Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 577
________________ ९५० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहै मलघुसहेर्ध च (९९२) षहिं, अस्मादिस् धश्चास्यान्तादेशः स्यात् । सधिः सत्त्वं भूमिः संयोगः सहिष्णुः अग्निः अनड्वांश्च ॥ ९९२॥ पस्थोऽन्तश्च (९९३) पां अस्मादिस् थश्चास्यान्तादेशः स्यात् । पाथिः पानं नदी आदित्यः ज्योतिः स्वर्गलोकश्च ॥ ९९३ ॥ नियो डित् (९९४) इस् । निः उपसर्गोऽयं पृथग्भावे; निश्चिनोति, निर्णयः ॥ ९९४ ॥ अवेर्णित् (९९५) इस् । अव, आविः ५प्राकाश्ये; आविरभूत् , आविष्करोति ॥ ९९५ ॥ तुभूस्तुभ्यः कित् (९९६) इस् । तुंक्, तुविः समुद्रः सरितः विवस्वान् प्रभुसंयोगश्च । भू, भुविः क्रतुः समुद्रः सरित् विवस्वांश्च । टुंग्क् , स्तुविः स्तोता यज्ञश्च ॥ ९९६ ॥ रुघर्तिजनितनिधनिमनिग्रन्थिपृतपित्रपिवपियजिप्रादिवेपिभ्य उसू (९९७) रुदृक् , रोदुः अश्रुनिपातः । अरुः व्रणः । जनुः अपत्यं पिता माता जन्म प्राणी च । तनुः शरीरम् । 'धन धान्ये' सौत्रः, धनुः चापम् । मनिच् , मनुः प्रजापतिः । १० 'ग्रन्थश् सन्दर्भे' ग्रन्थुः ग्रन्थः । पश् , परुः पर्व समुद्रः धर्मश्च । तप, तपुः त्रपुः शत्रुः भास्करः अग्निः कृच्छ्रादि च । त्रपौषि, त्रपुः त्रपु । दुवपी, वपुः शरीरं लावण्यं तेजश्च । यजी, यजुः अच्छन्दाः श्रुतिः यज्ञोत्सवश्च । अदक् प्रपूर्वः । प्रादुः प्राकाश्ये उत्पत्तौ च । प्रादुर्बभूव । प्रादुरासीत् । टुवेपृङ्, वेपुः वेपथुः ॥ ९९७ ॥ इणो णित् (९९८) उस् । आयुर्जीवितम् । जटापूर्वादपि जटायुः अरुणात्मजः । 'तं नीलजीमूतनिकाशवर्णं स पाण्डुरोरस्कमुदारधैर्यम् । ददर्श १५ लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदाहम्' ॥ १ ॥ ॥ ९९८ ॥ दूषेर्डित् (९९९) उस् । दुः निन्दायाम् । दुष्पुरुषः ॥ ९९९ ॥ मुहिमिथ्यादेः कित् (१०००) उस् । मुहौच, मुहुः कालावृत्तिः । मिथग्, मिथुः सङ्गमः । आदिग्रहणादन्येभ्योऽपि भवन्ति ॥१०००॥ चक्षेः शिवा (१००१) चक्षिक् अस्मादुस् स च शिद्वा । चक्षुः परिचक्षुः अवचक्षुः । अवख्युः । बाहुलकाहिर्वचने संचचक्षुः विचख्युः ॥१००१॥ पातेडुम्सुः (१००२) पांक् अस्माद् डित् उम्सुः २० स्यात् । पुमान् पुमांसौ । उकार उदित्कार्यार्थः ॥१००२ ।। न्युयामश्वेः ककाकैसष्टावच (१००३) न्युझ्या परादञ्चः कितः अ आ ऐस् इत्येते प्रत्ययाः स्युः । ते च टावत् । टायामिव तेषु कार्य स्यादित्यर्थः । तेन 'अच्च प्राग् दीर्घश्च' (२।१।१०४) इति स्यात् । नीचम् । उच्चम् । नीचा । उच्चा । नीचैः । उच्चैः । प्रसिद्धार्था एते । लाघवार्थ सन्ताधिकारेऽप्यकार-आकारप्रत्ययविधानम् । ॥१००३ ॥ शमो नियो डैस् मलुक् च (१००४) शम्पूर्वात् णींम् अस्मात् डित ऐस् २५ शमो मस्य च लुक् स्यात् । शनैः मन्दम् ॥ १००४॥ यमिदमिभ्यां डोसू (१००५) आभ्यां डित् ओस् । यमूं, योः विषयसुखम् । दमूच् दोः बाहुः ॥ १००५ ॥ अनसो वहेः किप् सश्च डः (१००६) अनसूशब्दपूर्वात वहीं अस्मात् किम् , सस्यं च डः स्यात् । अनडुशब्दः । अनो वहति अनड्वान् वृषभः ॥१००६॥ इति व्यजनान्ताः अष्टात्रिंशेन सूत्रशतेन । . एवं पञ्चोत्तरं सूत्रसहस्रं परिभावितम् । उणादिषु प्रत्ययेषु कृपावाजीतिसूत्रतः ॥ १॥ किञ्चित् संक्षिप्य निर्दिष्टाः प्रत्यया इत्युणादयः । हैमोणादिविवरणमनुसृत्य यथावतम् ॥ २ ॥ अथ भविष्यत्काले भावे ये विहिताः प्रत्ययास्तान् दर्शयति । क्रियायां क्रियार्थायां तुम्णकचूभविष्यन्ती ॥ १४५॥ [सि० ५।३।१३ ] यसाद्धातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्यास्तयां क्रियायामुपपदे वर्ल्स३४ दर्थाद्धातोस्तुमादयः स्युः । कर्तुम् कारकः करिष्यामीति याति ॥ १४५ ॥ ३० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636