________________
९१० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुजीवातुः जीवितं औषधं अन्नं उदकं द्रव्यं च ॥ ७८२ ॥ यमेवुक (७८३) यमू यदुः क्षत्रियः ॥७८३ ॥ शीङो धुक् (७८४) शीधुः मद्यविशेषः ॥ ७८४ ॥धूगो धुन् च (७८५) धूम् अस्मात् धुक् , अयं चास्यादेशः स्यात् । धन्धुः दानवः ॥ ७८५॥ दाभाभ्यां नुः (७८६) डुदांग , दानुः गन्ता यजमानः वायुः आदित्यः दक्षिणार्थं धनम् । भांक्, भानुः सूर्यः रश्मिश्च । ५चित्रभानुः अग्निः । स्वर्भानुः राहुः । विश्वभानुः आदित्यः ॥ ७८६ ॥ धेः शित् (७८७) नुः । शित्त्वात् 'आत्सन्ध्यक्षरस्य' (४।२।१) इत्यात्वं न स्यात् । धें धेनुः नवप्रसूतिका गवादिः ॥ ७८७॥ सुवः कित् (७८८) नुः । षूडौक् सूनुः पुत्रः॥ ७८८॥ हो जह च (७८९) ओहांक् अस्मात् कित् नुरस्य चायमादेशः स्यात् । जहुः गङ्गापिता ॥ ७८९॥ वचेः कगौ. च (७९०) वचंक्
अस्मात् नुः कगौ चास्यान्तादेशौ स्यातात् । वक्नुः वग्नुश्च वाग्मी ॥ ७९० ॥ कृहनेस्तुक्नुको १०(७९१) दुकंग् कृतुः कर्मकरः । कृणुः कोशाकारः कारुश्च । हनं हतुः हिमः । हनुः वक्त्रैक
देशः । बाहुलकानलोपः ॥ ७९१ ॥ गमेः सन्वच (७९२) अस्मात्तुक्नुको सन्वद्भवतः । जिगन्तुः ब्राह्मणः । दिवसः मार्गः प्राणः अग्निश्च । जिगन्नुः प्राणः बाणः स्थगः मीनः वायुश्च ॥ ७९२॥ दाभूक्षण्युन्दिनदिवदिपत्यादेरनुङ् (७९३) एभ्यो ङिदनुः । डुदांग्क् , दनुः दानवमाता । भू भवनुः मेघः चन्द्रः भवितव्यता हंसश्च । क्षणूग, क्षणनुः यायावरः । उन्दैप् १५ उदनुः शुकः । णद, नदनुः मेघः सिंहश्च । वद, वदनुः वक्ता । पत्ल, पतनुः श्येनः आदिग्रहणा
दन्येपि । कित्त्वमकृत्वा डितकरणं वदेर्वृदभावार्थम् ॥७९३ ॥ कृशेरानुक (७९४) कृशच् कृशानुः वह्निः॥७९४ ॥ जीवेरदानुक (७९५) जीरदानुः । कित्करणं गुणप्रतिषेधार्थम् । वलोपे हि नाम्यन्तत्वाद्गुणः स्यात् ॥ ७९५ ॥ वचेरनुः (७९६) वचक्नुः वाग्मी आचार्यः ब्राह्मणः
ऋषिश्च ॥ ७९६ ॥ हृषिपुषिघुषिगदिमदिनन्दिगडिमण्डिजनिस्तनिभ्यो रित्नुः २०(७९७) एभ्यो ण्यन्तेभ्यः इत्नुः । हृषंच हृषू वा । हर्षयित्नुः आनन्दः स्वजनः रङ्गोपजीवी प्रियंवदश्च । पुषंच पोषयित्नुः भर्ता मेघः कालश्च । 'घुषण विशब्दने' घोषयित्नुः कोकिल: शब्दश्च । 'गदण् गर्ने गर्दयित्नुः पर्जन्यः वावदूकः भ्रमरः कामश्च । मदैच मदयित्नुः मदिरा सुवर्णमअलङ्कारश्च । टुनदु, नन्दयित्नुः पुत्रः आनन्दः प्रमुदितश्च । गडयित्नुः बलाहकः । मडु,
मण्डयिलुः मण्डयिता कामुकः । जनैचि, जनयित्नुः पिता । स्तनण् स्तयित्नुः मेघः तद्गर्जितं च २५॥ ७९७॥ कस्यर्तिभ्यामिपुक (७९८) कस कसिपुः भोजनम् । रिपुः शत्रुः ॥ ७९८ ॥ कम्यमिभ्यां बु (७९९) कम्बुः शङ्खः । अम्बु जलम् ॥ ७९९ ॥ अभ्रेरमुः (८००) अभ्रमुः देवहस्तिनी ॥ ८०० ॥ यजिशुन्धिदहिदसिजनिमनिभ्यो यु: (८०१) यज्युः अग्निः अध्वर्युः यज्वा शिष्यश्च । 'शुन्ध शुद्धौ' शुन्ध्युः अग्निः आदित्यः पवित्रं च । दहं, दह्युः अग्निः । 'दसूच उपक्षये' दस्युः चौरः । जनैचि जन्युः अपत्यं पिता प्रादुर्भावः वायुः प्रजापतिः प्राणी च । ३० मनिंच । मन्युः क्रोधः कृपा शोकः क्रतुश्च ॥ ८०१॥ भुजेः कित् (८०२) युः । भुजंप भुज्युः
अग्निः आदित्यः गरुडः भोगः ऋषिश्च ॥ ८०२ ॥ सर्तेरय्वन्यू (८०३) अस्मात् अयु अन्यु एतौ स्याताम् । सरयुः नदी वायुश्च । दीर्घान्तमिम मिच्छन्त्येके । सरयू: श्लिष्टनिर्देशात्तदपि सङ्घहीतम् । सरण्युः मेघः आश्विनोर्माता समेघो वायुश्च ॥ ८०३ ॥ भूक्षिपिचरेरन्युक् (८०४)
भुवन्युः । ईश्वरः अग्निश्च । क्षिपीत्, क्षिपन्युः वायुः वसन्तः विद्युत् अर्थः कालश्च । चरः चरण्यु३५ र्वायुः ॥ ८०४॥ मुस्त्युक (८०५) मंत्, मारयति, मृत्युः कालः मरणं च ॥ ८०५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org