________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रिया यामुणादयः
९४५
1
उक्षितक्ष्यक्षीशिरा जिधन्विपचिपूषिक्लिदिस्निहिनुमस्जेरन् (९०० ) [ एभ्योऽन् ] उक्ष, उक्षा वृषः । तक्षौ, तक्षा वर्धकिः । अक्षौ, अक्षा दृष्टिनिपातः । ईशिक्, ईशा परमात्मा । राजग्, राजा भूपः । धन्वि सौत्रो गतौ । 'धवु गतौ' वा । धन्वा मरुः धनुश्च । पचुङ् पञ्च सङ्ख्या । 'पूष वृद्धौ' पूषा आदित्यः । क्विदौच्, क्लेदा मुखप्रसेकः चन्द्रः इन्द्रश्च । ष्णिहाँच, स्नेहा स्वाङ्गं सुहृद् वशा च गौः । णुक्, नव सङ्ख्या । टुमस्जोंत्, मज्जा षष्ठो धातुः ॥ ९०० ॥ लूप्युवृषिशिद्युदिविप्रतिदि-५ विभ्यः कित् (९०१) अन् । लूग्श्, लुवा दात्रं (स्थावरश्च ) । पूग्शू पुवा वायुः । युक्, युवा तरुणः । वृषू, वृषा इन्द्रः वृषश्च । दंशं दश संख्या । थुंक् युवा अभिगमनीयः राजा सूर्यश्च । दिवूच् दिवा दिनम् । प्रतिपूर्वात्; प्रतिदिवा अहः अपराह्नश्च ॥ ९०९ ॥ श्वन्मातरिश्वन्मूर्धन्लीहन्नर्यमन्विश्वप्सन्परिज्वन्महन्नहन्मघवन्नथर्वन्निति (९०२) एतेऽन्प्रत्ययान्
।
श्वयतेर्लुक् च । श्वा कुक्कुरः । मातरि अन्तरिक्षे श्वयति मातरिश्वा वायुः । अत्र ' तत्पुरुषे कृति ' १० ( ३।२।२० ) इति सप्तम्या अलुप् इकारलोपश्च । मूर्धश्च मूर्च्छन्त्यस्मिन्नाहताः प्राणिनः इति मूर्धा शिरः । हो दीर्घश्च; प्लीहा जठरान्तरवयवः । अरिपूर्वादमेर्ण्यन्तात्; अरीनामयतीत्यर्यमा सूर्यः । विश्वपूर्वात् प्ातेः किच्च; विश्वप्सा कालः अग्निः वायुः इन्द्रश्च । परिपूर्वात् ज्वलतेर्डिच्च; परिज्या सूर्यः चन्द्र अग्निः वायुश्च । महीयतेरीयलोपश्च महा महत्त्वम् । अंहेर्नलोपश्च; अंहते अहः दिनम् । मङ्खेर्नलोपो वश्चान्ते; मङ्घते इति मघवा । नञ्पूर्वात् खर्वेः खस्थश्च; अथर्वः ऋषिः १५ वेदश्च । इतिकरणादन्येऽपि ॥ ९०२ ॥ षव्यशाभ्यां तन् (९०३) षप, अशौटि । सप्त । अष्ट । उभे सत्ये ॥ ९०३ ॥ स्नामदिपद्यर्त्तिपृशकिभ्यो वन् (९०४) । ष्णांकू, स्नावा सिरा नदी च । मदैच्, मद्वा दृप्तः पानं कान्तिः क्रीडा मुनिः शिरश्च । मद्वरी मदिरा | बाहुलकात् ङीः ; । वनो रश्च । पर्दि, पद्वा पत्तिः वत्सः रथः पादः गतिश्च । ऋक्, अर्वा अश्वः अशनिः आसनं मुनिश्च । पृश्, पर्व सन्धिः पूरणं पुण्यतिथिश्च । शक्लंटू, शक्का समर्थः । शकरी नदी विद्युत् छन्दो - २० जातिः युवतिः सुरभिश्च । शक्करशाकरौ इति तु धीवरचीवरेति (४४४) वरटि साधुः ॥ ९०४ ॥ ग्रहेरा च (९०५) अस्माद्वंन् आकारश्चान्तादेशः । ग्रावा पाषाणः पर्वतश्च ।। ९०५ ॥ ऋशी कुशिरुहिजिक्षिहृसृष्टदृभ्यः क्वनिपू (९०६ ) ऋक् । ऋत्वा ऋषिः । शी शीवा अजगरः । क्रुशंच्, कुश्वा सृगालः । रुहं, रुह्वा वृक्षः । जिं, जित्वा धर्मः इन्द्रः योद्धा जित्वरी नदी वणिज । जित्वरीं वाराणसीमाहुः । क्षिं, क्षित्वा वायुः विष्णुः मृत्युश्च । क्षित्वरी रात्रिः । हंग्, हृत्वा रुद्रः २५ मत्स्यः वायुश्च । सं, सृत्वा कालः अग्निः वायुः सर्पः प्रजापतिः नीचजातिश्च । सृत्वरी वेश्यामाता । 'धुंङ्त् स्थाने' धृत्वा ( विष्णुः ) शैलः समुद्रः । ( धृत्वरी ) भूमिश्च । 'हंत् आदरे' दृत्वा दृप्तः । पकारस्तागमार्थः ॥ ९०६ ॥ सृजेः स्रजसृकौ च (९०७) सृजत् अस्मात् वनिप् इमौ चास्यादेशौ स्याताम् । स्रज्वा मालाकार : रज्जश्च । सुक्कणी आस्योपान्त्यौ ॥ ९०७ ॥ ध्याप्योपी च (९०८) ध्यै प्यैङ् आभ्यां कनिप् इमौ चानयोरादेशौ स्याताम् । धीवा मनीषी निषादः व्याधिः मत्स्यश्च । पीवा ३० पीनः ॥ ९०८ ॥ अतेर्ध च (९०९) अत अस्मात् कनिप् धकारश्चान्तादेशः । अध्वा मार्गः ॥ ९०९ ॥ प्रात्सदिरीरिणस्तोन्तश्च (९१०) प्रपूर्वेभ्य एभ्यः क्वनिप् तोन्तश्चैषां स्यात् । पढ़े, प्रसत्वा मूढः वायुश्च । प्रसत्वरी माता प्रतिपत्तिश्च । रींशू, प्ररीत्वा वायुः । प्ररीत्वरी स्त्रीविशेषः । ईरिक् प्रेर्त्वा सागरः वायुश्च । प्रेवरी नगरी । इण्क्, प्रेत्वरी नगरीत्याहुः ॥ ९९० ॥ मन् (९११) सर्वधातुभ्यो बहुलं मन् स्यात् । डुकृंग्, कर्म व्यापारः । वृगूट्, वर्म कवचम् । वृतूङ्, ३५ है० प्रका० उत्त० ११९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org