________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९३७
मधुः असुरः मासश्च चैत्रः । जनैचि, जतु लाक्षा ॥ ७२१ || अर्जेऋज् (७२२) 'अर्ज अर्जने' । अस्मादुः अयं चास्यादेशः स्यात् । ऋजु अकुटिलम् ॥ ७२२ ॥ कृतेस्तर्क च (७२३) कृतैत् कृतैप् वा अस्मादुरयं चास्यादेशः स्यात् । तर्कः चुन्दः सूत्रवेष्टनशलाका च ॥ ७२३ || नेरवेः (७२४) निपूर्वादचेरुः स्यात् । न्यङ्कः मृगः ऋषिश्व ॥ ७२४ ॥ किमः श्रोणित् (७२५) किम् पूर्वात् शृश, अस्माण्णिदुः स्यात् । किंशारुः शुकः धान्यशिखा हिंस्रः इषुश्च ॥ ७२५ || मिवहि-५ चरिचटिभ्यो वा ( ७२६) एभ्य उः स च णिद्वा । डुमिंग्ट् मायुः पित्तं मानं शब्दश्च । गोमायुः सृगालः । मयुः किन्नरः उष्ट्र: प्रक्षेपः आकूतं च । बाहुलकादात्वाभावः । वहीं । बाहुः भुजः, बहु प्रभूतम् । चर चारु शोभनम् । चरन्त्यस्माद्देवपितृभूतानि मीमादित्वादपादानेऽपि चरुः देवतो - द्देशेन स्थालीपाकः स्थाली च । चटण् चाटुः प्रियाचरणम् पटुजनः प्रियवादी स्फुटवादी च दर्व्यग्रं शिष्यश्च । चटुः प्रियाचरणम् ॥ ७२६ ॥ ऋगृमृभ्रादिभ्यो रो लश्च (७२७) एभ्यो णिदुः १० रस्य च लः स्यात् । ऋक् ऋ वा । आलुः श्लेष्मातकः कन्दविशेषश्च । तृ तालुः काकुदम् । श शालुः कषायः हिंस्रश्च । मृतू मालुः पत्रलता यस्या मालुधानीति प्रसिद्धिः । टुडुभृंग्क् भालुः इन्द्रः । आदिग्रहणादन्येऽपि ॥ ७२७ ॥ कृकस्थूराद्वचः क् च (७२८) आभ्यां वचो णिदुः कश्चन्तादेशः स्यात् । कृकवाकुः कुक्कुटः कृकलासः खञ्जरीटश्च । एवं स्थूरवाकुः उच्चध्वनिः ॥ ७२८ ॥ पृकाहृषिधृषीषिकुहिभिदिविदिम्मृदिव्यधिगृध्यादिभ्यः कित् (७२९) उ: । पृश् पुरुः १५ महान् लोकः समुद्रः यजमानः राजा च कश्चित् । कैं कुः पृथ्वी । हृषंच् हृषू वा हृषुः तुष्टः अलीकः सूर्याग्निशशिनश्च । ञिधृषाट् धृषुः प्रगल्भः सन्तापः उत्साहः पर्वतश्च । इषत् इषुः शरः । कुहणि कुहुः नष्टचन्द्रामावास्या । भिन्दुपी भिदुः वः कन्दर्पश्च । विदक् विदुः हस्तिमस्तकैकदेशः । मृदश् मृदुः अकठिनः । व्यधंच् विधुः चन्द्रः वायुः अग्निश्च । गृधूच् गृधुः कामः । आदिग्रहणात् 'पूरैचि आप्यायने' पूरण वा । पूरितमनेन यशसा सर्वमिति पूरुः । एवमन्येऽपि ॥ ७२९ ।। रभिप्रथि -: भ्यामृच रस्य (७३०) आभ्यां किदुः रेफस्य च ऋकारः स्यात् । 'रभि रामस्ये' ऋभवः देवाः । प्रथिष् पृथुः राजा त्रिस्तीर्णश्च ॥ ७३० ॥ स्पशिभ्रस्जेः स्लुक् च (७३१) स्पशिः सौत्रो गत्यर्थस्तालव्यान्तः । पशुस्तिर्यङ् मन्त्रवध्यश्च जनः । भ्रस्जत् भृगुः प्रपातः ब्रह्मणश्च सुतः । कित्त्वाद् ‘ग्रहब्रञ्श्चभ्रस्जप्रच्छः’ ( ४|१|८४ ) इति य्वृत् । 'न्यङ्कगमेघादय:' ( ४|१|११२ ) इति गत्वम् ॥ ७३१ ॥ दुःखपवनिभ्यः स्थः (७३२) एभ्यः परात् ष्ठां अस्मात् किदुः स्यात् । २५ दुःष्ठु अशोभनम् । सुष्ठु सातिशयम् । अपष्ठु वामम् । वनिष्ठुः वपासंनिहितोऽवयवः अश्वः संभक्तः अपानं च || ७३२ ॥ हनियाकृभृत्रो द्वे च (७३३) एभ्यः किदुः एषां च द्वे रूपे स्याताम् । हनंक् जघ्नुः इन्द्रः वेगवांश्च । यांक् ययुः अश्वः यायावर: स्वर्गमार्गश्च । डुकंग् चक्रुः कर्मठः वैकुण्ठश्च । टुडुभृंग्क् भृंग् वा । बभ्रुः ऋषिः राजा वर्णश्च । पृश् पुपुरुः समुद्रः चन्द्रः लोकश्च । तॄ तितिरुः पतङ्गः । त्रैङ् तत्रुः नौका ॥ ७३३ ॥ कृग्र ऋत उर च (७३४) कृत् कुरुः ३० राजर्षिः । कुरवः जनपदः । गुश गुरु: आचार्य: लघुप्रतिपक्षः पूज्यश्च जनः (जनः ? ) ॥ ७३४ ॥ परिचात: (७३५) अस्मादुः अकारस्य च इकारः । पिचुः निरस्थीकृतः कर्पासः ॥ ७३५ ॥ अर्तेरूर् च (७३६) अस्मादुः ऊर चास्यादेशः । ऊरुः शरीराङ्गम् ॥ ७३६ ॥ महत्युर् च (७३७) महत्यभिधेयेऽस्मादुः उर् चास्यादेशः उरुर्विस्तीर्णम् ॥ ७३७ ॥ उड् च भे (७३८) अर्त्तेर्भेऽभिधेये उः उड् चास्यादेशः । उडु नक्षत्रम् ॥ ७३८ ॥ श्लिषेः क च ( ७३९) अस्मात् ३५ है० प्रका• उत्त० ११८
२०
1
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org