________________
९४६
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञ है मलघु
बर्त्म पन्थाः । चर, चर्म अजिनम् । 'भस भर्त्सनदीत्यो:' सौत्रः । भसितं तदिति भस्म भूतिः । जनैचि, जन्म उत्पत्तिः । शुश्, शर्म सुखम् । वसवोऽस्य दुरितं शीर्यासुरिति वसुशर्मा । मृत्, मर्म जीव प्रदेश प्रचयस्थानं यत्र जायमाना वेदना महती भवति । नृश्, नर्म परिहासः । षिंच् लेष्मा कफः । ‘ऊष रुजायाम्' ऊष्मा तापः । टुडुभृंग्क्, भर्म सुवर्णम् । यांक्, यामा रथः । वांक्, वामा ५करचरणह्रस्वः । पांकू, पामा कच्छूः । वृषू, वर्ष्म शरीरम् । षट्टे, सद्म गृहम् । विशंत्, वेश्म गृहम् | हिंदू, हेम सुवर्णम् । छदण्, छद्म माया । दीच्, दाम रज्जुः माता च । डुधांग्कू, धाम स्थानं तेजश्च । ष्ठां, स्थाम बलम् । बुंगूट्, सोम यज्ञः पेयो रसः चन्द्रमाश्च । अशौटि, अश्मा पाषाणः । लक्षीण, लक्ष्म चिह्नम् । अयि, अथम संग्रामः । तक, तक्मा रतिः आतपः दीपश्च । हुंकू, होम हव्यं अग्निहोत्रशाला च । 'धृग् धारणे' धर्म पुण्यम् । विपूर्वात् विधर्मा अहितः वायुः व्यभिचारश्च । १०ध्यै, ध्याम ध्यानम् ॥ ९११ ॥ कुष्युषितृपिभ्यः कित् (९१२) कुष्म शल्यम् । उषू, उष्मा दाहः । सृप्लं, सृष्मा सर्पः शिशुः यतिश्च ।। ९१२ ॥ वृंहेर्नोऽच (९१३) वृहु शब्दे चेत्यस्मान्मन् नकारस्य च अकारः स्यात् । ब्रह्म परं तेजः अध्ययनं मोक्षः । बृहत्त्वादात्मा । ब्रह्मा भगवान् ॥ ९९३ ॥ व्येग एदोतौ च वा (९१४) व्ये॑ग् अस्मान्मन् एदोतौ चान्तादेशो वा स्याताम् । व्येम वस्त्रम् । व्येमा संसारः कुविन्दभाण्डं च । व्योम नभः । पक्षे व्याम न्यग्रोधाख्यं प्रमाणम् ॥ ९९४ ॥ १५ स्यतेरी च वा (९१५) बच्, अस्मान्मन् ईकारश्चान्तादेशो वा स्यात् । सीमा आघाटः । पक्षे साम प्रियवचनं वामदेव्यादि च ॥ ९९५ ॥ सात्मन्नात्मन्वेमन्त्रोमन्को मंल्ललामन्नामन्पामन्पक्ष्मन्यक्ष्मन्निति (९१६) एते मन्प्रत्ययान्ता निपात्यन्ते । स्यतेस्तोन्तश्च । सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतं अन्तकर्म च । अतेर्दीर्घश्च । आत्मा जीवः । वेग आत्वाभावश्च । वैम तन्तुवायोपकरणम् । रुहेर्लुक् च । रोम । लत्वे लोम तनूरुहम् । कृमेरोच । क्लोम शरीरान्तरवयवः । २० लातेर्द्वित्वं च । ललाम भूषणादि । नमेरा च । नाम संज्ञा कीर्त्तिश्च । पातयतेः प् च । पाप्मा पापं रक्षश्च । पञ्चेः कः षोन्तो नलोपश्च । पक्ष्म अक्ष्यादिलोम । यस्यतेर्यक्षिणो वा । यक्ष्मा रोगः । इतिकरणात् तोक्मशुष्मादयः ॥ ९९६ ॥ हजनिभ्यामिमन् (९१७) हरिमा पापविशेष : मृत्युः वायुश्च । जनिमा धर्मविशेषः संसारश्च ॥ ९१७ ॥ सहृभृधृस्तृतुभ्य ईमन् (९१८) सं, सरीमा कालः । हंगू, हरीमा मातरिश्वा । टुडुभृंगुक्, भरीमा क्षमी राजा कुटुम्बं च । भृंग्, धरीमा २५ धर्मः । स्तृगुशू, स्तरीमा प्रावारः । षूत्, सवीमा गर्भः प्रसूतिश्च ॥ ९९८ ॥ गमेरिन ( ९१९) गमिष्यतीति गमी जिगमिषुः ॥ ९९९ ॥ आङश्च णित् (९२०) आङ्पूर्वात्केवलाच्च गमेर्णिदिन् स्यात् । आगमिष्यतीति आगामी प्रोषितादिः । गमिष्यतीति गामी प्रस्थितादिः ॥ ९२० ॥ सुवः (९२१) षूङौच्, अस्मात् णिदिन् स्यात् । आसावी आसविष्यमाणः (जनिष्यमान ) इत्यर्थ: ।। ९२१ ॥ भुवो वा (९२२) अस्मादिन् स च णिद्वा । भविष्यतीति भावी कर्मविपाकादिः । भवी भविष्यन् ३० ।। ९२२ ।। प्रपतेर्याबुधिभ्याम् (९२३) प्रपूर्वात्प्रतिपूर्वाश्च यांक् बुधिंच आभ्यां णिदिन् । प्रयास्यतीति । प्रयायी । प्रतियायी प्रबोधी । प्रतिबोधी बालादिः ॥ ९२३ ॥ प्रात्स्थः (९२४) प्रपूर्वात् ष्ठां अस्मादिन् स्यात् । प्रस्थास्यते इति प्रस्थायी गन्तुमनाः ॥ ९२४ ॥ परमात् कित् (९२५) परमपूर्वात्तिष्ठतेः किदिन् स्यात् । परमे पट्टे तिष्ठतीति परमेष्ठी अर्हदादिः । भीरुष्ठानादित्वात्षत्वम् । सप्तम्या अलुप् च ।। ९२५ ।। पथिमन्थिभ्याम् (९२६) किदिन् । पथे, पन्थाः मार्गः । पन्थानौ । ३५ मन्थश्, मन्थाः (क्षुब्धो वायुर्वश्च ) मन्थानौ । मथिप्रियः ॥ ९२६ ॥ होर्मिन् (९२७) हुंक्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org