Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 581
________________ ९५४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुघनोऽपवादोऽयम् । चय इत्यादि । एवं निश्चयः जयः क्षयः । लव इति । एवं यवः पवः नवः स्तवः । वर इति । एवं प्रवरः । आदर इति । एवं दरः। एवं वशः रणः गमः अवगमः । कृ करः । गृ गरः । तृ तरः । दृ दरः । श शरः । प्रहः । कथं वारः समूहो वारोऽवसरः वारः क्रियाभ्यावृत्तिः । बहुलाधिकारात् पञ् । परिवार इति तु ण्यन्तादचि सिद्धम् ॥ १५३ ॥ सूत्रम् । वर्षादयः क्लीवे ॥ १५४ ॥ [सि० ५।३।२९] अलन्ता निपाताः ॥ १५४ ॥ 'वर्षा' (५।३।२९) अयमस्यार्थः । वर्षादयः शब्दा अलन्ताः क्लीवे यथादर्शनं भावाकोर्निपात्यन्ते नपुंसके क्ताननिवृत्त्यर्थं वचनम् । वर्ष भयं धनं खलं पदम् । युगम् अत्र रथाङ्गकालविशेषयुग्मेष्वल गत्वगुणाभावौ च निपातनात्। अनपुंसकक्तस्त्वसरूपविधिर्नास्त्येव । वृष्यते स्म वृष्टं मेघेन । भीतं बटुना । १० आदिशब्दानुवृत्त्या 'समुदोजः पशौ' (५।३।३०) समुद्यां परादजतेः पशुविषये धात्वर्थे वर्तमानाद्भावाकोरल् स्यात् । समजः पशूनाम् ( समूह इत्यर्थः, उदजः पशूनाम् प्रेरणमित्यर्थः । समुद इति किम् ? व्याजः पशूनाम् ) । पशाविति किम् ? समाजः साधूनाम् । उदाजः खगानाम् । 'मुग्लहः प्रजनाक्षे (५।३।३१) सर्तिग्लहिभ्यां प्रजनाक्षविषये धात्वर्थे वर्तमानाभ्यां भावा कोरल् स्यात् । गवामुपसरः । पशूनामुपसरः । वीनामुपसरं दृष्ट्वा । प्रजनो गर्भग्रहणम् तदर्थ १५ स्त्रीषु पुंसां प्रथम सरणमुपसरमुच्यते । अक्षाणां ग्लहः ग्रहणमित्यर्थः । ग्रहेः सूत्रनिपातनाल्लत्वम् । 'ग्रहूङ् ग्लहू अदने' इति प्रकृत्यन्तरं वा । प्रजनाक्ष इति किम् ? उपसारो भृत्यै राज्ञाम् । ग्रहः ग्लाहो वा पादस्य । कथं परिसरविषमेषु लीढमुक्तौ ? । अधिकरणेषु नाम्नि घेन सिद्धम् । 'पणेर्माने (५।३।३२) भावाकोरल् । मूलकपणः शाकपणः । पण्यते इति पणः । मूलकादीनां संव्यवहारार्थं परिमितो मुष्टिरित्यर्थः । मान इति किम् ? पाणः । घअपवादो योगः ॥ १५४ ॥ सूत्रम् । संमदप्रमदौ हर्षे ॥ १५५॥ [सि० ५।३।३३] निपातावित्यादि । *निषादयोऽप्येवम् ॥ १५५ ॥ 'संम०' (५।३।३३) निपाताविति। एतौ हर्षेऽर्थेऽलन्तौ निपात्येते । संमदः कोकिलानाम् । प्रमदः कन्यानाम् । हर्ष इति किम् ? सम्मादः प्रमादः। सम्प्रान्मद इत्यनुक्त्वा निपातनं रूपनिग्रहार्थम् ; तेनोपस. गान्तरयोगे न स्यात् । प्रसंमादः। आदिशब्दात् 'हनोऽन्तर्घनान्तर्घणौ देशे (५।३।३४) अन्तः२५ पूर्वाद्धन्तेरल् घनघणौ चादेशौ निपात्येते देशेऽभिधेये भावाकोंः । अन्तर्हण्यतेऽस्मिन्निति अन्तर्घनः अन्तर्घणो वा वाहीकेषु देशविशेषः । अन्तर्घातोऽन्यः । एक त्वन्तःसंहतो देशोऽन्तर्घनः । अभ्यन्तरो देश इति केचित् । तस्मिन्नन्तर्घनेऽपश्यत् । घणिः प्रकृत्यन्तरमित्यन्ये । 'प्रघणप्रघाणौ गृहाशे' (५।३।३५) प्रपूर्वाद्धन्तेहांशेऽभिधेयेऽल् एतौ चादेशौ निपात्येते । प्रघणः प्रघाणो द्वारालिन्दकः । प्रघातोऽन्यः । *निघादय इति । अत्र सूत्रम् 'निघोद्घसंघोद्घनापघनोपन्नं निमितप्रश३० स्तगणात्याधानाङ्गासनम्' (५।३।३६) हन्तेनिघादयः शब्दाः यथासङ्घयं निमितादिषु बाच्येषु कृतघत्वादयोऽलन्ता निपात्यन्ते । समन्ततो मितं तुल्यमविशेषेण वा मितं परिच्छिन्नं निमितम् , तुल्यारोहपरिणाहमित्यर्थः । निर्विशेष निश्चयेन वा हन्यन्ते ज्ञायन्ते निघा वृक्षाः । निघाः शालयः । निघा बृहतिका । निघं वस्त्रम् । निघातोऽन्यः । उत्कर्षेण हन्यते ज्ञायते उद्धः प्रशस्तः । उद्धा३४ तोऽन्यः । गणः प्राणिसमूहः । संहतिः संघः, अन्यत्र संघातः । कथं संघातो मनुष्याणां ? । अत्रापि २० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636