________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९४३ ज्येष्ठभार्या च ॥ ननान्दा पत्युः स्वसा । नखादित्वान्ननोन स्यात् ॥ ८५६ ॥ शासिशंसिनीरुक्षुहृभृधृमन्यादिभ्यस्तृः (८५७) शासूक् शास्ता बुद्धः । शंसू शंस्ता स्तोता । णींग् नेता सारथिः । रुक् , रोता मेघः । टुक्षुक् क्षोता मुशलम् । हूंग् हर्ता चौरः । टुडुभंगूक भर्ता पतिः । 'बॅग अविध्वंसने' धारणे इति धातुपाठे इत्युणादिविवरणे । धर्ता धर्मः । मनिंच , मन्ता विद्वान् प्रजापतिश्च । आदिग्रहणात् उपद्रष्टा ऋत्विक् । विशस्ता घातक इत्यादयोऽपि ॥ ८५७ ॥ पातेरिच५ (८५८) पांक् अस्मात्तः आकारस्य च इत्त्वं स्यात् । पिता जनकः ॥ ८५८ ॥ मानिभ्राजेलक च (८५९) 'मानि पूजायाम्' माता जननी । भ्राजि भ्राता सोदयः ॥ ८५९ ॥ जाया मिगः (८६०) जाशब्दपूर्वात् डुमिंग्ट अस्मात् तृः। जायां (प्रजायां) मिन्वन्ति तमिति जामाता दुहितृपतिः ॥ ८६०॥ आपोऽप् च (८६१) आप्लंद, अस्मात्तः अयं चास्यादेशः स्यात् । अप्ता यज्ञः अग्निश्च ॥ ८६१॥ नमेः च (८६२) णमं, अस्मात्तः पकारश्चान्तादेशः स्यात् । नप्ता दुहितुः १० पुत्रस्य वा पुत्रः ॥ ८६२ ॥ हुपूगोन्नीप्रस्तुप्रतिहप्रतिप्रस्थाभ्य ऋत्विजि (८६३) एभ्य ऋत्विजि अभिधेये तृः । स्यात् । हूंक् , होता । पूग्श् , पोता । गैं णींग, उत्पूर्वी । उद्गाता । उन्नता । टुंगा प्रपूर्वः । प्रस्तोता । हूंग्, प्रतिपूर्वः प्रतिहर्ता । ष्ठां, प्रतिप्रपूर्वः । प्रतिप्रस्थाता । एते ऋत्विजः ॥ ८६३ ॥ नियः षादिः (८६४) तृः ऋत्विज्यभिधेये । नेष्टा ऋत्विक् ॥ ८६४ ॥ त्वष्टक्षत्तदुहित्रादयः (८६५) तृप्रत्ययान्ता निपात्यन्ते । विषेरितोऽच्च । त्वष्टा देववर्धकिः प्रजापतिः १५ आदित्यश्च । 'क्षद खदने' सौत्रः । क्षत्ता नियुक्तः अविनीतः दौवारिकः मुशलः पारशवः रुद्रः सारथिश्च । दुहेरिच्च । दुहिता तनया । आदिग्रहणादन्येऽपि ॥ ८६५॥ इति ऋकारान्ताः चतुर्दशभिः सूत्रैः । राते?: (८६६) रांक् अस्मात् डित् ऐः स्यात् । राः द्रव्यम् । रायौ रायः ॥ ८६६ ॥ एकारान्ता अप्रसिद्धाः । ऐकारान्ता एकेन सूत्रेण । युगमिभ्यां डोः (८६७) डित् ओ । 'युंक् अभिगमे द्यौः स्वर्गः अन्तरिक्षं च । गौः पृथिव्यादि ॥ ८६७ ॥ इत्योकारान्ता एकेन सूत्रेण । ग्लानुदिभ्यां२० डौः (८६८) डित् औः । ग्लैं, ग्लौः चन्द्रः व्याधितः शरीरग्लानिश्च । णुदत्, नौः जलतरणम् ॥ ८६८॥ इत्यौकारान्त एकेन सूत्रेण । 'इति स्वरान्ता निर्दिष्टाः क्रमेण प्रत्यया इमे । व्यञ्जनान्ता निरूप्यन्ते क्रमेणैवाथ कादितः ॥ १॥
तोः किक (८६९) तुंक्, अस्मात् किक् स्यात् । ककारः कित्त्वार्थः । इकार उच्चारणार्थः। तुक् अपत्यम् ॥ ८६९ ॥ द्रागादयः (८७०) किक्प्रत्ययान्ता निपात्यन्ते ।२५ द्रवतेरा च । द्राक् शीघ्रम् । एवं सरतेः साक् स एवार्थः । इयर्तेरादेशश्च । अर्वाक् अचिरन्तनम् । आदिग्रहणादन्येपि ॥ ८७० ॥स्रोश्चिक (८७१) इकारककारौ प्राग्वत् । 'सुं गतौ' स्रुग जुहूप्रभृत्यग्निहोत्रभाण्डम् । सुचौ । सुचः ॥ ८७१॥ तनेईच् (८७२) डित् वच् । त्वक् शरीरादिवेष्टनम् ॥ ८७२ ॥ पारेरज् (८७३) 'पारण कर्मसमाप्तौ' अस्मादज् स्यात् । पारक् प्राकारः शाकविशेषः सुवर्णं रत्नं च । पारजौ । पारजः ॥ ८७३ ॥ ऋधिप्रथिभिषिभ्यः कित् ३० (८७४) अज् । ऋधूच , ऋधक् समीपवाच्यव्ययम् । प्रथिए । निर्देशादेव वृत् । पृथक् मानार्थेऽव्ययम् । भिषः सौत्रः, भिषज् वैद्यः । भिषजौ भिषजः ॥ ८७४ ॥ भृपणिभ्यामि भुर्वणी च (८७५) आभ्यामिज् । इमौ चानयोरादेशौ यथासङ्ख्यं स्याताम् । भृग् भुरिक् बाहुः शब्दः (भूमिः वायुः ) एकाक्षराधिकपादं चक्छन्दः । पणि, वणिक् वैदेहिकः ॥ ८७५ ॥ वशेः कित् (८७६) इज । वशक्, उशिक् कान्तः। उशीरं अग्निः गौतमश्च ऋषिः॥ ८७६ ॥ लकेर नलक ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org