________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः ९४१ चिनीपीम्यशिभ्यो रुः (८०६) चिंगट चेरुः मुनिः । णींग् नेरुः जनपदः । पीछच् पेरुः सूर्यः गिरिः कलविङ्कश्च । मीच् मेरुः देवाद्रिः । अशौटि अश्रु नेत्रजलम । ॥ ८०६ ॥ रुपूभ्यां कित् (८०७) रुः । रुक रुरुः मृगः । पूगश पूरुः राजा ॥ ८०७॥ खनो लुक् च (८०८) अस्मात् रुः अन्तस्य च लुक् स्यात् । खरुः दर्पः क्रूरः मूर्खः दृप्तः गीतविशेषश्च ॥ ८०८ ॥ जनिहनिशद्यतॆस्त च (८०९) एभ्यो रुः तकारश्चान्तादेशः स्यात् । जत्रुः शरीरावयवः मेघः धर्मा-५ वसानं च । त्रुः हिंस्रः । शदं शत्रुः रिपुः । बाहुलकात्तादेशविकल्पे शगुः पुरुषः अत्रुः क्षुद्रजन्तुः। ॥ ८०९॥ श्मनः शीडो डित् (८१०) श्मन् पूर्वात् शीर्द अस्मात् डित् रुः स्यात् । श्मश्रु मुखलोमानि ॥८१०॥ शिग्रुगेरुनमेादयः (८११) रुप्रत्ययान्ता निपात्यन्ते । 'शिंग्ट् निशाने' कित् गोन्तश्च । शिग्रुः शोभाञ्जनकः हरितकविशेषश्च । गिरतेरेच्च । गेरुर्धातुः । नमेनपूर्वस्य मयतेवा; एच । नमेरुः देववृक्षः । आदिग्रहणादन्येपि ॥ ८११॥ कटिकुट्यतररुः (८१२)१० कट, कटरुः शकटम् । कुटत् कुटरुः पक्षिविशेषः मर्कटः वृक्षः । ऋक् , अररुः असुरः आयुधं मण्डलं च ॥ ८१२ ॥ कर्केरारुः (८१३) कर्केः सौत्रादारुः । कर्कारुः क्षुद्रचिभिटी ॥ ८१३ ॥ उर्वरादेरुदेतौ च (८१४) 'उर्वै हिंसायाम्' इत्यस्मादारुप्रत्यय आदेशश्च ऊकार एकारौ स्याताम् । उर्वव्यतिमिति । ऊर्वारुः कटुचिर्भिटी । एर्वारुः चारुचिभिटी॥ ८१४ ॥ कृपिक्षुधिपीकुणिभ्य: कित् (८१५) आरुः । कृपौङ् कृपारुः दयाशीलः । क्षुधारुः क्षुधमसहमानः । लत्वे, कृपालुः १५ क्षुधालुः । पींच् पियारुवृक्षः । कुणत् कुणारुः वनस्पतिः ॥ ८१५॥ श्यः शीत च (८१६) श्यैङ् अस्मादारुः अस्य च शीत इत्यादेशः स्यात् । शीतारुः शीतासहः । लत्वे शीतालुः ॥ ८१६ ॥ तुम्बेरुरुः (८१७) 'तुबु अर्दने' अस्मादुरुः । तुम्बुरुः गन्धर्वः गन्धद्रव्यं च ॥ ८१७॥ कन्देः कुन्द च (८१८) कदु अस्मादुरुः अयं चास्यादेशः स्यात् । कुन्दुरुः सल्लकी निर्यासः ॥८१८ ॥ चमेरुरुः (८१९) चमूरुः चित्रकः ॥ ८१९ ॥ शीङो लुः (८२०) शेलुः२० श्लेष्मातकः ॥ ८२०॥ पीङ: कित् (८२१) लुः । पीलुः हस्ती वृक्षश्च ॥ ८२१ ॥ लस्जी. यिशलेरालुः (८२२) लज्जालुः लज्जाशीलः । ईर्ष्यालुः ईर्ष्याशीलः । शलालुः वृक्षावयवः ॥ ८२२ ॥ आपोप् च (८२३) आप्लंट्, अस्मादालुः अयं चास्यादेशः स्यात् । अपालुः वायुः ॥ ८२३ ॥ गूहलुगुग्गुलुकमण्डलवः (८२४) आलुप्रत्ययान्ता निपात्यन्ते । गृहतेह्रस्वश्च प्रत्ययादेः । गृहलुः ऋषिः । गुङ् अस्यादितुंग लोपश्च प्रत्ययादेः । गुग्गुलुः वृक्षविशेषः । कमूङ २५ अण्ड् अन्तः हस्वश्च प्रत्ययादेः । कमण्डलुः अमत्रम् ॥ ८२४ ॥ प्रःशुः (८२५) पृश् पशुः वनिसंज्ञं वक्रास्थि ॥ ८२५ ॥ मस्जीष्यशिभ्यः सुक् (८२६) कित् सुः । 'मस्जेः सः' (४।४।११०) इति नोऽन्तः । मङ्खः मुनिः । 'इषश् आभीक्ष्ण्ये' । इक्षुः गुडादिप्रकृतिः । अशौटि अक्षुः समुद्रः वप्रश्च ॥ ८२६ ॥ तृपलिमलेरक्षुः (८२७) तरक्षुः श्वापदविशेषः । 'पल गतौ' । 'मलि धारणे' । पलक्षुः मलक्षुश्च वृक्षः ॥ ८२७ ॥ उले. कित् (८२८) अक्षुः । 'उल दाहे' उलक्षुः तृणजातिः ३० ॥ ८२८ ॥ इत्युकारान्ता एकादशेन सूत्रशतेन । कृषिचमितनिधन्यन्दिसर्जिखर्जिभर्जिलस्जीयिभ्यः (८२९) कर्पूः कुल्या (अङ्गारः परिखा गर्तश्च)। चमूः सेना। तनूः शरीरम् । 'धन शब्दे', 'धन धान्ये' सौत्रो वा। धनूः धान्यराशिः ज्या वरारोहा च स्त्री। अदु, अन्दूः पादकटकः । 'सर्ज अर्जने' सर्जूः अर्थः क्षारः वनस्पतिर्वणिक् च । 'खर्ज मार्जने च' । खजूंः कण्डूः विद्युच्च । भृजैङ् भ्रजीत् वा । भर्जूः यवविकारः । लजूः लजालूः । ईप्यूः ईर्ष्यालुः ॥ ८२९॥ फले फेल् च (८३०) फेलू: ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org