Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 582
________________ प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायां भविष्यति भावाकत्रोंः प्रत्ययाः ९५५ प्राणिसमूहत्वात् संघ इति निपातः कथं नेति । अत्रोच्यते सङ्घातशब्दं समुदायमात्रे प्रसाध्य पश्चान्मनुष्यशब्देन योग इति । अत्याधीयन्ते छेदनार्थ कुट्टनार्थ वा काष्ठादीनि यत्र तदत्याधानम् । उद्घन्यतेऽस्मिन्नित्युद्धनः काष्ठोद्धनः ताम्रोद्धनः । लोहोद्धनः । घनः स्कन्धः उद्धातोऽन्यः । अङ्गं शरीरावयवः । अपहन्यतेऽनेनेत्यपघनोऽङ्गम् । व्रणिभिरपघनैर्घधराव्यक्तघोषान् । 'एकदेशे प्रतीकोऽङ्गावयवापधना अपि' इत्यभिधानचिन्तामणौ । पाणिः पादश्चापधनो नापरमङ्गमित्यन्ये । अपघातोऽन्यः ।५ उपहन्यते समीप इति ज्ञायते उपघ्नः आसन्नः । गुरूपन्नः ग्रामोपन्नः 'उपघ्नस्त्वंतिकालय' इत्यभिः । उपघातोऽन्यः । निपातनादेवोपात्तार्थविशेषे वृत्तिरसरूपप्रत्ययबाधनं च विज्ञायते ॥ १५५ ॥ सूत्रम् मूर्तिनिचिताभ्रे घनः ॥ १५६ ॥ [सि० ५।३।३७] मूर्तिः काठिन्यम् , निचितं निरन्तरम् , अभ्रा मेघाः । एष्वर्थेषु हन्तेरल् धनादेशश्च । दधिधनः, घनाः केशाः । धनो मेघः ॥ १५६ ॥ 'मूर्ति' दधिधन इति दनः काठिन्यमित्यर्थः । एवं अभ्रस्य धनः । लोहधनः । कथं धनं दधि ? गुणशब्दोऽयं तद्योगाद्गुणिन्यपि वर्त्तते । आदिशब्दात् 'व्ययोद्रोः करणे' (५।३।३८) वि अयस् तु इत्येतेभ्यः पराद्धन्तेः करणेऽल् घनादेशश्च निपात्यते । भावस्य कारकान्तरस्य चानुप्रवेशो मा भूदिति करणग्रहणम् । विहन्यतेऽनेन तिमिरं विधनः, विघनेन्दुसमद्युतिः । वयः पक्षिणो हन्यन्तेऽनेनेति वा विधनः । अयो हन्यतेऽनेन अयोधनः । र्हन्यतेऽनेनेति द्रुघनः कुठारः । अरीह-१५ णादिपाठाण्णत्वे द्रुघणः । घणतेर्वाऽजन्तस्य रूपम् । स्त्रियां त्वनडेष । विहननी अयोहननी दुहननी । 'स्तम्बाद नश्च' (५।३।३९) स्तम्बशब्दात्पराद्धन्तेरल नघनादेशौ च करणे निपात्येते । स्तम्बो हन्यतेऽनेन स्तम्बघ्नो दण्डो यष्टिश्च । स्त्रियां तु परत्वादनडेव । स्तम्बहननी यष्टिः । केचित्तु कप्रत्यये निपातनं कृत्वा स्त्रियामापि स्तम्बघ्नेतीच्छन्ति । अन्ये तु स्तम्बपूर्वस्यापि हन्तेः 'सातिहेति०' (५।३। ९४) इति निपातनात् स्तम्बहेतिरितीच्छन्ति । करण इत्येव । स्तम्बहननं स्तम्बघातः । कथं स्तम्बघ्नी-२० षिका ? करणस्यापि कर्तृत्वविवक्षया 'अचित्ते टक्' (५।११८३.) अत्यनेन टकि सिद्धम् । 'परेघः' (५।३।४०) परिपूर्वाद्धन्तेरल् घादेशश्च करणे निपात्यते । परिहण्यतेऽनेन परिघोऽर्गला । लत्वे पलिघः। 'ह: समाह्वयाहयौ द्यूतनानो' (५।३।४१) करण इति निवृत्तम् । द्यूते नाम्नि चाभिधेये यथासङ्ख्यं समाङ्पूर्वात् आपूर्वाच्च ह्वयतेरल् ह्वयादेशश्च निपात्यते । समाह्वयः प्राणिद्यूतम् । आह्वयो नाम । 'न्यभ्युपवेर्वाश्चोत्' (५।३।४२) एभ्यः परात् ह्वयतेः भावाकोरल् तत्सन्नियोगे च वाशब्द २५ उकारो भवति । अभेदनिर्देशः सर्वादेशार्थः । निह्वानं निहवः, एवं अभिहवः विहवः उपहवः । न्यभ्युपवेरिति किम् ? प्रह्वायः । वेति किम् ? सर्वस्य मा भूत् । तेन विजोहव इति सिद्धमन्यथा विहव इति स्यात् । भृशं विह्वयति यङ्लुपि द्वित्वे ह इति वृत् । विजोहवनमनेनाल् । अन्यथा प्रकृतिप्रहणे इति न्यायात् यङ्लुबन्तास्याप्यनेनालि ह्वो हव इति कृतद्वित्वस्यापि निपाते विहव इति स्यादित्यर्थः । जुहोतिनैव सिद्धे तयते रूपान्तरनिवृत्त्यर्थम् वचनम् । 'आङो युद्धे' (५।३।४३ )३० आङ्पूर्वात् ह्रयतेयुद्धेऽर्थे भावाकोरल् स्यात् । वाशब्दश्चोकारः । आहूयन्ते योद्धारोऽस्मिन्नित्याहवो युद्धम् । युद्ध इति किम् ? आहाय आह्वानम्। 'आहावो निपानम्' (५।३।४४) निपिबन्त्यस्मिन्निपानं पशुशकुनीनां पानार्थम् कृतो जलाधारः । आङ्पूर्वात् ह्वयतेर्भावाकोरल आहावादेशश्च निपात्यते । निपानं चेदभिधेयं स्यात् । आहूयन्ते पशवः पक्षिणः पानायास्मिन्निति पशूनां पक्षिणां वा आहाबः ।३४ Jain Education International For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636