________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
I
गोपादेरनेरसिः (७०८) गोपादिपूर्वादनक् इत्यस्मादसिः स्यात् । गोपानसिः सौधाग्रभागच्छदिः । चित्रानसिः जलचरः । एकानसि: उज्जयनी वाराणसी कासिनगरी ॥ ७०८ ॥ वृटपृवृसाभ्यो नसिः (७०९ ) वृग्द वर्णसिः तरुः । भृंग्, घर्णसिः शैलः लोकपालः जलं माता च । श् पर्णसिः जलधरः उलूखलं शाकादिश्च । वश वर्गसि: भूमिः । षच् सानसिः स्नेहः नखः हिरण्यं ५क्षणं सखा सनातनश्च ॥ ७०९ ॥ त्रियो हिक् (७१०) त्रीशू, व्रीहिः धान्यविशेषः ॥ ७१० ॥ इति इकारान्ताः पश्चोत्तरेण सूत्रशतेन । तृस्तृतन्द्रितन्त्र्यविभ्य ई (७११) तृ, तरी: नौः वायुः वनश्च । स्तृशू स्तरीः तृणं धूमः नदी शय्या च । तन्द्रिः सादमोहनयोः सौत्रः, तन्द्रीः मोहनिद्रा । तत्र तत्रीः शुष्कस्नायुः वादित्री आलस्यं च । अव, अवीः प्रकाशः आदित्यः भूमिः पशुः राजा स्त्री च ॥ ७११ ॥ नडेर्णित (७१२) गत्यर्थात् नडे: सौत्रात् णित् ईः । नाडी : आयतशुषिरं १० द्रव्यमर्धमुहूर्त्तश्च ।। ७१२ ॥ वातात् प्रमः कित् (७१३) वातपूर्वात्पदात् प्रेणोपसृष्टात् मां अस्मात् किदी: स्यात् । वातप्रमीः वात्याः अश्वः वातमृगः पक्षी शमी च वृक्षः ॥ ७१३ ॥ यापाभ्यां द्वे च (७१४) आभ्यां किदीरनयोश्च द्वे रूपे स्याताम् । यांक् ययीः मोक्षमार्गः दिव्यदृष्टिः आदित्यः अश्वश्च । पां पपीः रश्मिः सूर्यः हस्ती च ॥ ७९४ ॥ लक्षेर्मोन्तश्च (७१५) लक्षीण अस्मादीः मकारश्चान्तः स्यात् । लक्ष्मीः श्रीः ॥ ७१५ ॥ इति ईकारान्ताः पञ्चभिः सूत्रैः। १५ भृमृतत्सरित निधन्यनिमनिमस्जिशी वटिकटिपठिगडिचश्य सिवसित्रपिगृस्वस्तिहिक्लिदिकन्दीन्दिविन्द्यन्धिवन्ध्यणिलोष्टिकुन्थिभ्य उः (७१६) दुडुभृंग्क् भृंगूं वा भरुः समुद्रः वर्णनभर्त्ता च । मृतू मरुर्निर्जलो देशः गिरिश्च । तृ तरुः वृक्षः । ' त्सर छद्मगतौ' । त्सरुः आदर्शः खङ्गादिग्रहणप्रदेशः वञ्चकः क्षुरिका च । तनूयी तनुः देहः सूक्ष्मश्च । धन धान्ये सौत्रः, धनुः अस्त्रं दानमानं च । अनक् अनुः प्राणः, अनु पश्चादाद्यर्थेऽव्ययम् । मनिच् मनुः प्रजापतिः । २० टुमरजोंत् मनुः जलवायसः । शी शयुः अजगरः स्वप्नः आदित्यश्च । वट वटुः माणवकः । कटे कटुः रसविशेषः । 'पट गतौ' । पटुः दक्षः । 'गड सेचने' गडुः घाटामस्तकयोर्मध्ये मांसपिण्डः स्फोटश्च । ‘चञ्च गतौ' चचुः पक्षिमुखम् । असूच् असवः प्राणाः । वसं वसु द्रव्यं तेजो देवता च । वसुः कश्चिद्राजा । त्रपौषि त्रपु लोहविशेषः । शृश् शरुः क्रोधः आयुधं हिंस्रव । औ स्वरुः प्रतापः वज्रः वज्रास्फालनं च । ष्णिहौच स्नेहुः चन्द्रः सन्निपातजो व्याधिविशेषः पित्तं २५ वनस्पतिश्च । क्लिदौच् क्लेदुः क्षेत्रं चन्द्रः भगः शरीरभङ्गश्च । क्लेदयतीति वेदुः चन्द्र इत्यन्ये । कदु कंदु पाकस्थानं सूत्रोतं च क्रीडनम् । इदु इन्दुः चन्द्रः | 'विदु अवयवे' विन्दुः विप्रुट् । अन्धण् अन्धुः कूपः व्रणश्च । बन्धंशू बन्धुः स्वजनः । बन्धु द्रव्यम् । 'अण शब्दे' अणुः पुद्गलः सूक्ष्मः रालकादिश्च धान्यविशेषः । 'लोष्टि सङ्घाते' लोष्टुः मृतपिण्डः । 'कुन्थश् संक्केशे' कुन्थुः सूक्ष्मजन्तुः ॥ ७१६ ॥ स्यन्दिसृजिभ्यां सिन्धरज्जौ च (७१७) आभ्यामुः अनयोश्च यथासयमिमावादेशौ ३० स्याताम् । स्यन्दौङ् सिन्धुः नदी समुद्रश्च । सृजंतू (सृजिंचू वा), रज्जुः दवरकः ॥ ७१७|| पंसेर्दीर्घश्व (७१८) 'पसुण् नाशने' अस्मादुः दीर्घश्चास्य स्यात् । पांसुः पार्थिवं रजः ॥ ७९८ ॥ अशेरान्नोन्तश्च (७१९) अशौटि अस्मादुः अकाराच परोऽस्य नोन्तः स्यात् । अंशुः रश्मिः सूर्यश्च । प्रांशुर्दीर्घश्च । चकारात्पूर्वपर्यायौ ॥ ७१९ ॥ नमेर्नाकू च (७२० ) णमं । अस्मादुः अयं चास्यादेशः स्यात् । नाकुः व्यलीकं वनस्पतिः ऋषिः वल्मीकश्च ॥ ७२० || मनिजनिभ्यां ३५ धतौ च (७२१) आभ्यामुः अनयोश्च यथासङ्ख्यं धतौ स्याताम् । मनिंच, मधु क्षौद्रं सीधु च ।
९३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org