितं तुम्प्रत्ययमाह शकषज्ञारभलभसहार्हग्लाघटास्तिसमर्थार्थे च तुम् ॥१४८॥ [सि० ५।४।९०] शक्याद्यर्थेषु इच्छार्थेषु च धातुषु समर्थार्थेषु च नामसूपपदेषु कर्मभूताद्धातोस्तुम् स्यात् । ३० शक्नोति पारयति वा भोक्तुम् । इच्छति पठितुम् । समर्थो ग्रहीतुम् ॥ १४८॥ 'शक०' शक्नोति पारयति वा भोक्तुम् इति, धृष्णोत्यध्यवस्यति वा भोक्तुम् , जानाति वेत्ति वा 'भोक्तुं आरभते प्रक्रमते वा भोक्तुम् , लभते विन्दते वा भोक्तुम् , सहते क्षमते वा भोक्तम् , अर्हति ३३ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636