________________
९४२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुहोमविशेषः ॥ ८३० ॥ कषेण्डछौ च षः (८३१) अस्मात् ऊः षकारस्य च ण्ड छ इत्यादेशौ स्याताम् । कण्डूः, कच्छूः, पामा ॥ ८३१॥ वहेर्धं च (८३२) अस्मात् ऊः धकारश्चान्तादेशः स्यात् । वधूः । पतिमुपसंपन्ना कन्या जाया च ॥ ८३२॥ मृजेर्गुणश्च (८३३) अस्मादूः अस्य
च गुणः स्यात् । मर्जूः शुद्धिः नद्यास्तीरं रजक: शिला च । गुणे सिद्धे गुणवचनमकारस्य वृद्धि५बाधनार्थम् ॥ ८३३ ॥ अजे|न्तश्च (८३४) अजू: जननी ॥ ८३४ ।। कसिपद्यादिभ्यो णित् (८३५) ऊः । कासूः शक्ति मायुधं वाग्विकलः बुद्धिः व्याधिः विकला च वाक् । पादूः पादुका । आरू: वृक्षविशेषः । कच्छूः गतिः पिङ्गलश्च । आदिग्रहणात् कचतेः काचूः । शलतेः शालूरित्यादयः ॥ ८३५ ॥ अणेॉन्तश्च (८३६) आण्डूः जलभृङ्गारः ॥ ८३६ ॥
अडो ल च वा (८३७) 'अड उद्यमे' अस्माण्णिदूः लश्चान्तादेशः । आलूः भृङ्गारः करकश्च । १० आडूः दर्वी टिट्टिभः वनस्पतिः जलाधारभूमिः पादभेदनं च ॥ ८३७ ॥ नमो लम्बेर्नलुक् च (८३८) नपूर्वात् 'लबुङ् अवलंसने । अस्माण्णिदूः नकारस्य च लुक् स्यात् । अलाबूः तुम्बी ॥ ८३८ ॥ कफादीरेल च (८३९) कफपूर्वादीरीक् अस्मादूर्लश्चान्तादेशः स्यात् । कफेलूः श्लेष्मातकः यवलाजा मधुपर्क छादिषेयं च तृणम् ॥ ८३९ ॥ ऋतो रत् च (८४०) ऋत, अस्मात्
ऊः रत् इति चास्यादेशः स्यात् । रतूः नदीविशेषः सत्यवाक् दूतः कृमिविशेषश्च ॥ ८४० ॥ १५ हभिचपेः खरान्नोन्तश्च (८४१) 'भैत् ग्रन्थे हन्भूः सर्पजातिः वनस्पतिः वज्रः ग्रन्थकारः (दर्भणं च)। बाहुलकात् 'नां धुइ वर्गेऽन्योऽपदान्ते' (१।३।३९) इति न स्यात् । 'चप सान्त्वने' चम्पू: कथाविशेषः॥८४१॥धृषेर्दिधिषदिधीषौ च (८४२) अस्मादूः इमौ चान्तादेशौ स्याताम् । बिधृषाद दिधिषः पूर्वपरिणीता पुंश्चली च । दिधीषूः ऊढायाः कनिष्ठायाः अनूढा ज्येष्ठा पुनर्भूः
आहुतिश्च । अभिधानचिन्तामणी तु दिधिषूस्तु पुनर्भूचिरूढास्या दिधीः पतिरित्युक्तम् २०॥ ८४२॥ भ्रमिगमितनिभ्यो डित् (८४३) ऊ । भ्रमृच् भ्रूः अक्ष्णोरुपरि रोमराजिः । गम्लं अग्रे गच्छति अप्रेगूः पुरस्सरः । तनूयी, कुत्सितं तन्यते कुतू: चर्ममयमावपनम् ॥ ८४३ ॥ नृतिशूधिरुषिकुहिभ्यः कित् (८४४) ऊः । नृतैच्, नृतूः नर्तकः कृमिजातिः प्लवः प्रकृतिश्च । शुधूङ्, शृधूः शर्द्धनः कृमिजातिः अपानं बलिश्च दानवः । रुषच , रुपूः भर्त्सकः । कुहणि कुहूः अमावास्या ॥ ८४४ ॥ तृखडिभ्यां डुः (८४५) तईः द्रोणी प्लवः । 'खडण् भेदे' २५ खडूः बालानामुपकरणं स्त्रीणां पादाङ्गुष्ठाभरणं च ॥ ८४५॥ तुदृभ्यां दूः (८४६) तर्दूः दी । दृश् , दर्दूः कुष्ठभेदः ॥ ८४६ ॥ कमिजनिभ्यां बूः (८४७) कम्यूः भूषणं आदर्शः सरुः कुविन्दश्च । जम्बूः वृक्षजातिः ॥ ८४७ ॥ शकेरन्धूः (८४८) शकन्धूः वनस्पतिः देवताविशेषश्च ॥ ८४८॥ कृगः कादिः (८४९) अन्धूः । कर्कन्धूः बदरी व्रणः ( यवलाजा मधुपर्कं विष्टम्भश्च ) ॥ ८४९ ॥ योरागूः (८५०) युक्, यवागूः द्रवौदनः ॥ ८५० ॥ काच्छीङो डेरूः ३०(८५१) कपूर्वात् शीङ डित् एरू: स्यात् । कशेरू: कन्दविशेषः वीरुच ॥ ८५१ ॥ इत्यूकारान्तात्रयोविंशत्या सूत्रैः । दिव ऋः (८५२) दिवूच , देवा देवरः पितृव्य स्त्री अग्निश्च ॥ ८५२ ।। सोरसेः (८५३) सुपूर्वादसूच् अस्मात् ऋः । स्वसा भगिनी ॥ ८५३ ॥ नियो डित् (८५४) ऋः । णींग् ना पुरुषः॥८५४॥ सव्यात् स्थः (८५५) सव्यपूर्वात् ष्ठां, अस्माड्डिः । सव्ये तिष्ठतीति सव्येष्ठा
सारथिः भीरुष्ठानादित्वात् (२।३।३३) षत्वं सप्तम्यलुक् च ॥ ८५५ ॥ यतिननन्दिभ्यां दीर्घश्च ३५ (८५६) यतैङ् नपूर्वात नन्देश्च ऋः दीर्घश्वास्य स्यात् । याता पितृभ्रातृभगिनी देवरभार्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org