________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९४७ होमी ऋष्विक् घृतं च ॥ ९२७ ॥ अत्तै क्षिन (९२८) ऋभुक्षा इन्द्रः । ऋभुक्षाणौ ॥ ९२८॥ अदेस्त्रिन् (९२९) अत्री ऋषिः ॥ ९२९ ॥ पतेरविन् (९३०) पतत्री पक्षी ॥ ९३० ॥ आपः किए हखश्च (९३ १) आप्लंट् अस्मात् किम् स्यात् ह्रस्वश्च । (आपोऽम्भः) स्वभावादप्शब्दो बहुवचनान्तः ॥९३१ ।। ककुपत्रिष्टबनुष्टभः (९३२) एते किप्प्रत्ययान्ता निपात्यन्ते । कपूर्वात् स्कुनातेः सलोपश्च । ककुप् कं वायुः ब्रह्म च । स्कुन्नन्ति इति ककुभः दिशः । ककुप् उष्णिक ५ छन्दः । अनुत्रिपूर्वात् स्तुनातेः सः षश्च । अनुष्टुप् त्रिष्टुप् छन्दः । बहुवचनात् निजिविजिविषां कि शित् (४।१।५७) । नेनिक प्रजापतिः । वेविक् शुचिः । वेविट् चन्द्रमाः॥ ९३२ ॥ अवेमः (९३३) 'अव रक्षणे' अस्मात् म् इति व्यञ्जनं प्रत्ययः स्यात् । अवतीति ओम् ब्रह्म प्रणवश्च ॥ ९३३ ॥ सोरेतेरम् (९३४) सूपूर्वादिण्क् अस्मादम् स्यात् । स्वयमात्मना ॥ ९३४ ॥ नशिनूभ्यां नक्तनूनौ च (९३५) नशौच , णूत् आभ्यामम्प्रत्ययः इमौ चानयोरादेशौ यथासयं स्याताम् ।१० नक्तं रात्रौ । नूनं वितर्कादिषु ॥ ९३५ ॥ स्यतेर्णित् (९३६) षोंच् । अस्माण्णिदम् । सायं दिनाबसानम् ॥ ९३६ ॥ गमिजमिक्षमिकमिशमिसमिभ्यो डित् (९३७) अम् स्यात् । गम, गम् । जमू, जम् । क्षम् । एतानि भार्यानामानि । कमूह, कम् जलम् । शमूच , शं सुखम् । 'षम वैलव्ये' सम् सङ्गताद्यर्थे ॥ ९३७ ॥ इणो दमक् (९३८) इदम् प्रत्यक्षनिर्देशे ॥ ९३८॥ कोर्डिम् (९३९) 'कुंक् शब्दे' अस्माड्डित् इम् स्यात् । किम् अनेनाविज्ञातं वस्तु पर्यनुयुज्यते १५ ॥९३९ ॥ तूषेरीम् णोऽन्तश्च (९४०) 'तूष तुष्टौ' । अस्मादीम् , अस्य च णोऽन्तः स्यात् । तूष्णीम् वामियमे ॥ ९४०॥ईकमिशमिसमिभ्यो डित् (९४१) ईम् । 'ईड् ईम् । कमूङ', कीम् । शमूच् , शीम् । षम, सीम् अभिनयव्याहरणानि एतानि । ईम् सीम् अव्यक्ते । की संशयप्रश्नादिषु । शीम् अमर्षपादपूरणयोः ॥९४१॥ क्रमिगमिक्षमेस्तुमाच्चातः (९४२) एभ्यस्तुम् अकारस्य च आकारः स्यात् । कान्तुं गमनम् । गान्तुं पान्थः । क्षान्तुं भूमिः । तुमर्थश्च सर्वत्र २० ॥९४२॥ गपूदुर्विधुर्विभ्यः किप (९४३) गृझ , गी: वाक । पृश् , पूः । 'दुवै धुर्व हिंसायाम्', दूः शरीरान्तरवयवः । धूः शकटाङ्गं आदिश्च ॥९४३ ॥ वाद्वारौ (९४४) किबन्तौ निपात्यते । वृणातेर्वृद्धिश्च । वाः पानीयम् । कर्मणि दश्च धात्वादिः । वृण्वन्ति तामिति द्वाः द्वारम् । 'हूँ वरणे' । इत्यस्य च णिगन्तस्य रूपम् ॥९४४॥ प्रादतेरर (९४५) प्रपूर्वात् 'अत सातत्यगमने' अस्मादर् प्रत्ययः स्यात् । प्रातः प्रभातम् ॥ ९४५ ॥ सोरर्तेलक् च (९४६) सुपूर्वात् ऋक् अस्मात् अर् धातोश्च २५ लुक् स्यात् । स्वः स्वर्गः ॥ ९४६॥ पूसन्यमिभ्यः पुनसनुतान्ताश्च (९४७) पूगश् षन अम । एभ्योऽर, एषां चैते आदेशा यथासङ्ख्यं स्युः । पुनर्भूयः । सनुतः कालवाची । अन्तर्मध्यम् ॥९४७ ॥ चतेरुर (९४८) चतेग् अस्मादुर् । चत्वारः सया ॥ ९४८ ॥ दिवेर्डिव् (९४९) डित् इव् । दिवूच, द्यौः स्वर्गः अन्तरिक्षम् । दिवौ दिवः॥९४९ ॥ विशिविपाशिभ्यां किए (९५०) विशंत् विशः प्रजाः । विट् वैश्यः पुरीषमपत्यं च ॥ पशण बन्धने' विपूर्वः । विपाशयतिस्म ३० विशिष्टमिति विपाट् नदी ॥ ९५० ॥ सहेः षष् च (९५१) अस्मात् किम् अयं चास्यादेशः स्यात् । षट् सङ्ख्या ॥ ९५१ ॥ अस् (९५२) सर्वधातुभ्यो बहुलमस् स्यात् । तपं, तपः सन्तापः माघमासः निर्जराफलं च । अनशनादि सुष्ठ तपतीति सुतपाः । एवं महातपाः । णमं, नमः पूजावाची । तमूच , तमः अन्धकारः तृतीयगुणः अज्ञानं च । इणक , अयः कलहो लोहं च (काललोहम् ?) । वींक्, वयः पक्षी प्राणिनां कालकृतावस्था च ।३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org