________________
९४४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
च (८७७) लघुङ्, लघट् वायुः । लघु च शकटम् ॥ ८७७ ॥ सर्तेरड् (८७८) सरड् वृक्षविशेषः मेघ उष्ट्रजातिश्च ॥ ८७८ ॥ ईडेर विड् हस्वश्च (८७९) इडविड् विश्रवाः ॥ ८७९ ॥ किपि म्लेच्छश्व वा (८८०) म्लेच्छेरीडेश्च किपि ह्रस्वो वा स्यात् । अत एव वचनात् क्विप् । म्लेच्छ म्लिट् म्लेट् | उभयं म्लेच्छजातिः । इड् स्वामी मेदिनी । ईड् स एव ॥ ८८० ॥ तृपः कत् ५(८८१) कित् अत् । तृपत् चन्द्रः समुद्रः तृणभूमिश्च ॥ ८८१ ॥ संश्रद्वेहत्साक्षादादयः (८८२) कत्प्रत्ययान्ता निपात्यन्ते । सम्पूर्वात् चिनोतेर्डित् समो मकारस्यानुस्वारपूर्वः शकारश्च । संश्चत् अध्वर्युः कुहकश्च । अनुस्वारं नेच्छन्त्येके । सश्चत् कुहकः । विपूर्वात् हन्तेर्डित् वेश्च गुणः । विहन्ति गर्भमिति बेहत् गर्भघातिनी अप्रजा स्त्री अनङ्घांश्च । सम्पूर्वादीक्षतेः साक्षाभावश्च । साक्षात् समक्षमित्यर्थः । आदिग्रहणात् रेहत् छन्नम् । वियत् व्योम । पुरीतत् अत्रम् इत्यादयः ॥ ८८२ ॥ १० पटच्छपदादयोऽनुकरणाः (८८३) एते अनुकरणशब्दा निपात्यन्ते । 'पट गतौ' पटत् । 'छुपत् संस्पर्शे' उकारस्य अकारश्च । छपत् । 'खट काले' खटत् । दहेः प च । दपत् । डिपेः डिपत् । खते व खरत् । खादेः खादत् । सर्व एते कस्यचिद्विशेषस्य श्रुतिप्रत्यासत्त्यानुकरणशब्दा एते । अनुकरणमपि हि साध्वेव कर्तव्यं न यत् किञ्चित् यथा अनक्षर मिति शिष्टाः स्मरन्ति ॥ ८८३ ॥ हिवृहिमहिषृषिभ्यः : कतृः (८८४) कित् अतृः । द्रुहौच्, दुहन् ग्रीष्मः । बृहन् प्रवृद्धः । १५ बृहती छन्दः । महान् पूजितः विस्तीर्णश्च । महान्तौ । महान्तः । महती | पृषू पृषत् तत्रं जलबिन्दुः चित्रवर्णजातिः दध्युपसिक्तमाज्यं च । पृषती मृगी । स्थूलपृषतीमालभेत । ऋकारो नोऽन्तार्थो ङयर्थश्च ॥ ८८४ ॥ गमेर्डिद्वे च (८८५) अस्माडित्कटः द्वे चास्य रूपे स्याताम् । जगत् स्थावरजङ्गमो लोकः । जगती पृथ्वी ॥ ८८५ ॥ भातेर्डवतुः (८८६) भवान् भवन्तौ भवन्तः । उकारो दीर्घत्वादिकार्यार्थः ॥ ८८६ ॥ हृसृरुहियुषितडिभ्य इत् (८८७) हंग् हरित् २० हरितवर्णः ककुभ् वायुः मृगजातिः अश्वः सूर्यश्च । सं, सरित् नदी । रुहं रोहित वीरुत्प्रकारो मत्स्यः सूर्यः अग्निः मृगः वर्णश्च । युषः सौत्रः । योषति गच्छति पुरुषं योषित् स्त्री । 'तडण् आघाते' तडित् विद्युत् ॥ ८८७ ॥ उदकात् वेर्डित् (८८८) इत् । उदकेन श्वयति उदश्वित् अर्द्धाम्बुधितं दधि । 'नाम्न्युत्तरपदस्य च : ' ( ३।२।१०७ ) इति उदकस्य उदभावः ॥ ८८८ ॥ म्र उत् (८८९) मृत्, मरुत् वायुः देवः गिरिशिखरं च ॥ ८८९ ॥ ग्रो मादिर्वा (८९०) गृत् अस्मादुत् २५ स च मादिर्वा गत् गरुडः आदित्यः मधुमक्षिका तृणं सुवर्णं च । गरुत् बर्हिः अजगरः मरकतमणिः तेजसां वर्त्तिश्च ॥ ८९० ।। शक ऋत् (८९१) शट्, शकृत् पुरीषम् ॥ ८९१ ॥ यजेः क च (८९२) अस्मादृत् कश्चान्तः । यकृत् अत्रम् ॥ ८९२ ॥ पतिः कृथू (८९३) पांक् अस्मादृथ् कित् स्यात् । पृथो नाम क्षत्रियः ॥ ८९३ ॥ गृदृभसेरदू (८९४) रद् । शुश् शरद् ऋतु: । 'दृ भये’ दरद् जनपदसमानः क्षत्रियः दरदो जनपदः । 'भस भर्त्सनदीत्यो:' भसत् जघनमास्यमामा३० शयस्थानं च । भषेरपीच्छन्त्येके । भषत् ॥ ८९४ ॥ तनित्यजियजिभ्यो डद् (८९५) डित्
अद् । तद् सः । व्यद् स्यः । यद् यः । अयमुद्देशवाची ॥ ८९५ ॥ इणस्तद् (८९६) इणक्, अस्मात्तद् प्रत्ययः स्यात् । एतद् एषः । समीपस्थवस्तुवाची शब्दः || ८९६ ॥ प्रः सद् (८९७) पृश् अस्मात् सत्प्रत्ययो भवति । पर्षद् सभा || ८९७ ॥ द्रो ह्रस्वश्च (८९८) दृशू, अस्मात् सद् ह्रस्वश्चास्य स्यात् । दृषत् पाषाणः । ८९८ ।। युष्यसिभ्यां कमद् (८९९) आभ्यां ३५ प्रत्ययः स्यात् । युषः सौत्रः सेवायाम् । युष्मद् यूयम् । असूच्, अस्मद् वयम् ॥ ८९९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org