________________
९३९
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः ॥ ७५९ ॥ हेर्हिन् च (७६०) हिंट् अस्माद्दुः हिन् चास्यादेशः स्यात् । हिङ्गुः रामठः ॥७६०॥ प्रीकैपैनीलेरडक् (७६१) किदङ्गुः । प्रींग्श प्रियङ्गुः फलिनी रालकश्च । मैं कङ्गुः अणुः । पैं पङ्गुः खञ्जः । 'नील वर्णे' । नीलङ्गुः कृमिजातिः सृगालश्च ।। ७६१ ॥ अव्यर्तिगृभ्यो टुः (७६२) अव अवटुः कृकाटिका । ऋक् अरटुः वृक्षः । गत् गरटुः देशविशेषः पक्षी अजगरश्च ॥ ७६२ ॥ शलेराटुः (७६३) शलाटुः कोमलं फलम् ॥ ७६३ ॥ अञ्जयवेरिष्टुः (७६४)५ अञ्जओप् अञ्जिष्टुः भानुः अग्निश्च । अव, अविष्टुः अश्वः होता च ॥ ७६४ ॥ तनिमनिकणिभ्यो डुः (७६५) तण्डुः प्रथमः । मनिंच मण्डुः ऋषिः । कण, कण्डुः वेदनाविशेषः ॥ ७६५ ॥ पनेर्दीर्घश्च (७६६) पनि अस्मात डुः दीर्घश्चास्य स्यात् । पाण्डुः वर्णः क्षत्रियश्च ॥७६६ ॥ पलिमृभ्यामाण्डुकण्डुको (७६७) पल, पलाण्डुः लशुनभेदः । मृत् मृकण्डुः ऋषिः । कित्त्वान्न गुणः ॥ ७६७ ॥ अजिस्थायरीभ्यो णुः (७६८) अजेर्वीभावे वेणुः वंशः । ष्ठां, १० स्थाणुः शिवः ऊवं च दारु । वृगट् , वर्गुः नदः जनपदश्च । रीश् , रेणुः धूलिः ॥ ७६८॥ विषेः कित् (७६९) विष्लंकी अस्मात् किण्णुः । विष्णुः हरिः ॥ ७६९ ॥ क्षिपेरणुक (७७०) क्षिपणुः समीरणः विद्युच्च ॥ ७७०॥ अञ्जरिष्णुः (७७१) अञ्जिष्णुः ॥ ७७१॥ कृहृभूजीविगम्यादिभ्य एणुः (७७२) कुंग्ट् डुकूग् वा करेणुः हस्ती । हृग् हरेणुः गन्धद्रव्यम् । भू भवेणुः भव्यः । जीवेणुः ओषधम् । गमेणुः गन्ता । आदिग्रहणात् शमूच शमेणुः शमनम् । यजी यजेणुः १५ यज्ञादिः । दुपचीष् पचेणुः पाकस्थानम् । पदेणुः वहेणुरित्यादि ॥ ७७२ ॥ कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभाधागाग्लाम्लाहनहायादिक्रूशिपूभ्यस्तुन् (७७३) डुकंग् कर्तुः कर्मकरः । पिंग्ट् सेतुः नद्यादिसंक्रमः । कन्तुः कन्दर्पः कामीमनः कुसूलश्च । अन्तुः रक्षिता लक्षणं च । गन्तुः पथिकः । आगन्तुः आवास्तव्यो जनः । तन्तुः सूत्रम् । मन्तुः वैमनस्यं प्रियंवदः मानश्च । जन्तुः प्राणी । असक् अस्तुः अस्तिभावः । बाहुलकाद्भूभावाभावः । २० मसैच् , मस्तु दधिमूलवारि । पचि सक्तः यवविकारः । अव ओतुः । 'अनुनासिके च०' (४।। १०८) इति वस्य उट् । भांक भातुः शरीरावयवः अग्निः विद्वांश्च । डुधांगक् धातुः लोहादिः रसादिः शब्दप्रकृतिश्च । गैं, गातुः गायनः । उद्गाता । ग्लातुः सरुजः । म्लातुः हीनः । हन्तुः आयुधं हिमश्च । ओहांक हातुः मृत्युः मार्गश्च । याक् , यातुः पाप्मा जनः राक्षसश्च । हिंट हेतुः कारणम् । क्रुशं, कोष्टा शृगालः । पूग्श् पोतुः पविता । नित्करणं 'क्रुशस्तुनस्तृच् पुंसि' (१।४।९१) इत्यत्र विशेषार्थम् २५ ॥ ७७३ ॥ वसेर्णिद्वा (७७४) तुन् । वास्तु गृहं भूमिश्च । वस्तु सन्निवेशभूमिश्च ।। ७७४॥ पः पीप्यौ च वा (७७५) पां अस्मात्तुन् अस्य च पीपि इत्यादेशौ वा स्याताम् । पीतुः आदित्यः चन्द्रः हस्ती कालः चक्षुः बालघृतपानभाजनं च । पितुः प्रजापतिः आहारश्च । पातुः रक्षिता ब्रह्मा च ॥ ७७५ ॥ आपोप् च (७७६) आप्लंट् अस्मात्तुन् । अस्य अप् आदेशः स्यात् । अस्तुः देवताविशेषः कालयाजकः यज्ञयोनिश्च ॥ ७७६ ॥ अञ्जयतेः कित् (७७७) तुन् , अक्तुः ३० इन्द्रः विष्णुः रात्रिश्च । क् ऋतुः हेमन्तादिः स्त्रीरजस्तत्कालश्च ॥ ७७७॥ चायः के च (७७८) चायङ् केतुः ध्वजः ग्रहश्च ॥ ७७८ ॥ वहिमहिगुह्येधिभ्यो तुः (७७९) वहतुः विवाहः अनड्वान अग्निः कालश्च । महतुः अग्निः । गृहतुः भूमिः । एधतुः लक्ष्मीः पुरुषः अग्निश्च ॥ ७७९ ॥ कृलाभ्यां कित् (७८०) अतुः । डुइंग् क्रतुः यज्ञः । लोक् लतुः पाशः ॥ ७८०॥ तनेर्यतुः (७८१) तन्यतुः विस्तारः वायुः पर्वतः सूर्यश्च ॥ ७८१॥ जीवेरातुः (७८२)३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org