________________
९३८
महामहोपाध्यायश्रीविनयविजयगणिविरचितेखोपज्ञहैमलघुकित् उः कश्चान्तादेशः । लिकुः मृगास्थि सव्यवधानः व्यवसायः ज्योतिष सेवकश्च ॥ ७३९॥ रजिलङ्गिलिङ्गेनलुक् च (७४०) एभ्य उः नकारस्य च लुक् स्यात् । रघुः राजा । लघुः तुच्छं शीघ्रं च । 'लिगुण चित्रीकरणे' लिगुः ऋषिः सेवकः मूर्खः भूमिविशेषश्च ॥ ७४०॥ पीमृगमित्रदेवकुमारलोकधर्मविश्वसुलाश्मावेभ्यो यः (७४१) एभ्यः परात् 'यांक प्रापणे' ५अस्मात् किदुः स्यात् । पीयुः उलूकः आदित्यः सुवर्ण कालश्च । मृगयुः व्याधः मृगश्च । मित्रयुः ऋषिः मित्रवत्सलश्च । देवयुः धार्मिकः । कुमारयुः राजपुत्रः । लोकयुः वाक्यकुशलो जनः । धर्मयुः धार्मिकः । विश्वयुः वायुः । सुष्टु स्नातीति सुस्नः । सुनयुः यजमानः । अश्मयुर्मूर्खः । अवयुः काव्यम् ॥ ७४१ ॥ पराभ्यां शृखनिभ्यां डित् (७४२) परापूर्वाभ्यां यथासङ्ख्यमाभ्यां डिदुः स्यात् । परात् शृणाति । परशुः कुठारः । आखनति आखुः मूषिकः ॥ ७४२ ॥ शुभेः स १० च वा (७४३) शुभि दीप्तावस्माडिदुरस्य च दन्यः सो वा स्यात् । सुः शुश्च पूजायाम् । सुपुरुषः शुनासीरः॥७४३॥ शुद्रुभ्याम् (७४४) डिदुः। 'छक् अभिगमे' गुः स्वर्गः क्रीडा स्वर्गश्च । हूँ 'गतौ' द्रुः वृक्षशाखा वृक्षश्च ॥ ७४४ ॥ हरिपीतमितशतविकुकन्यो दुवः (७४५) एभ्यः परात् हूँ अस्मात् डिदुः स्यात् । हरिद्रुः वृक्षः ऋषिः पर्वतश्च । पीतद्रुः देवदारुः । मितद्रुः समुद्रः तुरगः मितंगमश्च । शतद्रुर्नाम नदः नदी च । विद्रुः दारुप्रकारः वृक्षश्च । कुट्ठः विकलपादः । कद्रु गमाता १५वह्निजातिः गृहगोधावर्णश्च ॥ ७४५ ॥ केवयुभुरण्य्वध्वय्वोदयः (७४६) डिदुप्रत्ययान्ता निपात्यन्ते । केवलपूर्वाद्यातेललोपश्च । केवयुः ऋषिः । भूपूर्वाद्यातेर्डरण्वादौ । भुवं याति भुरण्युः अग्निः । अध्वरं याति पूर्वपदान्तलोपे अध्वर्युः ऋत्विक् । आदिग्रहणात् चरन्याति चरण्युः । अभिपूर्वस्यानातेरमीशुः रश्मिः ॥ ७४६ ॥ शः सन्वञ्च (७४७) शोंच् अस्माड्दुिः स च सन्वत् सनीवास्मिन् द्वित्वं पूर्वस्य चेत्वं भवति । शिशुः बालः ॥ ७४७॥ तने उः (७४८) २० स च सन्वत् । तितउः परिवपनम् ॥ ७४८ ॥ कैशीशमिरमिभ्यः कु: (७४९) कैं काकु: स्वरविशेषः । शी शेकुः उद्भिद्विशेषः । शमूच् शङ्कः कीलकः (बाणः शूलमायुधं चिह्न छलकश्च )। रमि रङ्कुः मृगः ॥७४९॥ हियः किद्रो लश्च वा (७५०) अस्मात् कित् कुः रेफस्य च लो वा स्यात् । ह्रीकुः ह्रीकुश्च त्रपु जतुनी लज्जावांश्च । ह्रीकुर्वनमार्जारः॥७५०॥ किरः ष च (७५१) कृत् अस्मात् किकुः पश्चान्तादेशः स्यात् । किष्कुः छायामानद्रव्यम् । लिङ्गानुशासनवृत्ती तु २५ किष्कुः हस्तादि यद्गौडः किष्कुर्हस्ते वितस्तौ च प्रकोष्ठे वा नपुंसकम् । खमते तु पुंस्त्रीलिङ्गः ॥७५२॥
चटिकठिपर्दिभ्य आकु: (७५२) चटण चटाकुः ऋषिः शकुनिश्च । कठ, कठाकुः कुटुम्बपोषकः । पदि पर्दाकुः भेकः वृश्चिकः अजगरश्च ॥ ७५२॥ सिविकुटिकुठिकुकुषिकृषिभ्यः कित् (७५३) आकुः । षिवूच् सिवाकुः ऋषिः । कुटत् कुटाकुः विटपः । कुठिः सौत्रः छेदे ।
कुठाकुः श्वभ्रः । कुङ् कुवाकुः पक्षी । कुषश् कुषाकुः मूषिकः अग्निः परोपतापी च । कृषीत् कृषाकुः ३०॥ ७५३ ॥ उपसर्गाचेर्डित् (७५४) आकुः । उपचाकुः सञ्चाकुश्च ऋषिः । निचाकुः निपुण
ऋषिश्च ॥ ७५४ ॥ शलेरङ्कु: (७५५) शलङ्कुः ऋषिः ॥ ७५५ ॥ सृषभ्यां दाकुक (७५६) सृदाकुः दवाग्निः वायुः आदित्यः व्याघ्रः शकुनिः अश्वः सर्त्ता गोत्रकृच । भृक् पृदाकुः सर्पः गोत्रकृच ॥ ७५६ ॥ इषेः स्वाकुक (७५७) इक्ष्वाकुः आदिक्षत्रियः ॥ ७५७ ॥ फलिवल्यमेगुः (७५८) फल्गुः असारम् । वल्गु मधुरं शोभनं च । वल्गुः पक्षी । अम अङ्गु शरीरावयवः ३५॥ ७५८ ॥ दमेलक् च (७५९) दमूच् अस्माद्गुः अन्तस्य च लुक् स्यात् । दगुः ऋषिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org