________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९३५ शुभि शुभिः यतिर्विप्रः दर्शनीयं शुभं सत्यं च ॥ ६९३ ॥ जृषो रश्च वः (६९४) अस्मात् किद्रिः । इरि सति रेफस्य वः स्याज्जीनिः शरीरम् ॥ ६९४ ॥ कुन्द्रिकुद्यादयः (६९५) किद्रिप्रत्ययान्ता निपात्यन्ते । कुपेः कौतेर्दश्चान्तः । कुन्द्रिः ऋषिः । कुद्रिः पर्वतः ऋषिः समुद्रश्च । आदिग्रहणात् क्षौतेदोंन्तः शुद्रिः समुद्रः । अर्तेर्गोन्तः । ऋषिः लोकनाथः । शके: शक्रिः बलवानित्यादयो भवन्ति ॥ ६९५ ॥ राशदिशकिकद्यदिभ्यस्त्रिः (६९६) रांक् , रात्रिः निशा ।५ शदं शत्रिः कुञ्जरः क्रौञ्चश्च । शक्लंट, शक्त्रिः क्रौञ्चः ऋषिश्च । कद कत्रिः । अदक्, अत्रिः ऋषिः ॥ ६९६ ॥ पतेरत्रिः (६९७) पतत्रिः पक्षी ॥ ६९७ ॥ नदिवल्यर्तिकृतेररिः (६९८) नद, नदरिः पटहः । वल्लि, वल्लरिः लता वीणा सस्यमञ्जरी च । ऋक्, अररिः कपाटः । कृतैत्, कर्तरिः केशादिकर्त्तनयन्त्रम् ॥ ६९८ ॥ मस्यसिघसिजस्यङ्गिसहिभ्य उरिः (६९९) मसैच् , मसुरिः मरीचिः । असूच असुरिः संग्रामः । घरलं घसुरिः अग्निः । जसूच, जसुरिः समाधिः १० अशनि अरणिः क्रोधश्च । अगु अङ्गुरिः करशाखा, लत्वे अङ्गुलिः । षहि सहुरिः पृथ्वी अक्रोधनः (अनड्वान् ) संग्रामः अन्धकारः सूर्यश्च ॥ ६९९ ॥ मुहे कित् (७००) मुहुरिः सूर्यः अनड्वांश्च ॥७००॥धूमूभ्यां लिकलिणौ (७०१) धूग्श धूलिः । मूङ् मौलिः जूटः । णित्वाद्वृद्धिः ॥ ७०१॥ पाट्यञ्जिभ्यामलि: (७०२) 'पट गतौ' ण्यन्तः । पाटलिः । अञ्जौप् अञ्जलिः पाणिपुटः प्रणामहस्तयुगं च ॥७०२॥ माशालिभ्यामोकुलिमलि (७०३) आभ्यां यथासय-१५ मेतौ स्याताम् । मां मौकुलिः काकः । 'शल गतौ' । ण्यन्तः । शाल्मलिः वृक्षः॥ ७०३ ॥ दपवृभ्यो विः (७०४) दृश् दर्विः तर्दूः । पृश् पर्विः कङ्कः हिंस्रश्च । वृगश वर्विः शकटं धात्री काकः श्येनश्च ॥ ७०४ ॥ जस्तृजागृकृनीघृषिभ्यो ङित् (७०५) विः । जच् जीविः पशुः कण्टकः शकटः मद्नुः कायः गुल्मं शङ्का वृद्धः वृद्धभावश्च । शृश् शीविः (हिंस्रः) कृमिः न्यकुश्च । स्तुगश् , स्तीविः गर्विष्ठः अध्वर्युः भगः तनुः रुधिरं भयं तृणजातिः नमः अजश्च ।२० जागृविः राजा अमिः प्रबुद्धश्च । ङित्त्वान्न गुणः । डुकंग् कविः रुद्रः तन्तुवायद्रव्यं राजा च । यदुपझं कृवय इति पुरा पश्चालानाचक्षते । णींग नीविः परिधानप्रन्थिः मूलधनं च । घृष, घृध्विः वराहः वायुः अग्निश्च ॥७०५॥ छविछिविस्फविस्फिविस्थाविस्थिविदविदीविकिकिविदिदिविदीदिविकिकीदिविकिकिदीविशिव्यटव्यादयः (७०६) ङिद्विप्रत्ययान्ता निपात्यन्ते । च्यतेईस्वश्च । छविः त्वक् तच्छाया (आवरणं च)। छिदेर्लुक् च । छिविः फल्गुद्रव्यम् ।२५ स्फायतेः स्फस्फिभावौ च । स्फविः वृक्षजातिः । स्फिविः वृक्षः उदश्विञ्च । तिष्ठतेः स्थस्थिभावौ । स्थविः प्रसेवकः तन्तुवायः सीमा अमिः अजङ्गमः स्वर्गः कुष्ठी मांसं फलं च । स्थिविः सीमा । दमेढुंकू च । दविः धर्मशीलः दाता स्थानं फलश्च । दीव्यतेर्दीर्घश्च । दीविः कितवः द्युतिमान कालः व्याघ्रजातिश्च । कितेर्द्वित्वं पूर्वस्य चत्वाभावो लुक् च । किकिविः पक्षिविशेषः । दिवेद्वित्वं पूर्वदीर्घत्वं वा दिदिविः स्वर्गः । दीदिविः अन्नं स्वर्गश्च । (कितेः किकीदिभावः) कीदिविः वर्णः पक्षी च । किकि-३० पूर्वाद्दीव्यतेर्दीर्घश्च । किकीति कुर्वन् दीव्यति किकिदीविः चापः । शीडो हस्खश्च । शिविः राजा । अटेरच्चान्तः । अटविः अरण्यम् । आदिग्रहणादन्येऽपि ॥ ७०६॥ मुषिप्लुषिशुषिकुष्यशिभ्यः सिक् (७०७) कित् सिः । प्रुधू प्लषू अक्षिः अग्निः उदपानश्च । प्लुक्षिः अग्निः जठरं कुसूलश्च । शुषंच शुक्षिः वायुः निदाघः यवासकः तेजश्च । कुषश् कुक्षिः जठरम् । अशौटि, अक्षि नेत्रम् ॥ ७०७॥३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org