Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 521
________________ ८९४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुजैव च (६७) जीवेरातकः प्रत्ययः अयं चास्यादेशः जैवातकः आयुष्मान् चन्द्र आम्रः वैद्यः मेघश्च । जैवातृका जीवद्वत्सा स्त्री ॥ ६७॥ हृभूलाभ्य आणक: (६८) एभ्य आणकः । हूंग , हराणकः चौरः । भू भवाणकः गृहपतिः । लांक्, लाणकः हस्ती ॥ ६८॥ प्रियः कित् (६९) आणकः । प्रीम्श् प्रियाणकः पुत्रः ॥६९॥ धालूशितिभ्यः (७०) एभ्य आणकः। योगविभाग उत्तरार्थः । ५दुधांग्क् धाणकः दीनारद्वादशभागः हविषां ग्रहः छिद्रपिधानं च । लूगश लवाणकः कालः तृणजातिः दात्रं च । शिघु शिवाणकः नासिकामलः ॥ ७० ॥ शीभीराजेश्चानकः (७१) एभ्यो धाप्रभृतिभ्यश्चानकः स्यात् । शीव शयानकः अजगरः शैलश्च । (बिभीक विभेत्यस्मादिति भयानको भीमो व्याघ्रो वराहो राहुश्च । राजृग् राजानकः क्षत्रियः ।. दुधांगक् धानका हेमादिपरिमाणम् ) लूग्श् लवानकः दात्रं देशविशेषश्च । शिजत्यनेनेति शिवानकः श्लेष्मा आयुः १० पुरीषं च ॥७१॥ अणेर्डित् (७२) आनकः । 'अण शब्दे' । आनकः पटहः ॥७२॥ कनेरीनकः (७३) कनै कनीनकः कनीनिका वाक्षितारिका ॥७३॥ गुङ ईधुकएधुको (७४) 'गुङ् शब्दे' । अस्मादेतौ स्याताम् । गवीधुकं नगरं, गवेधुका तृणजातिः ॥ ७४ ॥ वृतेस्तिकः (७५) वृतूङ् । वर्तिका चित्रकारोपकरणं शकुनिद्रव्यगुटिका च ॥ ७५॥ कृतिपुति लतिभिदिभ्यः कित् (७६) कृतैत्, कृत्तिका नक्षत्रम् । पुतिलती सौत्रौ पुत्तिका मधुमक्षिका । १५ लत्तिका वाद्यविशेषः गौः गोधा च । गोपूर्वात् गोलत्तिका गृहगोलिका । अवपूर्वात् अवलत्तिका गोधा । आलत्तिका गानप्रारम्भः । भिदंपी, भित्तिका कुड्यं माषादिचूर्णं शतावरी च नदी ॥७६॥ इष्यशिमसि (७७) एभ्यस्तकक् ॥ इषत् इष्टका मृद्विकारः । अशौटि अष्टकास्तिस्रोष्टम्यः पितृदैवत्यं च । मसैन् ; मस्तकं शिरः ॥७७॥ भियो द्वे च (७८) अस्मात्तकक् । अस्य च द्वे रूपे स्याताम् । बिभीतकः अक्षः ॥७८॥ हरुहिपिण्डिभ्य ईतकः (७९) हरति रोगान् हरीतकी पथ्या। रोह२० त्यनेन प्रणादिकं रोहीतकः वृक्षविशेषः । पिडुङ्, पिण्डीतकः करहाटः ॥७९॥ कुषेः कित् (८०) ईतकः । कुषीतक ऋषिः ॥८०॥ बलिबिलिशलिदमिभ्य आहकः (८१) बल बलाहकः मेघः वातश्च । 'बिलत् भेदने' बिलाहकः वज्रः बाहुलकान्न गुणः । शल शलाहकः वायुः । दमूच दमाहकः शिष्यः ॥८१॥ चण्डिभल्लिभ्यामातकः (८२) चडुङ् कोपे, चण्डातकं नर्त्तक्यादिवासः । भल्लि भल्लातकः वृक्षविशेषकः ॥ ८२॥ श्लेष्मातकाम्रातकामिलातकपिष्टातकादयः (८३) एते २५आतकप्रत्ययान्ता निपात्यन्ते । श्लिषेर्मश्च परादिः श्लेष्मातकः कफेलुः। अमेर्वृद्धीरश्चान्तः आम्रातको वृक्षविशेषः । नमः परस्य म्लायतेर्मिल् च अमिलातकं कर्णपुष्पम् । पिपेस्तोन्तश्च पिष्टातकं वर्णचूर्णम् । आदिग्रहणात् कोशातक्यादयो भवन्ति ॥ ८३॥ इति इकादयो विंशतिसूत्रैः । एवं इति कोपान्त्यप्रत्ययप्रकरणं त्रिषष्ट्या सूत्रैः। शमिमनिभ्यां खः (८४) शमूच् शङ्खः कम्बुः निधिश्च । मनिंच मङ्खः मागधः कृपणः चित्रपटश्च । मङ्खा मङ्गलम् ॥८४॥ श्यतेरिच वा (८५) शोंच् , शिखा चूडा ३० ज्वाला च । विशिखा आपणः । विशिखः बाणः । शाखा विटपः । विशाखा नक्षत्रम् । विशाखः स्कन्दः ॥ ८५॥ पूमुहोः पुन्मूरौ च (८६) पूङ मुहौच इत्येताभ्यां खः अनयोश्च यथासंभवमिमादेशौ स्याताम् । पुङ्खः बाणबनभागः मङ्गलाचारश्च । मूर्खः ॥८६॥ अशोर्डित (८७) खः अश्रुत इति खमाकाशमिन्द्रियं च । नास्ति खमस्मिन् नखः । शोभनानि खान्यस्मिन् सुखम् । दुष्टानि खान्यस्मिन् दुःखम् ॥८७॥ उषेः किल्लक् च (८८) 'उषू दाहे' अस्मात् कित्खप्रत्ययो लुक् ३५ चान्तस्य स्यात् । उपन्यस्यामिति उखा स्थाली ऊर्द्धक्रिया वा ॥८८॥ महेरुचास्य वा (८९) 'मह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636